________________ 331 लघी० प्रमाणप्र० का०७] षोडशपदार्थवादः प्रतिज्ञातार्थस्य ‘अनित्यः शब्दः' इत्यादेः ऐन्द्रिकत्वस्य हेतोर्व्यभिचारप्रदर्शनेन प्रतिषेधे कृते तं दोषमनुद्धरन् धर्मविकल्पं करोति-किमयम् असर्वगतः शब्दः घटवत् , किं वा सर्वगतः सामान्यवत् ? यदि असर्वगतः घटवत् ; तर्हि तद्वद्वेव अनित्योऽस्तु, इति सोऽयम् ‘अनित्यः शब्दः' इति पूर्वप्रतिज्ञातः 'असर्वगतः शब्दः' इति प्रतिज्ञान्तरं कुर्वन् निगृह्यते साधनसामर्थ्याऽपरिज्ञानात् इति / "प्रतिज्ञा-हेत्वोर्विरोधः प्रतिज्ञाविरोधः।" [न्यायसू० 5 / 2 / 4 ] यंत्र प्रतिज्ञा हेतुना विरुद्धचते हेतुर्वा प्रतिज्ञया स प्रतिज्ञाविरोधः / यथा गुणव्यतिरिक्तं द्रव्यम् रूपादिभ्यो भेदेनानुपलब्धेः इति / . _ "पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः।" [ न्यायसू० 5 / 2 / 5 ] यथा 'अनित्यः शब्दः ऐन्द्रियकत्वात् घटवत्' इत्युक्ते पूर्ववत् सामान्येन अनैकान्तिकत्वे हेतोरुद्भाविते 10 प्रतिज्ञासन्न्यासं करोति-'क एवम् आह अनित्यः शब्दः' इति / : "अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् / " [ न्यायसू 0 5 / 2 / 6 ] यथा एकप्रकृति इदं व्यक्तम् परिमाणात् घटादिवत् / परिमितत्वं हि घटादेः एकमृत्पूर्वकस्य दृष्टम् , तत् महदादिविकारजातेः प्रतीयमानम् एकप्रकृतिपूर्वकत्वं साधयति, इत्यस्य हेतोः व्यभिचारेण प्रत्यवस्थानम्-एकप्रकृतीनां नानाप्रकृतीनाञ्च दृष्टं परिमाणम् इत्यस्य हेतोरहेतुत्वे निश्चितेऽ- 15 पि 'एकप्रकृतिसमन्वये सति विकाराणां परिमाणात्' इति तत्परिजिहीर्षया विशेषणमाह / किन्तु हेतुदृष्टान्तौ साधनं प्रतिज्ञायाः, तदेतदसाधनोपादानमनर्थकमिति आनर्थक्यान्निग्रहस्थानमिति / " न्यायभा० 5 / 2 / 3 / “तत्कथं निग्रहस्थानम् ? साधनसामर्थ्यापरिज्ञानात् / " न्यायवा० 5 / 2 / 3 / “प्रतिज्ञातार्थप्रतिषेधे परेण कृते धर्मान्तरविकल्पादर्थनिर्देशः प्रतिज्ञान्तरमुच्यते / " तर्कशा० पृ. 34 / - 1 “यत्र प्रतिज्ञा हेतुना विरुद्धयते हेतुश्च प्रतिज्ञया स प्रतिज्ञाविरोधो नाम निग्रहस्थानम् / एतेनैव प्रतिज्ञाविरोधोऽप्युक्तः, यत्र प्रतिज्ञा स्ववचनेन विरुद्धयते यथा श्रमणा गर्भिणी। हेतुविरोधोऽपि... एतेन प्रतिज्ञया दृष्टान्तविरोधोऽपि वक्तव्यः / " न्यायवा० 5 / 2 / 4 / न्यायमं० पृ. 643 / "हेतुप्रतिज्ञयोर्विरोधः प्रतिज्ञाविरोध इत्युच्यते / " तर्कशा० पृ. 35 / 2 तत्र भां० / 3 “यः प्रतिज्ञातमर्थ प्रतिषेधे कृते परित्यजति स प्रतिज्ञासन्न्यासो वेदितव्यः / "एतत्साधनसामर्थ्य परिच्छेदात् विप्रतिपत्तितो निग्रहस्थानम् / " न्यायवा० 5 / 2 / 5 / न्यायसार पृ. 24 / न्यायमं० पृ. 644 / न्यायकलि. पृ० 23 / “परेण स्वप्रतिज्ञाप्रतिषेधे कृते सन्न्यासोऽसमर्थनेति प्रतिज्ञासन्न्यासः / " तर्कशा० पृ. 35 / 4 “साधनान्तरोपादाने पूर्वस्यासामर्थ्यख्यापनान्निग्रहस्थानमिति / सामर्थ्य वा हेत्वन्तरं व्यर्थमिति / " न्यायवा० 5 / 2 / 6 / “हेत्वन्तरं नाम प्रकृतिहेतौ वाच्ये विकृतिहेतुमाह / ' चरकसं० पृ० 267 / "अविशेषहेतौ स्थापिते पश्चाद्धत्वन्तरोक्तिरिति हेत्वन्तरम् / " तर्कशा० पृ. 36 / 5 महादि-आ० / ६-त्वं प्रसा-ब०, ज०, भां०, श्र० /