________________ 330 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० च द्वाविंशतिप्रकाराणि भवन्ति-"प्रतिज्ञाहानिः, प्रतिज्ञान्तरम्, प्रतिज्ञाविरोधः, प्रतिज्ञासन्न्यासः, हेत्वन्तरम्, अर्थान्तरम्, निरर्थकम्, अविज्ञातार्थम्, अपार्थकम्, अप्राप्तकालम्, न्यूनम्, अधिकम्, पुनरुक्तम्, अननुभाषणम्, अज्ञानम्, अप्रतिभा, विक्षेपः, मतानुज्ञा, पर्य्यनुयोज्योपेक्षणम्, निरनुयोज्यानुयोगः, अपसिद्धान्तः, हेत्वाभासाश्च निग्रहस्थानानि / " 5 [न्यायसू० 5 / 2 / 1] इति सूत्रकारवचनात्। तत्र 'अननुभाषणम् , अज्ञानम् , अप्रतिभा, विक्षेपः, पर्यनुयोज्योपेक्षणम् ' इति अप्रतिपत्त्या सङ्ग्रहीतानि, शेषाणि विप्रतिपत्त्या / तत्र प्रतिज्ञाहानेर्लक्षणम्-"प्रतिदृष्टान्तधर्माऽनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः / " [न्यायसू० 5 / 2 / 2 ] प्रतिज्ञासिद्धये वादिना साधने अभिहिते प्रतिवादिना च तत्र दूषणे, तृतीये वचसि वर्तमानो वादी यदि प्रतिदृष्टान्तधर्म स्वदृष्टान्ते अनुजानाति तदा अस्य प्रतिज्ञा हीयते 10 इति प्रतिज्ञाहानिः / यथा 'अनित्यः शब्दः ऐन्द्रियकत्वात् घटवत्' इत्युक्ते परः प्रत्यवतिष्ठते 'सामान्यम् ऐन्द्रियकं नित्यं दृष्टम् इत्यनैकान्तिकोऽयं हेतुः' इत्युक्ते साधनवादी आह-'यदि . सामान्यम् ऐन्द्रियकं नित्यम् , कामं घटोऽपि तथास्तु' इति / "प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात् तदर्थनिर्देशः प॑तिज्ञान्तरम् / " [न्यायसू० 5 / 2 / 3 ] 1 "द्वाविंशतिविधा निग्रहस्थानापत्तिः-प्रतिज्ञाहानिः / " तर्कशा० पृ०३३ / “निग्रहस्थानं नाम त्रिभिरभिहितस्य वाक्यस्यापरिज्ञानं परिषदि विज्ञानवत्याम् , यद्वा अननुयोज्यस्य अनुयोगः अनुयोज्यस्य चाननुयोगः। प्रतिज्ञाहानिरभ्यनुज्ञा कालातीतवचनमहेतवो न्यूनमतिरिक्तम् व्यर्थमपार्थक पुनरुक्तं विरुद्धं हेत्वन्तरमर्थान्तरं निग्रहस्थानम्।" चरकसं० पृ० 267 / 2 न्यायभाष्यकारेण मतानुज्ञाऽपि (112 / 20) अप्रतिपत्त्या सगृहीता। मजरीकृता तु 'अननुभाषणमज्ञानमप्रतिभा विक्षेपः पर्यनुयोज्योपेक्षणम्' इति पञ्चैव अप्रतिपत्तिरूपेण गणितानि ( न्यायमं पृ० 639, न्यायकलि० पृ० 22 ) प्रकृते तु मञ्जरीकृतामेव मतं समादृतम् / 3 “साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थिते प्रतिदृष्टान्तधर्म स्वदृष्टान्ते अभ्यनुजानन् प्रतिज्ञां जहातीति प्रतिज्ञाहानिः / " न्यायभा० 5 / 2 / 2 / भाष्यकारीयव्याख्याने वार्तिककारस्य मतभेदः ; तथाहि"एतत्तु न बुद्धथामहे कथमत्र प्रतिज्ञा हीयते इति ? हेतोरनैकान्तिकत्वं सामान्यदृष्टान्तेन परेण चोदिते तस्यानैकान्तिकदोषोद्धारमनुक्त्वा स्वदृष्टान्ते नित्यतां प्रतिपद्यते / नित्यताप्रतिपत्तेश्चासिद्धता दृष्टान्तदोषो भवति, सोऽयं दृष्टान्तदोषेण साधनदोषेण वा निग्रहो न प्रतिज्ञाहानिः / "कथं तर्हि इदं सूत्रम्-'प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिरिति ? दृष्टश्चासौ अन्ते व्यवस्थितश्च इति दृष्टान्तः, स्वश्चासौ दृष्टान्तश्रेति. स्वदृष्टान्तशब्देन पक्ष एव अभिधीयते / प्रतिदृष्टान्तशब्देन च प्रतिपक्षः, प्रतिपक्षश्चासौ दृष्टान्तश्चेति / एतदक्तं भवति-परपक्षस्य यो धर्मस्तं स्वपक्ष एवानुजानाति "एषा प्रतिज्ञाहानिः / " न्यायवा० 5 / 2 / 2 / "प्रतिज्ञासिद्धये वादिना साधनेऽभिहिते...।” न्यायमं० पृ. 640 / न्यायसार पृ० 23 / “प्रतिज्ञाहानिनीम सा पूर्वप्रतिगृहीतां प्रतिज्ञां पर्यनुयुक्तः परित्यजति / " चरकसं० पृ. 266 / “स्वप्रतिज्ञायां प्रतिपक्षाभ्यनुज्ञेति प्रतिज्ञाहानिः / " तर्कशा० पृ० 33 / ४."अनित्यः शब्दः इति पूर्वी प्रतिज्ञा, असर्वगतः इति द्वितीया प्रतिज्ञा प्रतिज्ञान्तरम् / तत्कथं निग्रहस्थानमिति ? न प्रतिज्ञायाः साधने प्रतिज्ञान्तरं