________________ लघी० प्रमाणप्र० का० 7] षोडशपदार्थवादः 329 "नित्यमनित्यभावाद् अनित्ये नित्यत्वोपपत्तेः नित्यसमः।" [ न्यायसू० 5 // 1 // 35 ] यथा 'अनित्यः शब्दः' इत्युक्ते जातिवादी अनित्यत्वाख्यसाध्यधर्मस्वरूपविकल्पनेन शब्दस्य नित्यत्वमापादयति ; तथाहि-किमिदम् अनित्यत्वं शब्दस्य नित्यम् , अनित्यं वा ? यदि नित्यम् ; तर्हि धर्मस्य नित्यत्वात् तदाश्रयस्यापि शब्दस्य नित्यमनित्यभावाद् अनित्यधर्माधारतयाऽसत्त्वात् नित्यत्वम् / अथ अनित्यम् ; तत्रापि अनित्यत्वे अनित्ये सिद्धं नित्यत्वं 5 शब्दस्य इति / "प्रयत्नकार्याऽनेकत्वात् कार्यसमः।" [ न्यायसू. 5 // 1 // 37 ] यथा 'अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् ' इत्युक्ते परः प्रयत्नकार्याऽनेकत्वोपन्यासेन प्रत्यवतिष्ठते-प्रयत्नस्य कार्यवैविध्यमुपलभ्यते, किश्चिद् असदेव प्रयत्नेन. अभिनिर्वत्यते यथा घटादि, किञ्चित् सदेव आवरणापनयनद्वारेण अभिव्यज्यते यथा काण्डपटाद्यावृतं घटादि, इति कथमतः शब्दस्य 1 अनित्यता इति ?. सत्यवस्त्वप्रतिभासो विपरीतप्रतिभासश्च निग्रहस्थानम् / तथा च सूत्रम्-"विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् / " [न्यायसू० 1 / 2 / 16 ] विरुद्धा कुत्सिता वा प्रतिपत्तिः विप्रतिपत्तिः, तत्त्वप्रतिपत्तेरभावोऽप्रतिपत्तिः इति सकलनिग्रहस्थानानां सामान्यलक्षणमिदम् / तानि 1 अनित्यत्वसाध्यधर्मस्वरूपविकल्पनेन शब्दनित्यत्वापादनं नित्यसमः प्रतिषेधः / " न्यायमं० पृ० * 633 / न्यायकलि. पृ० 20 / न्यायसार पृ०२२ / 2 "प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्थानं कार्यसमः ।.."न चेयं संशयसमा जातिः; हेत्वर्थविकल्पनेन इह प्रत्यवस्थानात् / तथाहि-निरवयवत्वादाकाशसाधोपन्यासेन संशय आपादितः, इह तु साधनवाद्युक्तप्रयत्नानन्तरीयकत्वहेत्वर्थनिरूपणेनेति / " न्यायमं० पृ० 634 / न्यायकलि० पृ० 21 / उपायहृदय पृ० 28 / “कार्यभेदात् घटवच्छब्द इति न वक्तव्यम् , एतत् कार्यभेदखण्डनमुच्यते / " तर्कशा० पृ० 23 / ३-यद्वैवि-श्र०। 4 “विपरीता कुत्सिता वा प्रतिपत्तिः विप्रतिपत्तिः''अप्रतिपत्तिस्तु आरम्भविषयेऽप्यप्रारम्भः-परेण स्थापितं वा न प्रतिषेधति प्रतिषेधं वा नोद्धरति / " न्यायभा० 1 / 2 / 19 / “निग्रहस्थानानि खलु पराजयवस्तून्यपराधाधिकरणानि प्रायेण प्रतिज्ञाद्यवयवाश्रयाणि तत्त्ववादिनमतत्त्ववादिनञ्चाभिसम्प्लवन्ते / " न्यायभा० 5 / 2 / 1 / निग्रहः पराजयः, तस्य स्थानमाश्रयः कारणमित्यर्थः / न्यायकलिका पृ. 21 / “असाधनाङ्गवचनमदोषोद्भावनं द्वयोः / निग्रहस्थानमन्यत्तु न युक्तमिति नेष्यते // " वादन्याय पृ० 2 / “प्रकृताशेषतत्त्वार्थप्रकाशपटुवादिनः / विब्रुवाणो ब्रवाणो वा विपरीतो निगृह्यते // तस्मादेकस्य प्रकृतसिद्धरेव परस्य निग्रहो न प्रकारान्तरेण / " न्यायवि. वि. पृ० 527 उ० / “आस्तां तावदलाभादिरयमेव हि निग्रहः / न्यायेन विजिगीषूणां स्वाभिप्रायनिवर्त्तनम् // " न्यायवि. वि. पृ. 532 पू० / “तत्रेह तात्त्विके वादेऽकलकैः कथितो जयः। स्वपक्षसिद्धिरेकस्य निग्रहोऽन्यस्य वादिनः // 46 // " तत्त्वार्थश्लो० पृ० 281 / 42