________________ 328 लघीयत्रयालङ्कारे न्यायकुमुदचन्द्रे [ 2 विषयपरि० "उभयकारणोपपत्तेः उपपत्तिसमः / " [ न्यायसू० 5 / 1 / 25 ] यथा अस्मिन्नेव साधने प्रयुक्ते जातिवादी प्रत्यवतिष्ठते-यदि अनित्ये कारणं प्रयत्नानन्तरीयकत्वमस्ति इति अनित्योऽसौ तदा नित्यत्वेऽपि अस्य कारणं निरवयवत्वम् अस्ति इति नित्योऽस्तु इति / “निर्दिष्टकारणाभावेऽप्युपलम्भात् उपलब्धिसमः / " [ न्यायसू० 51 // 27 ] निर्दिष्टस्य 5 साध्यधर्मसिद्धिकारणस्यं अभावेऽपि साध्यधर्मोपलब्ध्या प्रत्यवस्थानम् उपलब्धिसमः प्रतिषेधः। यथा अत्रैव साधने प्रयुक्ते परः प्रत्यवतिष्ठते-शाखादिभङ्गजे शब्दे विद्युदादौ च प्रयत्नानन्तरीयकत्वाभावेऽपि अनित्यत्वमस्ति इति / / "तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेः अनुपलब्धिसमः / ' [ न्यायसू० 5 / 1 / 26 ] यथा 'प्रागुच्चारणाद् अविद्यमानः शब्दः असत्यावरणेऽनुपलब्धेः, आवरणाऽसत्त्वञ्च 10 अनुपलब्धेः सिद्धम् , यस्य तु दर्शनात् प्राग् विद्यमानस्य अनुपलब्धिः न तस्य आवरणाऽनुप लब्धिः यथा पटाद्यावृतस्य घटादेः, आवरणाऽनुपलब्धिश्च श्रवणात् प्राक् शब्दस्य' इत्युक्ते जातिवादी आह-तदनुपलब्धेः शब्दावरणाऽनुपलब्धेरप्यनुपलम्भाद् अभावसिद्धिः 'आवरणाऽनुपलब्धिर्नास्ति अनुपलब्धेः' इति, तद्विपरीतोपपत्तेः शब्दस्य अभावविपरीतत्वेन भावस्योपपत्तेः अनुपलब्धिसमः प्रतिषेधः। “साधर्म्यात् तुल्यधर्मोपपत्तेः सर्वाऽनित्यत्वप्रसङ्गाद् अनित्यसमः।" [ न्यायसू० 5 / 1 / 32 ] यथा अस्मिन्नेव प्रयोगे परः प्रत्यवतिष्ठते-यदि शब्दस्य अनित्येन घटेन साधर्म्य प्रयत्नानन्तरीयकत्वमस्ति इति अनित्यत्वं स्यात् , तदा सर्वभावानां सत्त्वादिना घटेन साधर्म्यमस्ति इति अनित्यत्वं स्यादिति / 1 “उभयस्य अनित्यत्वस्य नित्यत्वस्य च कारणोपपत्त्या प्रत्यवस्थानमुपपत्तिसमः / " न्यायभा० 5 / 1 / 25 / न्यायकलि० पृ० 19 / “ननु सैवेयं साधादिसमा प्रकरणसमा वा- जातिर्न भेदान्तरम् ; मैवम् ; उद्भावनप्रकारेण भेदात् / परपक्षोपमर्दबुद्ध्या साधादिसमा जातिः प्रयुज्यते, पक्षान्तरोत्थापनास्थया प्रकरणसमा , अप्रतिपत्तिपर्यवसायित्वाशयेनेयमुपपत्तिसमेति / " न्यायमं० पृ० 630 / 2 उपलम्भस-भां० / “सर्वसाध्यारोपेण अव्यापकत्वं साधनस्येत्युपलब्धिसमार्थः। न्यायवा० 5 / 2 / 27 / न्यायसार पृ० 21 / न्यायमं० पृ. 631 / “विशिष्टहेतुना नित्यतावर्णनादोषोऽहेतुरिति उपलब्धिखण्डनमुच्यते।" तर्कशा० पृ० 19 / 3 "अनुपलब्ध्या प्रत्यवस्थानमनुपलब्धिसमा / " न्यायकलि० पृ. 20 / न्यायम० पृ. 631 / न्यायसार पृ० 21 / 4 “सर्वभावानित्यत्वप्रसङ्गेन प्रत्यवस्थानमनित्यसमः / ... अविशेषसमैवेयं जातिरिति चेत् ; तत्र हि सत्तायोगात् सर्वभावनामविशेष आपादितः इह तु घटसाधयादेव अनित्यत्वमापादितमिति उद्भावनभङ्गिभेदाच जातिनानात्वमिति / " न्यायमं० पृ० 632 / न्यायकलि. पृ. 20 / “अविशेषसमातोऽनित्यसमा न भिद्यते तत्रापि सर्वाविशेष इहापीति / भिद्यते, तत्र सर्वाविशेष इह सर्वानित्यत्वमिति / " न्यायवा० / / 1 / 32 / 5 अनित्यत्वेन ज०। .