________________ 327 लघी० प्रमाणप्र० का० 7 ] षोडशपदार्थवादः - "उभयसाधात् प्रक्रियासिद्धेः प्रेकरणसमः / " [न्यायसू० 5 / 1 / 16 ] यथाअस्मिनेव प्रयोगे अनित्यसाधर्म्यात् प्रयत्नानन्तरीयकत्वात् कश्चिदनित्यतां साधयति , अपरः पुनः नित्याकाशसाधात् निरवयवत्वात् नित्यताम् इति, अतः पक्षे विपक्षे च प्रक्रिया समाना सिद्धा इति / "त्रैकाल्याऽनुपपत्तेः हेतोः अहेतुसमः / " [ न्यायसू० 5 / 1 / 18 ] यथा सम्यक् साधने 5 प्रयुक्त दूषणमपश्यन् जातिवादी आह-'साध्यात् पूर्व वा साधनम् , उत्तरं वा, सहभावि वा स्यात् ? न तावत् पूर्वम् ; असत्यर्थे तस्य साधनत्वाऽनुपपत्तेः। नाप्युत्तरम् ; असति साधने पूर्व साध्यस्य साध्यस्वरूपत्वाऽसंभवात्। नापि सहभावि; स्वतन्त्रतया प्रसिद्धयोः साध्य-साधनमाऽिसंभवात् सह्यविन्ध्यवत् इति अहेतुसमत्वेन प्रत्यवस्थानम् अहेतुसमः प्रतिषेधः / " अर्थापत्तितः प्रतिपक्षसिद्धेः अर्थापत्तिसमः।" [ न्यायसू० 5 / 5 / 21 ] यथा प्राक्तन एव 10 साधने प्रयुक्ते जातिवादी आह-यदि घटसाधर्म्यात् प्रयत्नानन्तरीयकत्वाद् अनित्यः शब्दः तदा "अर्थादापद्यते-'निरवयत्वात् आकाशसाधात् नित्यः' इति / ___ "एकधर्मोपपत्तेरविशेषे सर्वाऽविशेषप्रसङ्गात् सद्भावोपपत्तेः 'अविशेषसमः / " [ न्यायसू० 5 / 1 / 23 ] यथा अत्रैव साधने प्रयुक्ते परः प्रत्यवतिष्ठते-यदि शब्द-घटयोः एको धर्मः प्रयत्नानन्तरीयकत्वमस्ति इति तयोः अनित्यत्वाऽविशेषोऽभिधीयते, तर्हि सर्वार्थेषु सत्त्वधर्मस्य 15 उपपत्तेः अनित्यत्वाऽविशेषः स्यात् इति / १-याप्रसि-ब०, ज० / 2 "उभयेन नित्येन चानित्येन साधात् पक्षप्रतिपक्षयोः प्रवृत्तिः प्रक्रिया प्रकरणानतिवृत्त्या प्रत्यवस्थानं प्रकरणसमः / " न्यायभा० 5 / 1 / 16 / “द्वितीयपक्षोत्थापनबुद्धया प्रयुज्यमाना सैव साधर्म्यसमा वैधर्म्यसमा जातिः प्रकरणसमा भवति / " न्यायकलि० पृ० 19 / "तत्र प्रकरणसमो नामाऽहेतुः यथा अन्यः शरीदात्मा नित्य इति पक्षे ब्रूयात्-यस्मादन्यः शरीरादात्मा तस्मान्नित्यः, शरोरं ह्यनित्यमतो विधर्मिणा चात्मना भवितव्यमित्येष चाऽहेतुः, न हि य एव पक्षः स एव हेतुः / " चरकसं० पृ० 266 / ३-मानात्सिद्धा ब०, ज० / 4 "हेतुः साधनं पूर्वं पश्चात् सह वा भवेत् 'इति हेतुरहेतुना न विशिष्यते, अहेतुना साधात् प्रत्यवस्थानमहेतुसमः / " न्यायभा० 5 / 1 / 18 / न्यायमं० पृ. 628 / न्यायसार पृ. 20 / न्यायकलि. पृ० 19 / "त्रैकाल्ये हेतोरसम्भव इत्यहेतुखण्डनमुच्यते / प्रतिवादी प्राह-किं हेतुः साध्यात्पूर्वं पश्चाद् युगपद्वा ?" तर्कशा० पृ. 18 / ५-वे सा-ब०, ज०। 6 अस्य श्र० / ७-भवत्वात् भां०, श्र०। ८-भवाभावात् श्र० / ९-विन्ध्यादिवत् श्र० / 10 “अर्थादापद्यते प्रतिपक्षसिद्धिरित्येवं क्रियमाणः प्रतिषेधः अर्थापत्तिसमो भवति / " न्यायमं० पृ० 629 / विपक्षेऽर्थापत्तिरेतदर्थापत्तिखण्डनम् / " तर्कशा० पृ 25 / 11 “अविशेषोपपादनेन प्रत्यवस्थानमविशेषसमः / " न्यायमं० पृ० 629 / न्यायकलि० पृ० 19 / न्यायसार पृ० 21 / “एकधर्मख्यापनात् सर्वस्याविशेषेण प्रत्यवस्थानमविशेषखण्डनमुच्यते / " तर्कशा० पृ० 15 / /