________________ 326 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० न च तदन्तरेण साध्यसिद्धिः अतिप्रसङ्गात् हेत्वन्तरान्वेषणे चानवस्था इति प्रेसङ्गसमः प्रतिषेधः / - प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रेतिदृष्टान्तसमः / यथा प्रयत्नानन्तरीयको घटादिः अनित्यो दृष्टः, तथा आकाशं प्रयत्नानन्तरीयकं नित्यं दृश्यते, तद्वत् शब्दोऽपि नित्यः स्यात् / कः पुनः 5 आकाशस्य प्रयत्नानन्तरीयकत्वं वदेत् ? कूपखननादिना आकाशस्य कार्यतां मन्वानः कश्चिद् एवं ब्रूयात् / न चैवं व्यभिचारोद्भावनमेतत् सम्यगुत्तरं न असदुत्तरप्रकारो जातिप्रयोगः इत्यभिधातव्यम् ; यतो न हेतोरनैकान्तिकत्वम् उद्भावयन्नसौ साधुरिव जातिवादी प्रत्यवतिष्ठते, अपि तु दृष्टान्तबलेन नित्यत्वमेव साधयन् 'उत्थित इति / "प्रागुत्पत्तेः कारणाऽभावाद् अनुत्पत्तिसमः / " [ न्यायसू० 5 / 1 / 12 ] यथा अत्रैव प्रयोगे 10 जातिवादी आह-पूर्वमनुत्पन्ने शब्दाख्ये धर्मिणि प्रयत्नानन्तरीयकत्वं धर्मः क वर्त्तताम् , अल ब्धपक्षवृत्तिश्च कथमनित्यत्वं साधयेत् ? असिद्धे च अनित्यत्वे शब्दस्य बलात् नित्यत्वमेव सिद्धयेत्। कारणाऽभावात्-अनित्यत्वसिद्धिकारणस्य प्रयत्नानन्तरीयकत्वस्य अभावात् / अथवा . शब्दोत्पादककारणाभावाद् अनुत्पन्ने शब्दे निराश्रयो हेतुरिति / "सामान्य-दृष्टान्तयोः ऐन्द्रियकत्वे समाने नित्याऽनित्यसाधर्म्यात् 'संशयसमः।" 15 [ न्यायसू० 5 / 1 / 14 ] यथा अत्रैव प्रयोगे परः प्रत्यवतिष्ठते-घटेन अनित्येन प्रयत्नानन्तरीय कत्वं शब्दस्य साधर्म्यम् , सामान्येन च नित्येन ऐन्द्रियकत्वम् , ततः किं प्रयत्नानन्तरीयकत्वाद् अनित्यः शब्दः स्यात् किम्बा ऐन्द्रियकत्वात् नित्यः इति ? 1 “साधनस्यापि साधनं वक्तव्यमिति प्रसङ्गेन प्रत्यवस्थानं प्रसङ्गसमः / " न्यायभा० 5 / 1 / 9 / न्यायमं० पृ०६२५। न्यायकलि. पृ० 18 / 2 "प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः / " न्यायभा० 5 / 1 / 9 / “प्रतिदृष्टान्तबलात् साधनम् , एतदुच्यते प्रतिदृष्टान्त (व्यञ्जक) खण्डनम् / " तर्कशा० पृ. 26 / उपायहृदय पृ.३०। ३-काशकार्य-आ०, ब०, ज०, भां०। 4 उत्तिष्ठते ब०, ज० / “..'साधुरिव जातिवादी प्रत्यवतिष्ठते अपि तु दृष्टान्तबलेन नित्यत्वमेष साधयन्नुत्थित इति / " न्यायमं० पृ० 625 / 5 "अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमा / " न्यायभा० 5 / 1 / 12 / न्यायसार पृ० 20 / न्यायमं० पृ. 626 / न्यायकलि. पृ. 18 / “प्रागुत्पत्तेः प्रयत्ननिरपेक्षत्वान्नित्य इत्यनुत्पत्तिखण्डनम् / " तर्कशा० पृ० 28 / उपायहृदय पृ० 30 / 6 “साधर्म्यवैधर्म्यसमा जातियर्या पूर्वमुदाहृता सैव संशयेनोपक्रियमाणा संशयसमा / " न्यायकलि० पृ० 19 / “संशयसमो नामाऽहेतुर्य एव संशयहेतुः स एव संशयच्छेदहेतुः यथा अयमायुर्वेदैकदेशमाह किन्त्वयं चिकित्सकः स्यान्नवेति संशये परो यात्-यस्मादयमायुर्वेदैकदेशमाह तस्माचिकित्सकोऽयमिति / न च संशयहेतुं विशेषयति, एष चाऽहेतुः / " चरकसं० पृ० 266 / “संशयखण्डनम् विपक्षसाधात् संशयवादेन खण्डनम् / " तर्कशा० पृ० 21 / उपाय- . हृदय पृ० 29 /