________________ 325 लघी० प्रमाणप्र० का०७] षोडशपदार्थवादः / तदा घटोऽपि वर्ण्यताम्-साध्यताम्' इति वर्ण्यसमा। 'घटश्चेन्न वर्ण्यते-न साध्यते तर्हि शब्दोऽपि न वर्ण्यताम्' इति अवर्ण्यसमा। ___ धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमा / यथा'अत्रैव साधने प्रयुक्ते परः प्रत्यवतिष्ठते-प्रयत्नानन्तरीयकं किञ्चिन् मृदु दृश्यते प्रवेण्यादि, किञ्चित् कठिनं कर्परादि, एवं प्रयत्नानन्तरीयकं घटादि अनित्यं भविष्यति शब्दादि तु नित्यमिति / ___ उभयोरपि साध्यदृष्टान्तयोः साध्यत्वापादनेन प्रत्यवस्थानं साँध्यसमा। यथा अत्रैव साधने प्रयुक्ते परः प्रत्यवतिष्ठते-यदि यथा घटः तथा शब्दः तर्हि यथा शब्दः तथा घटोऽस्तु, शब्दश्च अनित्यतया साध्यः इति घटोऽपि साध्य एव स्यात् , कथमन्यथा तेन तुल्यता ? प्राप्त्यप्राप्तिविकल्पनपूर्वकम् उभयत्रापि दोषापादनं प्राप्ति-अप्राप्तिसमौं / हेतौ साधनवादिना प्रयुक्ते प्रतिवादी आह-अयं हेतुः प्राप्य साध्यं साधयेत् , अप्राप्य वा ? यदि प्राप्य; तर्हि 10 द्वयोर्लब्धस्वरूपयोर्युगपत् संभवात् कथमेकस्य साध्यता अन्यस्य हेतुता विशेषाऽभावात् ? इति प्राप्तिसमः प्रतिषेधः / अथ अप्राप्य हेतुः साध्यं साधयेत्; तर्हि सर्व साध्यं किन्न असौ साधयेद् अविशेषात् ? नहि अप्राप्य प्रदीपः प्रकाश्यं प्रकाशयति इति अप्राप्तिसमः / "दृष्टान्तस्य कारणाऽनपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्ग-प्रतिदृष्टान्तसमौ / " [ न्यायसू० 5 / 16 ] यथा प्राक्तने एव साधने घटादेर्दृष्टान्तस्य अनित्यतायां किं कारणम् ? 15 1 "ख्यापनीयो वर्ण्यः विपर्ययादवर्ण्यः, तावेतौ साध्यदृष्टान्तधौं विपर्यस्यतो वाऽवर्ण्यसमौ भवतः / " न्यायभा० 5 / 1 / 4 / “वर्ण्यः साध्यः” न्यायवा० 5 / 1 / 4 / न्यायमं० पृ० 623 / न्यायसार पृ० 18 / न्यायकलिका पृ० 18 / “वर्ण्यसमो नामाहेतुः यो हेतुर्वर्ण्याविशिष्टः / यथा परो ब्रूयात् बुद्धिरनित्या शब्दवदिति / अत्र वर्ण्यः शब्दो बुद्धिरपि वा तदुभयवाविशिष्टत्वाद्वर्ण्यसमोप्यहेतुः / " चरकसं० पृ. 267 / 2 “अवर्ण्यः असाध्यः / " न्यायवा० 5 / 1 / 4 / “प्रत्यक्षविषये यद्धत्वन्वेषणं तदवर्ण्यखण्डनमुच्यते / " तर्कशा० पृ. 24 / 3 “साधनधर्मयुक्त दृष्टान्ते धर्मान्तरविकल्पात् साध्यधर्मविकल्पं प्रसजतो विकल्पसमः / " न्यायभा० 5 / 1 / 4 / “धन्तरविकल्पेन प्रत्यवस्थान विकल्पसमः / " न्यायमं० पृ. 623 / न्यायकलि० पृ० 18 / 4 "हेत्वाद्यवयवयोगी धर्मः साध्यः, तं दृष्टान्ते प्रसजतः साध्यसमः " न्यायभा० 5 / 1 / 4 / “उभयोरपि साध्यदृष्टान्तयोः साध्यत्वापादनेन साध्यसमः।" न्यायम. पृ. 624 / न्यायसार पृ० 19 / न्यायकलि. पृ० 18 / 5 साध्यते भा०, श्र० / 6 "प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याऽविशिष्टत्वादप्राप्त्याऽसाधकत्वाच्च प्राप्त्यप्राप्तिसमौ / " न्यायसू० 5 / 17 / "प्राप्त्या प्रत्यवस्थान प्राप्तिसमः, अप्राप्त्या प्रत्यवस्थानमप्राप्तिसमः।" न्यायभा०५।१।। न्यायसार पृ० 19 / “प्राप्त्यप्राप्तिविंकल्पनपूर्वकमुभयत्रापि दोषापादनं प्राप्त्यप्राप्तिसमौ / " न्यायम. पृ. 624 / न्यायकलि. पृ० 18 / "हेतुः साध्यं प्राप्नोति, न वा ? यदि साध्यं प्राप्नोति तदाऽसाधकः, अथ हेतुःसाध्यं न. प्राप्नोति तदाप्यसाधकः / एतत्प्राप्त्यप्राप्तिखण्डनमुच्यते / " तर्कशा० पृ० 17 / उपायहृदय पृ० 29 /