________________ 324 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० तदनित्यम् यथा घटः' इति साधर्म्यण हेतौ प्रयुक्ते' जातिवादी साधर्म्यणैव प्रत्यवतिष्ठते-'नित्यः शब्दः निरवयवत्वात् , यन्निरवयवं तत् नित्यं दृष्टम् यथा आकाशम्' इति, न चात्र विशेषहेतुरस्ति घटसाधात् प्रयत्नानन्तरीयकत्वाद् अनित्यः शब्दः न च आकाशसाधात् निरवयवत्वात् नित्य इति / वैधम्र्येण वा प्रत्यवतिष्ठते-नित्यःशब्दो निरवयवत्वात् , यत् पुनरनित्यं 5 तत् सावयवं दृष्टम् यथा घटः, न चास्ति विशेषहेतुः घटसाधात् प्रयत्नानन्तरीयकत्वात् अनित्यः शब्दः न पुनः घटवैधात् निरवयवत्वात् नित्य इति / वैधर्म्यहेतावपि साधनवादिना प्रयुक्ते 'अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् यत् पुनरनित्यं न भवति तत् प्रयत्नानन्तरीयकमपि न भवति यथा आकाशम् 'इत्यत्रापि एतेनैव पूर्वोक्त प्रयोगद्वयेन प्रत्यवस्थानं वैधर्म्यसमै इति / ___उत्कर्षसमादीनां लक्षणम्-" साध्यदृष्टान्तयोः धर्मविकल्पाद् उभयसाध्यत्वाच्च उत्कर्षअपकर्ष-वर्ण्य-अवर्ण्य-विकल्प-साध्यसमाः / " [ न्यायसू० 5 / 1 / 4 ] यत्र दृष्टान्तधर्म साध्यधर्मिणि असन्तमपि औरोपयत्तु (पयन ) उत्कर्षेण प्रत्यवस्थानं करोति सा उत्कर्षसमा जातिः। . . यथा 'अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् घटवत्' इत्युक्ते परः प्राह-'यदि प्रयत्नानन्त रीयकत्वात् घटवद् अनित्यः शब्दः तर्हि तद्वदेव मूर्तोऽप्यस्तु, अथ न मूर्तः तर्हि अनित्योऽपि 15 माभूत् अविशेषात्' इति / 'दृष्टान्तधर्मविकल्पनेनैव साध्यधर्मिणि सिद्धस्यापि धर्मस्य अपकर्षेण प्रत्यवस्थानम् अपकर्षसमा जातिः। यथा अस्मिन्नेव प्रयोगे घटः प्रयत्नानन्तरीयकः अश्रावणो दृष्टः शब्दोऽपि तथास्तु, अन्यथा अनित्यो न स्याद् अविशेषात् इति / ख्यापनीयो वर्ण्यः साध्यधर्मिधर्मः, तद्विपर्ययादवर्यो दृष्टान्तधर्मः, तौ वाऽवण्यौँ विप२० यस्यन् इतरम् इतरेण समीकुर्वन् प्रत्यवस्थानं करोति-'यदि शब्दोऽनित्यत्वेन वर्ण्यते-साध्यते १-क्ते स जाति-श्र० / 2 “वैधाणोक्ते हेतौ तद्विपरीतवैधम्र्येण प्रत्यवस्थानं साधयेणोक्त हेतौ तद्विपरीतवैधम्र्येण प्रत्यवस्थानं वैध→समः / " न्यायवा०, भा०, 5 / 1 / 2 / न्यायसार पृ० 18 / न्यायमं० पृ० 622 / न्यायकलिका पृ० 17 / “वस्तुवैधर्म्यप्रत्यवस्थानं वैधर्म्यखण्डनमित्युच्यते / " तर्कशा० पृ० 14 / 3 आरोपतुत्कर्षे-आ० / “..'असन्तमध्यारोपयन्नुत्कर्षेण प्रत्यवस्थानं यत्करोति स उत्कर्षसमः प्रतिषेधः / " न्यायमं० पृ० 623 / 4 “दृष्टान्तधर्म साध्ये समासजत उत्कर्षसमः।" न्यायभा० 5 / 1 / 4 / “अविद्यमानधर्माध्यारोप उत्कर्षः।” न्यायवा० पृ० 532 / न्यायसार पृ० 18 / न्यायकलि० पृ० 17 / उपायहृदय पृ० 27 / 5 “साध्ये धर्माभाव दृष्टान्तात् प्रसजतोऽपकर्षसमः / " न्यायभा० 5 / 1 / 4 / “विद्यमानधर्मापचयोऽपकर्षः / " न्यायवा० 5 / 1 / 4 / न्यायमं० पृ० 623 / न्यायकलि. पृ. 17 / उपायहृदय पृ. 27 /