________________ 323 लघी० प्रमाणप्र० का० 7 ] पोडशपदार्थवादः स्थानम् प्रत्यवस्थानम्, साधर्येण वैधयेण वा यत् प्रत्यवस्थानं हेतुप्रतिबिम्बनप्रायं सा जातिः इति / तासां चतुर्विशतिप्रकारो विभागः-“साधर्म्य-वैधर्म्य-उत्कर्ष-अपकर्ष-वर्ण्य-अवर्ण्य-विकल्पैसाध्य-प्राप्ति-अप्राप्ति-प्रसङ्ग-प्रतिदृष्टान्त-अनुपपत्ति-संशय-प्रकरण-अहेतु-अर्थापत्ति-अविशेष-उपपत्ति-उपलब्धि-अनुपलब्धि-नित्य-अनित्य-कार्यसमाः।" [ न्यायसू० 5 / 1 / 1 ] इतिसूत्रकारवचनात् / ___ तत्र साधर्म्य-वैध→समयोर्लक्षणम्-" साधर्म्य-वैधाभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्य-वैधर्म्यसमौ। [ न्यायसू० 5 / 1 / 2 ] साधर्म्यण वैधम्र्येण वा साधनमभिधाय सिसाधयिषितपक्षोपसंहारे साधनवादिना कृते साध्यधर्मविपर्ययोपपादनाय साधर्म्यण प्रत्यवस्थानं साधर्म्यसमः प्रतिषेधः / यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् , यत् प्रयत्नानन्तरीयकं 1 “विपरीतखण्डनम्, असत्खण्डनम्, विरुद्धखण्डनं चेति। यदि खण्डनमेतत् त्रिविधदोषोपेतं तदा निग्रहस्थानम् विपरीतखण्डनं दशविधम्-साधर्म्यखण्डनम् , वैधर्म्यखण्डनम् , विकल्पखण्डनम् , अविशेषखण्डनम् , प्राप्त्यप्राप्तिखण्डनम् , अहेतुखण्डनम् , उपलब्धिखण्डनम् , संशयखण्डनम् , अनुक्तिखण्डनम् , कार्यभेदखण्डनम् / " (पृ० 12) "असत्खण्डनं त्रिविधम्-अवर्ण्य ( व्यञ्जक ) खण्डनम् , अर्थापत्ति ( व्यजक ) खण्डनम् , प्रतिदृष्टार्थ ( व्यञ्जक ) खण्डनश्च / " (पृ. 24 ) विरुद्धखण्डन त्रिविधम्-अनुत्पत्तिखण्डनम् , नित्यताखण्डनम् , स्वार्थविरुद्धखण्डनश्च / " (पृ० 28 ) सम्यक्खण्डनं पञ्चविधम्-इष्टार्थदूषणम् , अनिष्टार्थव्यक्तिः , प्रसङ्गव्यक्तिः , विषमार्थव्यक्तिः , सर्वन्यायसिद्धिलाभव्यक्तिः / (पृ० 30 )" तर्कशास्त्र / “एषां विंशतिविधानां सारो द्विविधः साधर्म्य वैधर्म्यञ्च एवं दूषणं विंशतिविधम् यथा-उत्कर्षसमम् , अपकर्षसमम् , भेदाभेदसमम्', प्रश्नबाहुल्यमुत्तराल्पता, प्रश्नाल्पतोत्तरबाहुल्यम् , हेतुसमम् , कार्यसमम् , व्याप्तिसमम् , अव्याप्तिसमम् , कालसमम् , प्राप्तिसमम् , अप्राप्तिसमम् , विरुद्धम् , अविरुद्धम् , संशयसमम् , असंशयसमम् , प्रतिदृष्टान्तसमम् , श्रुतिसमम् , श्रुतिभिन्नम् , अनुपपत्तिसमञ्चेति प्रश्नोत्तरधर्मा विंशतिधा / " उपायहृदय पृ० 27 / २-ल्प्यसा-श्र० / 3 “समीकरणार्थ प्रयोगः समः, साधर्म्यमेव समं वैधर्म्यमेव सममिति समार्थः समीकरणार्थः प्रयोगो द्रष्टव्यः / .. विशेषहेत्वभावो वा समार्थः न भवता विशेषहेतुः कश्चिद् अपदिश्यत इति। "न च वादिप्रतिवादिनोस्तुल्यता समार्थः ; जातेरसदुत्तरत्वात् / नियमेनैव जातिवादी असद्वादी भवति, वादिनां तु सदसद्वादित्वेऽनियम इति / " न्यायवा० 5 / 111 / “आभिमानिकं साम्यं न वास्तवमित्यर्थः / " ता० टी० 5 / 1 / 1 / 4 “साधर्म्यणोपसंहारे साध्यधर्मविपर्ययोपपत्तेः साधये॒णैव प्रत्यवस्थानमविशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः प्रतिषेधः ।"अथ साधर्म्यसमः-क्रियावान् लोष्ठः क्रियाहेतुगुणयुक्तो दृष्टः तथा चात्मा तस्मात् क्रियावान् इति, न चास्ति विशेषहेतुः क्रियावद्वैधात् निष्क्रियो न पुनः क्रियावत्साधर्म्यात् क्रियावानिति विशेषहेत्वभावात् साधर्म्यसमः / " न्यायभा०, वा० 5 / 1 / 2 / न्यायमं० पृ. 622 / न्यायसार पृ० 18 / न्यायकलि. पृ० 17 / " वस्तुसाधर्म्यप्रत्यवस्थानं साधर्म्यखण्डनमित्युच्यते / " तर्कशा० पृ० 12 /