________________ 322 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० "संभवतोऽर्थस्य अतिसामान्ययोगाद् असद्भूतार्थकल्पना सामान्यछलम् / " [ न्यायसू० . 1 / 2 / 13 ] अति-व्यापकं सामान्यम् अतिसामान्यम् , तद्योगात् क्वचिद् व्यक्तौ अर्थस्य कस्यचित् संभवतो व्यक्तयन्तरे संभाव्यमाननिष्पत्तेः वक्त्राऽभिहितस्य सतो यद् असद्भूतार्थकल्प- . नया प्रत्यवस्थानम् तत् सामान्यनिमित्तत्वात् सामान्यछलम् / यथा 'संभवति ब्राह्मणे विद्याच५ रणसम्पत्' इत्युक्ते छलवाद्याह-न; व्रात्येन अनेकान्तात् ; तदयुक्तम् ; हेतुत्वेन अनुपन्यासात्, न हि ब्राह्मणत्वं विद्याचरणसम्पत्तौ हेतुत्वेन उपन्यस्तम् / किं तर्हि ? प्रशंसावादोऽयम् इति / ____“धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् / " [ न्यायसू० 1 / 2 / 14 ] धर्मः क्रोशनादिः, तस्य विकल्पः उपचारः, तेन निर्देशे 'मञ्चाः क्रोशन्ति गायन्ति' इत्यादिप्रयोगे कृते योऽर्थसद्भावप्रतिषेधः मुख्यार्थप्रतिषेधः-कथम् अचेतना मञ्चाः क्रोशान्ति ? किं तर्हि ? 10 पुरुषास्तत्रस्थाः क्रोशन्ति न मञ्चाः, इति उपचारनिमित्तं छलम् उपचारच्छलम् / तच्चायुक्तम् ; यथावक्त्रभिप्रायमप्रतिषेधात् , अभिधानप्रयोगो हि लोके गौणो मुख्यश्च प्रसिद्ध इति / हेतुप्रतिबिम्बनप्रायं प्रत्यवस्थानं जातिः। तथा च सूत्रम्-"साधर्म्यवैधाभ्यां प्रत्यव- . स्थानं जातिः।" [ न्यायसू. 112 / 18 ] सकलजातीनां सामान्यलक्षणमिदम् / प्रतिकूलम् अव 1 व्यक्तौ च तत्त्वस्य कस्यचित् सम्बन्धे व्यक्तयन्तरे भा० / “अति व्यापकं सामान्यमतिसामान्यम् , तद्योगात् तत्संभवात् क्वचिद् व्यक्तार्थस्य कस्यचित् संभवतः संभाव्यमाननिष्पत्तेः वक्त्राऽभिहितस्य सतो याऽसद्भूतार्थकल्पना तया च प्रत्यवस्थानं तत् सामान्यनिमित्तं छलं सामान्यछलमिति / " न्यायमं० पृ. 615 / न्यायकलि. पृ० 16 / 2 संभवेऽतो व०, ज०।३"अहो नु खल्वसौ ब्राह्मणः विद्याचरणसम्पन्नः... यदि ब्राह्मणे विद्याचरणसम्पत् संभवति व्रात्येऽपि संभवेत् अस्य प्रत्यवस्थानम्अविवक्षितहेतुकस्य विषयानुवादः प्रशंसार्थत्वात् 'सम्पद्विषयो ब्राह्मणत्वं न सम्पद्धेतुः / " न्यायभा०, न्यायवा० 1 / 2 / 13 / “अपि च छलं द्विविधं पूर्ववत् सामान्यञ्चेति / यथा संस्कृता धर्माः शून्या आकाशवदित्युक्ते दूषणम्-उभयोरपि शून्यत्वमभावश्च तदा निःस्वभावा धर्माः आकाशतुल्या इति सामान्यछलम् / " उपायहृदय पृ० 15 / 4 “उपचारप्रयोगे मुख्यार्थकल्पनया प्रतिषेध उपचारच्छलम् / " न्यायसार पृ० 17 / न्यायकलिका पृ० 16 / 5 कृतेऽर्थ-आं० / ६-न्ति पुरु-आ०, ब०, ज०, भां० / 7 "अत्र समाधिः-प्रसिद्ध प्रयोगे वक्तुर्यथाभिप्रायं शब्दार्थयोरनुज्ञा प्रतिषेधो वा न छन्दतः, प्रधानभूतस्य शब्दस्य भाक्तस्य च गुणभूतस्य प्रयोग उभयोलॊकसिद्धः, सिद्धप्रयोगे यथा वक्तुरभिप्रायः तथा शब्दार्थावनुज्ञेयौ प्रतिषेध्यौ वा न छन्दतः / यदि वक्ता प्रधानशब्दं प्रयुक्त तथाभूतस्याभ्यनुज्ञा प्रतिषेधो वा न छन्दतः / अथ गुणभूतं तदा गुणभूतस्य, यत्र तु वक्ता गुणभूतं शब्द प्रयुङ्क्ते प्रधानभूतमभिप्रेत्य परः प्रतिषेधति, स्वमनीषया प्रतिषेधोऽसौ भवति न परोपालम्भ इति / " न्यायभा० 112 // 14 // 8 "प्रतीपमवस्थानं प्रत्यवस्थानम् / " न्यायवा. 1 / 2 / 18 / "तत्र जातिनाम स्थापनाहेती प्रयुक्त यः प्रतिरोधासमर्थो हेतुः।" न्यायवा० 5 / 11 / “यदेवं प्रकार प्रत्यवस्थान हेतुप्रतिबिम्बवर्त्मना क्रियते सा जातिः / " न्यायमं० पृ. 619 / न्यायकलिका पृ० 17 / "प्रयुक्त हेतौ समीकरणाभिप्रायेण प्रसङ्गो जातिः / " न्यायसार पृ. 17 //