________________ लघी० प्रमाणप्र० का०७] षोडशपदार्थवादः 321 अर्थविकल्पैर्वचनविघातः छलम्'। तथा च सूत्रम्-'वचनविघातोऽर्थविकल्पोपपत्त्या छलम् / " [न्यायसू० 2 / 2 / 10 ] वचनविघातः न मुखपिधानेन अपि तु अर्थविकल्पोपपत्त्या, वक्तुरनभिप्रेतमर्थ तदुक्ते वचसि समारोप्य छलवादी तन्निषेधं करोति कल्प्यमानघटनया इति सामान्यलक्षणम् / “तत् त्रिविधं वाक्छलं सामान्यछलमुपचारछलञ्च / " [ न्यायसू० 1 / 2 / 11] तत् सामान्यलक्षणलक्षितं छलं वाक्छलादिभेदेन त्रिविधं भवति / तत्र "अविशेषाऽभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् / " [ न्यायसू० 2 // 2 // 12 ] अविशेषाभिहिते-अविशेषेण शब्दे प्रयुक्ते सति वक्तुरभिप्रेतमर्थमपहृत्य परिकल्प्य तनिषेधवचनं वाचि निमित्तभूतायां छलं वाक्छलम् / यथा 'नवकम्बलो देवदत्तः' इत्युक्ते 'नवः कम्बलोऽस्य, नव कम्बला अस्य' इति च समासपदम् अर्थद्वयेऽप्यविशिष्टम् , तत्र अभिनवकम्बलयोगं वक्तुरभिप्रेतं प्रमाणोपपन्नश्च अपहृत्य नवसंख्यासम्बन्धमध्यारोप्य तत्प्रतिषेधेन परः प्रत्यव- 10 तिष्ठते-'कुतोऽस्य नव कम्बलाः ?' इति / 1 “छलं नाम परिशठमाभासमपार्थकं वाग्वस्तुमात्रमेव / " चरकसं० पृ० 266 / "परस्य वदतो वचनविघातः अभिधाननिरोधः छलम् / ' न्यायमं० पृ० 613 / न्यायकलिका पृ० 16 / 2 “किम् आस्यपिधानादिना ? नेत्याह अर्थविकल्पोपपत्त्येति / वक्तुरनभिप्रेतमर्थात्तदुक्त वचसि समारोप्य तनिषेधं छलवादी करोति "विकल्प्यमानार्थघटनया / " न्यायमं० पृ० 613 / 3 "तद् द्विविधं वाक्छल सामान्यछलञ्च / " चरकसं० पृ. 266 / ४-कल्प आ०, ब०, ज० / 5 "वाकछलं नाम यथा कश्चिद् ब्रूयात्-'नवतन्त्रोऽयं भिषग्' इति / भिषग् ब्रूयात् नाऽहं नवतन्त्रः एकतन्त्रोऽहमिति / परो ब्रूयात् नाहं ब्रवीमि नवतन्त्राणि तवेति अपि तु नवाभ्यस्तं हि ते तन्त्रमिति / भिषग् ब्रूयात् न मया नवाभ्यस्तं तन्त्रम्, अनेकधा अभ्यस्तं मया तन्त्रमिति / एतद्वाक्छलम् / " चरकसं० पृ. 266 / “सामान्यच्छलं नाम यथा व्याधिप्रशमनायौषधमित्युक्ते परो ब्रूयात् सत् सत्प्रशमनायेति भवानाह, सन् हि रोगः सदौषधम् , यदि च सत् सत्प्रशमनाय भवति सन् हि कासः सन् क्षयः, सत्सामान्यात कासस्ते क्षयप्रशमनाय भविष्यति इति ।"चरकसं० पृ. 266 / “यथा कश्चिदाह-यो मया परिहितः स नवकम्बलः अत्र दूषणं ( वदेत् ) यद्भवता परिहितं तदेकमेव वस्त्रं कथं नवेति / अत्र प्रतिवदेत् मया नव इत्युक्तं तथा च नवः कम्बलः न तु नवेति / अत्र दूषयेत् कथं नव ? नवलोमैनिर्मितत्वान्नव इत्यक्ते प्रतिवादी वदेत् तत्त्वतोऽपरिमितानि लोमानि कथं नवलोमानीत्युच्यते ? अत्राह-नव इति मया पूर्वमुक्त न त नवसंख्या / अत्र दूषणं तद्वस्त्रं युष्माकमेवेति ज्ञातं कस्मादेतन्न वः कथ्यते। अत्रोत्तरम-मया नव , इत्युक्तं किन्तु न व इति नोक्तम् / अत्र दूषणम्-भवतः कार्य कम्बलो वस्त इति प्रत्यक्षमेतत् , कथमुच्यते न वः कम्बलः / अयं हेत्वाभास इत्युच्यते वाक्छलञ्च / अपरञ्च वाक्छलम् , यथा गिरिर्दह्यते इत्यक्त दूषणम्-तत्त्वतः तृणतरवो दह्यन्ते कथं गिरिदेह्यत इत्युक्तम् / एतद्वाक्छलमित्युच्यते / " उपायहृदय पृ० 15 / "नवकम्बलोऽयं माणवक इति प्रयोगः / "" न्यायभा०, न्याय वा० 112 / 12 / न्यायसार पृ० 16 / न्यायमं० पृ. 614 / न्यायकलिका पृ० 16 / 41