________________ 318 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० देशात; यस्माद् अयं तत्त्वं बुभुत्सुर्गुर्वादिना सह संशयविच्छेद-अज्ञातार्थावबोध-अध्यवसिताभ्यनुज्ञालक्षणं त्रिविधं फलमाकाङझन वादं करोति, तँतोऽस्य तत्त्वबुभुत्सावतः तावद् अनेन साधनं वक्तव्यं यावदसौ तत्त्वं प्रतिपद्यते अप्रतिद्वन्दित्वात् / विजिगीषुकथा पुरुषशक्तिपरीक्षणफला जल्पः / सूत्रञ्च-'यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः।" [ न्यायसू० 1 / 2 / 2] यथोक्तोपपन्नग्रहणेन प्रमाणतर्कसाधनोपालम्भमात्रमुपलक्ष्यते, न समस्तं वादलक्षणम् ,' सिद्धान्ताऽविरुद्धः पञ्चावयवोपपन्नः' इति उत्तरपदद्वयस्य निग्रहस्थाननियमनिबन्धनस्य अत्र अभिसम्बन्धाऽसंभवात् , जल्पे समस्तनिग्रहस्थानानां संभवात् / ननु 'छलजातिनिग्रहस्थानसाधनोपालम्भः' इत्ययुक्तम् ; छलादीनामसदुत्तरत्वेन साधनदूषणत्वाऽनुपपत्तेः; तदयुक्तम् ; प्रमाणैः क्रियमाणयोः साधनोपालम्भयोः छलादीनाम१० गभावो रक्षणार्थत्वात् न स्वतन्त्राणां साधनदूषणभावः; नहि तानि स्वयं साधनत्वेन दूषणत्वेन वा प्रयुज्यन्ते, किन्तु सम्यक्साधने प्रयुक्त परः छलजात्यादिना प्रत्यवतिष्ठमानः 'छलं जातिः निग्रहस्थानं वा त्वया प्रयुक्तम्' इत्येवं तदुद्भावनद्वारेण निरस्यते, निरस्ते तस्मिन् स्वपक्षः परिरक्षितो भवति / परेण वा साधने प्रयुक्ते सहसा दोषमपश्यन् स्वयं जात्यादिना प्रत्यवतिष्ठते / जात्याद्याकुलितश्च प्रतिवादी उत्तरमप्रतिपद्यमानो जीयते, जिते तस्मिन् अप्रतिपक्षा स्वपक्ष१५ सिद्धिरिति / हृदयस्थप्रमाणोपपन्नतत्त्वज्ञानसंरक्षणाय कचिद् वीतरागस्यापि उपयुज्यन्ते छला १“परिपाकस्तु-संशयच्छेदनमविज्ञातार्थबोधः अध्यवसिताभ्यनुज्ञानमिति।” न्यायभा० 4 / 2 / 47 / "अनधिगततत्त्वावबोधः संशयनिवृत्तिः अध्यवसिताभ्यनुज्ञानम् इति फलानि त्रीणि / ..., न्यायवा० ता० टी. पृ. 316 / २-व्यवसिताभ्यनुज्ञा-ब०, ज० / -व्यवसिताभ्यनुज्ञान-भां० / ३-नुज्ञानलश्र०।४ तस्य भां०, श्र० / “ततोऽस्य तत्त्वबुभुत्सावतः तावत्साधनं वक्तव्यं यावदनेन ज्ञातव्यमप्रतिद्वन्दित्वात् / " न्यायवा० पृ. 149 / 5 "तत्र पक्षाश्रितयोर्वचनं जल्पः / यथा एकस्य पक्षः पुनर्भवोऽस्तीति नास्तीत्यपरस्य, तौ च हेतुभिः स्वस्वपक्षं स्थापयतः परस्परमुद्भावयतः एष जल्पः / " चरकसं० पृ. 262 / “यत्र विजिगीषुः विजिगीषुणा सह लाभपूजाख्यातिकामो जयपराजयार्थ प्रवर्त्तते सा विजिगीषुकथा विजिगीषुकथा जल्पवितण्डासंज्ञोक्ता / " न्यायसार पृ० 16 / न्यायकलिका पृ. 13 / 6 न्यायभाष्य (पृ 1 / 2 / 2) मंजरी (पृ. 594) कारयोर्मतेन 'यथोक्तोपपन्न' पदेन समस्तं वादलक्षणमतिदिश्यते / वार्तिककारमतेन तु-“सम्भवतोऽतिदेशात् , यदत्र सम्बद्धयते तदतिदिश्यते / किञ्च सम्बध्यते ? 'प्रमाणतर्कसाधनोपालम्भः' इत्येतत् ।..."न नियमाथे पदे नियन्तव्यस्याभावात् / अथवा यथोक्तोपपन्नेन उपपन्नः यथोक्तोपपन्नोपपन्नः इति प्राप्त गम्यमानत्वादेकस्य उपपन्नशब्दस्य लोपः यथा गोरथ इति / केन पुनरयं गम्यते इति ? उक्तं सामर्थ्येनेति / नहि नियमार्थयोः पदयोः जल्पे संभवः'..".' न्यायवा० पृ० 161 / 7 “प्रमाणैः साधनोपालम्भयोः छलजातिनिग्रहस्थानानामङ्गभावः स्वपक्षरक्षणार्थत्वात् न स्वतन्त्राणां साधनभावः / "उपालम्भे तु स्वातन्त्र्यमप्यस्ति / " न्यायभा० 1 / 2 / 2 / ८-मङ्गभावे आ० / 9 “वीतरागो वा परामुग्रहार्थं ज्ञानाङ्कुरसंरक्षणार्थश्च प्रवर्तते / " न्यायसार पृ० 16 / "मुमुक्षोरपि क्वचित् प्रसङ्गे तदुपयोगात्"।" न्यायमं० पृ०-५९५ /