________________ लघी० प्रमाणप्र० का०७] ... षोडशपदार्थवादः 317 धौं एकाधिकरणौ विरुद्धौ एककालौ अनवसितौ पक्षप्रतिपक्षौ / वस्तुधौं वस्तुनो विशेषौ, यथा 'अस्त्यात्मा नास्त्यात्मा' इति वा / अधिकरणम् आश्रयः, एकम् अधिकरणं ययोस्तौ विचारं प्रयोजयतः न नानाधिकरणौ, विरुद्धावपि यथा नित्य आत्मा अनित्या बुद्धिरिति / अविरुद्धावपि विचारं न प्रयोजयतः यथा क्रियावद् द्रव्यं गुणवच्च इति, भिन्नकालावपि न विचाराही द्वयोः प्रमाणोपपत्तेः यथा क्रियावद् द्रव्यं निष्क्रियं च कालभेदे सति / तथा अव- 5 सितौ विचारं न प्रयोजयतः निर्णयोत्तरकालं विवादाऽभावात् / तौ एवंविधविशेषणौ धौं पक्ष-प्रतिपक्षौ, तयोः परिग्रहः इत्थम्भावनियमः ‘एवंधर्मा अयं धर्मी नैवंधर्मा' इति च / पक्षप्रतिपक्षपरिग्रहश्च जल्प-वितण्डयोरप्यविशिष्टः, अतः 'प्रमाणतर्कसाधनोपालम्भः' इति तद्विशेषणम् , प्रमाणैः तर्केण च साधनम् उपालम्भश्च यस्मिन् स तथोक्तः / प्रमाणशब्देन प्रमाणेमूलाः प्रतिज्ञाद्यवयवा व्यपदिश्यन्ते, ततो वादे प्रमाणबुद्धिपरिगृहीतयोरेव साधनोपाल- 10 म्भयोः प्रयोगः / तर्कशब्देन च भूतपूर्वगतिन्यायेन वीतरागकथात्वज्ञापनाद् उद्भावननियमो लभ्यते / तेन वादे प्रमाणबुद्धथा परेण छलजातिनिग्रहस्थानानि प्रयुक्तानि न निग्रहबुद्धया उद्भाव्यन्ते, किन्तु निवारणबुद्धथा, तत्त्वज्ञानाय आवयोः प्रवृत्तिः, न च साधनाभासो दूषणाभासो वा तत्त्वज्ञाननिमित्तम् , अतो न तत्प्रयोगो युक्तः / उपालम्भश्रवणात् समस्तनिग्रहस्थानानुषङ्गः इति चेन्न; उत्तरयोः पदयोर्नियमार्थत्वात् / तेन 'सिद्धान्ताविरुद्धः' इत्यनेन अपसिद्धान्तः, 15 'पञ्चावयवोपपन्नः' इत्यनेन च पञ्चग्रहणात् न्यून-अधिके, अवयवग्रहणात् हेत्वाभासपञ्चकञ्च इत्यष्टावेव निग्रहस्थानानि वादे नियम्यन्ते / कस्मादिति चेत् ? गुर्वादिनों सह वादोप 'वंविशेषणौ धौ प्रक्षप्रतिपक्षी, तयोः परिग्रह इत्थंभावनियमः एवंधाऽयं धर्मी नैवंधति'.।" न्यायवा० 1 / 2 / 1 / पृ० 146 / “एकाधिकरणौ धौ तुल्यकालौ विरोधिनौ। पृथक् परिग्रही पक्षप्रतिपक्षावुदाहृतौ // " न्यायमं० पृ० 590 / १-णभूताः ज० / “इह तु न प्रमाणशब्देन प्रत्यक्षादेरनुमानम् अपि तुप्रमाणमूला अवयवा उच्यन्ते तैश्च सिद्धथुपालब्धी क्रियते / " न्यायमं० पृ. 593 / 2 "उपालम्भग्रहणात् समस्तनिग्रहस्थानप्रसक्तौ संज्ञाभेदमात्रम्"न; उत्तरयोः नियमार्थत्वात् / " न्यायवा० पृ. 149 / 3 भाष्यकारमतेन-'सिद्धान्ताविरुद्धः' इति पदेन विरुद्ध एव हेत्वाभासोऽभ्यनुज्ञातः (न्यायभा० 1 / 2 / 1) वार्तिककारमतेन च 'सिद्धान्ताविरुद्धः' इति पदेन अपसिद्धान्तनिग्रहस्थानस्याभ्यनुज्ञा / तथाहि-"सिद्धान्ताविरुद्ध इति पदेन विरुद्धो हेत्वाभासो लभ्यते; तन्न, अन्यतोऽधिगतेः''पञ्चावयवोपन्नः इति पञ्चग्रहणात् न्यूनाधिके लभ्येते अवयवग्रहणात् तदाभासा लभ्यन्ते इति लभ्यमानार्थस्य पुनरभिधाने पिष्टं पिष्टं स्यात् / अथ किमिदं पदं 'सिद्धान्ताविरुद्ध' इत्यनर्थकमेव ? नानर्थकम् ; अपसिद्धान्तावरोधात्।" न्यायवा० पृ. 149 / न्यायमअरीकारमतेन तु-" सर्वमेव तत्र प्रयोगार्हम् / अयं तु विशेषः जल्पे कस्याञ्चिदवस्थायां बुद्धिपूर्वकमपि छलादिप्रयोगः क्रियते वादे तु वृथा तेषां प्रयोगः। भ्रान्त्या तु कथञ्चित् प्रयुक्तानां अवश्यमुद्भावनम्"।" न्यायम० पृ. 593 / 4 भाष्यकारमतेन त्रीणि, वार्तिककारमतेन अष्टौ। 5 "गुर्वादिना सह वादोपदेशात् ,: यस्मादयं तत्त्वबुभुत्सुः गुर्वादिभिः सह त्रिविधं फलमाकाङ्क्षन् वादं करोति / " न्यायवा. पृ. 149 /