________________ लघी० प्रमाणप्र० का० 7] षोडशपदार्थवादः .. 319 दीनि, अन्यथा प्राञ्जलमतिर्दुष्टतार्किकपरिकल्पितदूषणाडम्बरेण तत्त्वाध्यवसायात् प्रंचाल्येत / तदुक्तम्-" तत्त्वाध्यवसायसंरक्षणाथै जल्पवितण्डे बीजप्ररोहसंरक्षणार्थ कण्टकशाखावरणवत्।" [ न्यायसू० 4 / 2 / 50 ] इति / . जल्पविशेषो वितण्डा / तथा च सूत्रम्-" स प्रतिपक्षस्थापनाहीनो वितण्डा।" [ न्यायसू० 1 / 2 / 3 ] स यथोक्तो जल्पः प्रतिपक्षस्थापनाहीनतया विशेषितो वितण्डात्वं प्रतिपद्यते / वैत- 5 ण्डिकस्य च स्वपक्ष एव साधनवादिपक्षापेक्षया प्रतिपक्षः हस्तिप्रतिहस्तिन्यायेन, तस्मिन् प्रतिपक्षे वैतण्डिको न साधनं वक्ति, केवलं परपक्षप्रतिषेधायैव प्रवर्तते इति / ___ अहेतवो हेतुवदाभासमाना हेत्वाभासाः पञ्च। “सव्यभिचार-विरुद्ध-प्रकरणसम-साध्यसमअतीतकाला हेत्वाभासाः।" [ न्यायसू० 1 / 2 / 4 ] इति सूत्रकारवचनात् / तत्र सव्यभिचारस्य लक्षणम्-" अनैकान्तिकः सव्यभिचारः।" [ न्यायसू० 1 / 2 / 5 ] व्यभिचारः अनियमः, 10 तेन सह यो वर्त्तते स सव्यभिचारः, अनैकान्तिकः-एकस्मिन् अन्ते भवः ऐकान्तिकः तद्विपर्ययाद् अनैकान्तिकः, यथा अनित्यः शब्दः प्रमेयत्वात् इति / विरुद्धस्य लक्षणम्-" सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः।" [ न्यायसू० 1 / 2 / 6 ] "सिद्धान्तशब्दो धर्मविशिष्टे धर्मिणि प्रसिद्धोऽपि इह साध्यविषयो ग्रहीतव्यः, तेन साध्यधर्ममभ्युपगम्य यस्तं विरुणद्धि-विपर्ययं साधयति स विरुद्धः, यथा नित्यः शब्दः कृतकत्वात् इति / प्रकरणसमस्य लक्षणम्-“यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः"प्रकरणसमः।" 1. प्रचाल्यते भां, श्र० / 2 " वितण्डा नाम परपक्षे दोषवचनमात्रमेव / " चरकसं० पृ० 262 / न्यायकलिका पृ० 13 / 3 “यथा प्रतिवादिनः पक्षो वादिपक्षापेक्षया प्रतिपक्षः, एवं वादिपक्षोऽपि प्रतिवादिपक्षापेक्षया प्रतिपक्षः इति उभयपक्षस्थापनाहीना।" न्यायवा० ता. टी. 1 / 2 / 3 / 4 "उत्तरपक्षवादी वैतण्डिकः प्रथमवादिप्रसाध्यमानपक्षापेक्षया हस्तिप्रतिहस्तिन्यायेन प्रतिपक्ष इत्युच्यते।" न्यायमं० पृ० 596 / 5 "हेतुलक्षणाभावादहेतवो हेतुवदाभासमानाः / " न्यायभा० पृ. 72 / " हेतुलक्षगरहिता हेतुवदवभासमाना हेत्वाभासाः / " न्यायसार पृ० 7 / न्यायकलिका पृ० 14 / 6 “सव्यभिचारो नाम यद् व्यभिचरणम् / " चरकसं० पृ० 265 / 7 " व्यभिचारः एकत्राऽव्यवस्था एकस्मिमन्ते विद्यते इत्यैकान्तिको विपर्ययादनैकान्तिकः उभयान्तव्यापकत्वादिति / " न्यायभा० 11215 / "कः पुनरयं व्यभिचारः ? साध्यतज्जातीयान्यवृत्तित्वम् / " न्यायवा० पृ. 170 / न्यायमं० पृ. 597 / 8 " एकस्मिन्नन्ते विद्यते इत्यैकान्तिकः विपर्ययादनैकान्तिकः उभयान्तव्यापकत्वादिति / " न्यायभा० 1 / 2 / 5 / 9 " सपक्षे सत्त्वं यस्य नास्ति विपक्षे च वृत्तिरस्ति स साध्यविपर्ययसाधनाद् विरुद्धो भवति / " न्यायकलिका पृ० 14 / 10 " सिद्धान्तशब्दो यद्यपि धर्मविशिष्टे धर्मिणि व्याख्यातः "तथापीह तदेकदेशसाध्यधर्मविषयो लक्ष्यते / " न्यायमं० पृ० 600 / 11 “विशेषाऽग्रहणात् प्रकरणे संशयो भवति, नित्यः शब्दोऽनित्यः शब्दो वेति / तदेव विशेषाग्रहणं भ्रान्त्या हेतुत्वेन प्रयोज्यमानं प्रकरणसमो, हेत्वाभासो भवति / " न्यायकलिका पृ० 15 /