________________ 314 / लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे ... [ 2 विषयपरि० समाप्यते तस्यैकदेशाः पञ्च / तथा च सूत्रम्'-"प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः।" [न्यायसू० 1 / 1 / 32 ] तत्र “साध्यनिर्देशः प्रतिज्ञो।" [ न्यायसू० 1 // 3 // 33] "ज्ञापनीयेन धर्मेण विशिष्टस्य धर्मिणः परिग्रहवचनं साध्यनिर्देशः, यथा अनित्यः शब्दः इति / " [ न्यायभा० 1 / 1 / 33 ] “उदाहरणसाधात् साध्यसाधनं हेतुः।" [न्यायसू० 1 // 1 // 34 ] उदाहरणेन साध ात् साध्यधर्मस्य प्रज्ञापनं हेतुः , यथा अनित्यः शब्दः उत्पत्तिधर्मकत्वात् घटवदिति / "तथा वैधात् / " [ न्यायसू० 1 / 1 / 35 ] उदाहरणवैधात् साध्यसाधनं हेतुः , यथा नेदं निरात्मकं जीवच्छरीरम् अप्राणादिमत्त्वप्रसङ्गात् लोष्ठादिवत् / साध्य साधात् तद्धर्मभावी दृष्टान्तः उदाहरणम् / " [ न्यायसू० 1 // 3 // 36 ] साध्येन साधर्म्यम्-समानधर्मता [ तस्मात् ] तद्धर्मभावी-तस्य साध्यस्य धर्मः , साध्यशब्देन चात्र साध्यधर्मविशिष्टो धर्मी 10 गृह्यते, तस्य भावः साध्यधर्मभावः स यस्मिन् दृष्टान्ते अस्ति स तद्धर्मभावी, यथा अनित्यः शब्दः उत्पत्तिधर्मकत्वात् घटवत् इति साधोदाहरणम् / “तद्विपर्ययाद्विपरीतम् / " [ न्यायसू० 1 // 1 // 37 ] 'उदाहरणम्' इति प्रकृतेन अभिसम्बन्धः / तद्विपर्ययात्-साध्यवैधात् अतद्धर्म - 1 तथा च सूत्रम्' इत्ययं पाठः सर्वासु प्रतिसु 'अवयवाः' इत्यस्याऽनन्तरमुपलभ्यते / परञ्च उपलब्धन्यायसूत्रानुरोधात् अस्माभिः 'पञ्च' इत्यस्यानन्तरं स्थापितः / 2 "प्रतिज्ञा नाम साध्यवचनम् , यथा नित्यः पुरुष इति / " चरकसं० पृ० 262 / ३"हेतुर्नाम उपलब्धिकारणम् / " चरकसं० पृ० 263 / "लिङ्गवचनं हेतुः / " न्यायकलि० पृ० 10 / 4 "उदाहरणेन सामान्यात् साध्यस्य धर्मस्य साधनम् - प्रज्ञापनं हेतुः / साध्ये प्रतिसन्धाय उदाहरणे च प्रतिसन्धाय तस्य साधनतावचनं हेतुः उत्पत्तिधर्मकत्वादिति, उत्पत्तिधर्मकमनित्यं / दृष्टमिति / " न्यायभा० 1 / 1 / 34 / 5 "उदाहरणवैधाच्च साध्यसाधनं हेतुः / कथम् ? अनित्यः शब्दः उत्पत्तिधर्मकत्वात् , अनुत्पत्तिधर्मकं नित्यं यथा आत्मादिद्रव्यमिति / " न्यायभा० 11 / 35 / "उदाहरणमनित्यः शब्दः' इति भाष्यम् / एतत्तु न समजसमिति पश्यामः, प्रयोगमात्रभेदात् , प्रयोगमात्रं हि भिद्यते नार्थ इति / "उदाहरणमात्रभेदाच, उदाहरणमात्रं केवलं भिद्यते 'आत्मा' 'घटः' इति ।"तस्मान्नेदमुदाहरणं न्याय्यम् / उदाहरणं तु नेदं निरात्मक जीवच्छरीरम् अप्राणादिमत्त्वप्रसङ्गादिति / " न्यायवा० पृ० 122 / न्यायमं० 575 / 6 “साध्येन साधर्म्य' समानधर्मता, साध्यसाधात् कारणात् तद्धर्मभावी दृष्टान्त इति / तस्य धर्मः तद्धर्मः, तस्य-साध्यस्य / साध्यं च द्विविधम् धर्मिविशिष्टो वा धर्मः शब्दस्यानित्यत्वम् , धर्मविशिष्टो वा. धर्मी अनित्यः शब्द इति / इह उत्तरं तद्ग्रहणेन गृह्यते"तस्य धर्मः तद्धर्मः तद्धर्मस्य भावः तद्धर्मभावः स यस्मिन् दृष्टान्ते वर्त्तते स दृष्टान्तः साध्यसाधात् तद्धर्मभावी भवति स चोदाहरणमिष्यते।" न्यायभा० 111136 / “सम्यग्दृष्टान्ताभिधानमुदाहरणम् / " न्यायसार पृ० 12 / “दृष्टान्तवचनमुदाहरणम् / “यत्र प्रयोज्यप्रयोजकभावेन साध्यसाधनधर्मयोरस्तित्वं ख्याप्यते स साधर्म्यदृष्टान्तः / तस्य व्याप्यव्यापकभावगर्भवचनमुदाहरणम् / " न्यायकलिका पृ० 11 / 7 “दृष्टान्त उदाहरणम् इति प्रकृतम् , साध्यवैधादतद्धर्मभावी दृष्टान्त उदाहरणम् / अनित्यः शब्दः उत्पत्तिधर्मकत्वात् , अनुत्पत्तिधर्मकं नित्यमात्मादि।" न्यायभा०.१।१।३७॥",