________________ लघी० प्रमाणप्र० का० 7] षोडशपदार्थवादः - 315 भावी दृष्टान्तः उदाहरणम् , यथा अनित्यः शब्दः उत्पत्तिधर्मकत्वात् , यत्तु नित्यं तद् उत्पत्तिधर्मकं न भवति यथा परमाण्वादि इति / “उदाहरणापेक्षः 'तथा' इत्युपसंहारो 'न तथा' इति वा साध्यस्य उपनयः।" [ न्यायसू० 111138 ] उदाहरणापेक्षः-उदाहरणाधीनः, साध्यसाधर्म्ययुक्ते उदाहरणे 'तथा च शब्द उत्पत्तिधर्मकः' इति साध्यस्य शब्दस्य उत्पत्तिधर्मकत्वमुपसंहियते / साध्यवैधर्म्ययुक्ते तु आकाशादिद्रव्यमनुत्पत्तिधर्मकं नित्यम् 'न च तथा शब्दः' 5 इत्यनुत्पत्तिधर्मकत्वस्य उपसंहारप्रतिषेधेन उत्पत्तिधर्मकत्वमुपसंवियते / “हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्।" [न्यायसू० 1 // 1 // 36 ] यथोदाहरणं साधर्येण वैधhण वा हेतौ उपसंहृते यत् प्रतिज्ञायाः पुनरभिधानं तत् निगमनम् / __ सन्दिग्धेऽर्थे अन्यतरपक्षे अनुकूलकारणदर्शनात् तस्मिन् संभावनाप्रत्ययः तर्कः / तथा च सूत्रम्-" अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितः तत्वज्ञानार्थमूहः तर्कः।" [न्यायसू० 1 / 1 / 40] 10 अविज्ञाततत्त्वे-सन्दिग्धेऽर्थे ऊर्ध्वतालक्षणे कारणोपपत्तितः पुरुषसद्भावे बाह्याली (वाहकेलि) प्रदेशोऽनुकूलं कारणम् , तस्य प्रतीतितः 'पुरुषेण अनेन भवितव्यम्' इत्यूहः तर्कः / किमर्थो . 1 " दृष्टान्ते प्रसिद्धाविनाभावस्य साधनस्य दृष्टान्तोपमानेन पक्षे व्याप्तिख्यापकं वचनमुपनयः / न्यायसार पृ० 14 / 2 "उदाहरणापेक्षः उदाहरणतन्त्रः उदाहरणवशः, वशः सामर्थ्यम् / साध्यधर्मयुक्त उदाहरणे 'स्थाल्यादिद्रव्यमुत्पत्तिधर्मकमनित्यं दृष्टं तथा शब्द उत्पत्तिधर्मक इति साध्यस्य शब्दस्य उत्पत्तिधर्मकत्वमुपसंहियते। साध्यवैधर्म्ययुक्त पुनरुदाहरणे आत्मादिद्रव्यमनुत्पत्तिधर्मकं नित्यं दृष्टं न च तथा शब्दः इत्यनुत्पत्तिधर्मकत्वस्य उपसंहारप्रतिषेधेन उत्पत्तिधर्मकत्वमुपसंह्रियते। तदिदमुपसंहारद्वैतमुदाहरणद्वैताद् भवति।" न्यायभा० 1 / 1 / 38 / ३-धर्मकस्य आ०, ब०, ज० / 4 “सर्वेषामेकार्थसमवाये सामर्थ्यप्रदर्शनं निगमनम् / " न्यायभा० पृ. 9 / “प्रतिज्ञाविषयस्यार्थस्य अशेषप्रमाणोपपत्तौ साध्यविपरीतप्रसङ्गप्रतिषेधार्थ यत्पुनरभिधानं तन्निगमनम् / " न्यायवा० पृ० 137 / "उपनयानन्तरं सहेतुकं प्रतिज्ञावचनं निगमनम् / न्यायसार पृ. 15 / ५-हरणसा-आ०, भां०, श्र० / “साधोक्त वा वैधयॊक्त वा यथोदाहरणमुपसंह्रियते, तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्दः इति निगमनम् / निगम्यन्ते प्रतिज्ञाहेतूदाहरणोपनया एकत्रेति निगमनम् / " न्यायभा० 1 / 1 / 39 / 6 “अविज्ञाततत्त्वे सामान्यतो ज्ञाते धर्मिणि एकपक्षानुकूलकारणदर्शनात् तस्मिन् संभावनाप्रत्ययो भवितव्यतावभासः तदितरपक्षशैथिल्यापादने तद्ग्राहकप्रमाणमनुगृह्य तान् सुखं प्रवर्तयन् तत्त्वज्ञानार्थमूहः तर्कः / " न्यायमं० पृ० 586 / न्यायकलिका पृ० 13 / “जैमिनीयास्तु ब्रुवते युक्तया प्रयोगनिरूपणमूहः / स च त्रिविधः-मन्त्रसामसंस्कारविषयः / " न्यायमं० पृ० 588 / 7 "यथा बाह्यकेलिप्रदेशादावूर्ध्वत्वविशिष्टधर्मिदर्शनात् पुरुषेणानेन भवितव्यमिति 'प्रत्ययः / " न्यायमं० पृ० 586 / " यथा वाहकेलिप्रदेशे ऊर्ध्वत्वदर्शनात् पुरुषेणानेन भवितव्यमिति सम्भावनाप्रत्ययः / न चार्य संशयः / अश्वकेलिप्रदेशे पुरुषवत् स्थाणोरसम्भाव्यमानत्वेन / " न्यायकलिका पृ० 13 / .