________________ लघी० प्रमाणप्र० का०७] षोडशपदार्थवादः 313 1 / 1 / 28 ] सर्वेषां सम्प्रतिपत्तिविषयः ; यथा प्रमाणानि प्रमेयसाधनानि, घ्राणादीनि इन्द्रियाणि, गन्धादयस्तदर्थाः इत्यादि / “समानतन्त्रप्रसिद्धः परतन्त्राऽसिद्धः प्रतितन्त्रसिद्धान्तः।" [ न्यायसू० 1 / 1 / 26 ] यथा भौतिकानि इन्द्रियाणि यौगानाम् , अभौतिकानि सांख्यानाम् / “यत्सिद्धौ अन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः / " [ न्यायसू० 1 // 1 // 30 ] हेतोर्यस्य सिद्धौ अन्यस्य प्रक्रियमाणस्य प्रतिज्ञार्थस्य सिद्धिः सोऽधिकरणसिद्धान्तः, यथा कार्यत्वादेः 5 क्षित्यादौ बुद्धिमत्कारणसामान्यसिद्धौ अन्यस्य तत्करणसमर्थस्य नित्यज्ञानेच्छाप्रयत्नाऽऽधारस्य तत्कारणस्य सिद्धिरिति / “अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणम् अभ्युपगमसिद्धान्तः।" [न्यायसू० 1 // 1 // 31 ] यत् किञ्चिद्वस्तु अपरीक्षितमभ्युपगम्य विशेषः परीक्ष्यते सोऽभ्युपगमसिद्धान्तः / यथा अस्तु द्रव्यं शब्दः, स तु किं नित्योऽनित्यो वा इति शब्दस्य द्रव्यत्वमभ्युपगम्य नित्याऽनित्यत्वविशेषः परीक्ष्यते / परार्थानुमानवाक्यैकदेशभूता अवयवाः ।साँधनीयस्यार्थस्य यावति शब्दसमूहे सिद्धिः परि . १-तन्त्रसिद्धः ब०, ज० / 2 “प्रतितन्त्रसिद्धान्तो नाम तस्मिंस्तन्त्रे तत्तत्प्रसिद्धम् / " चरकसं० पृ. 263 / “सामान्यविशेषतद्वतां नियमेनाभ्युपगमः प्रतितन्त्रसिद्धान्त इति / यथा भौतिकानीन्द्रियाणीति यौगानामभौतिकानीति सांख्यानाम् / " न्यायवा० पृ० 105 / 3 “अधिकरणसिद्धान्तो . नाम यस्मिन् यस्मिन्नधिकरणे संस्तूयमाने सिद्धानि अन्यान्यपि अधिकरणानि भवन्ति / " चरकसं० पृ० 264 / "वाक्यार्थसिद्धौ तदनुषङ्गी योऽर्थः सोऽधिकरणसिद्धान्त इति / " न्यायवा० पृ० 105 / " तेन यस्मिन्नर्थे ज्ञायमाने तदनुषङ्गिणोऽर्थाः तदन्तर्भावेन ज्ञायन्ते सोऽर्थः साक्षादधिक्रियमाणः तदनुषङ्गिणाञ्चाधारः तदाश्रयत्वात्तत्सिद्धः, स पक्षो वा भवतु हेतुर्वा तेन रूपेण अधिकरणसिद्धान्तः। पक्षस्तावद् विवादाध्यासितमुपलब्धिमत्कारणमुत्पत्तिमत्त्वाद् वस्त्रादिवदिति / अत्र हि पृथिव्यादिगतेन उत्पत्तिमत्त्वेन उपलब्धिमत्पूर्वकं तद्गतं साध्यमानं स्वसिद्ध्यन्तर्गतानुषङ्गिसर्वज्ञत्वाद्युपेतत्वमेव सिद्ध्यति"।" न्यायवा. ता० टी० 1 / 1 / 30 / 4 प्रतिक्रिय-ब०, ज० / 5 "अभ्युपगमसिद्धान्तो नाम सः-यमर्थमसिद्धमपरीक्षितमनुपदिष्टहेतुकं वा वादकालेऽभ्युपगच्छन्ति भिषजः / " चरकसं० पृ० 264 / “यत्र किञ्चिदर्थजातमपरीक्षितमभ्युपगम्यते-अस्तु द्रव्यं शब्दः; स तु नित्यः अथाऽनित्यः ? इति द्रव्यस्य सतो नित्यताऽनित्यता वा तद्विशेषः परीक्ष्यते सोऽभ्युपगमसिद्धान्तः / " न्यायभा० 1 / 1 / 31 / “अपरीक्षितोऽसूत्रित इति / योऽर्थः सूत्रेषु नोपनिबद्धः शास्त्रे चाभ्युपगतः सोऽभ्युपगमसिद्धान्त इति / यथा नैयायिकानां मन इन्द्रियमिति, वैशेषिकाणां नैयायिकानाञ्च श्रोत्रमाकाशमिति / " न्यायवा० पृ० 105 / " तस्माद्विशेषपरीक्षणार्थोऽपरीक्षिताभ्युपगमः प्रौढवादिना क्रियमाणोऽभ्युपगमसिद्धान्त इति सूत्रार्थः / " न्यायमं० पृ. 568 / न्यायकलि० पृ० 10 / 6 “परार्थानुमानवाक्योपपत्तेस्तदेकदेशा अवयवा युक्ता इति / " न्यायमं० पृ० 569 / न्यायकलि. पृ० 9 / 7 “साधनीयार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते तस्य पञ्चावयवाः प्रतिज्ञादयः समूहमपेक्ष्य अवयवा उच्यन्ते / " न्यायभा० पृ. 9 /