________________ 312 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० हिताऽहितप्राप्तिपरिहारौ तत्साधनञ्च प्रयोजनम्। “यमर्थमधिकृत्य प्रवर्त्तते तत् प्रयोजनम् / " [ न्यायसू० 1 / 1 / 24] इति वचनात् / यमर्थम् प्राप्तव्यं हातव्यञ्च अध्यवसाय प्रवर्तते तत् प्रयोजनम् / तच्चं द्विविधं मुख्यं गौणं च / मुख्यं सुखदुःखप्राप्तिपरिहारौ, तत्साधनं तुगौणम् / प्रतिबन्धावधारणस्थानं दृष्टान्तः। तथा च सूत्रम्-“लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धि५ साम्यं स दृष्टान्तः / " [न्यायसू० 1 / 1 / 25 ] " नैसर्गिक वैनयिकं च अतिशयमप्राप्ता लौ किकाः, तद्विपरीताः परीक्षकाः।" [ न्यायभा० 1 / 1 / 25 ] तेषां साध्यसाधनाधिकरणत्वेन तद्रहितत्वेन वा बुद्धिसाम्यविषयोऽर्थो दृष्टान्तः / प्रमाणतोऽभ्युपगम्यमानः सामान्यविशेषवान् अर्थः सिद्धान्तः / " तन्त्राधिकरणाऽभ्युपगमसंस्थितिः सिद्धान्तः।" [ न्यायसू० 1 / 1 / 26 ] इति सूत्रकारवचनात् / तन्त्रम्-शास्त्रम् 10 अधिकरणं येषामर्थानां ते तन्त्राधिकरणाः, तेषाम् अभ्युगमसंस्थितिः-इत्थम्भावनियमः सिद्धान्तः। स चतुर्विधः-" सर्वतन्त्र-प्रतितन्त्र-आधिकरण-अभ्युपगमसंस्थित्यर्थान्तरभावात् / " [ न्यायसू० 1 / 1 / 27 ] तत्र " सर्वतन्त्राऽविरुद्धः तन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः।" [ न्यायसू० 1 "प्रयोजनं नाम यदर्थमारभ्यन्त आरम्भाः / " चरकसं० पृ. 264 / “यमर्थमाप्तव्यं हातव्यं वाऽध्यवसाय तदाप्तिहानोपायमनुतिष्ठति प्रयोजनं तद् वेदितव्यम " न्यायभा० 111 / 24 / 2 “तच गौणमुख्यभेदेन द्विविधम् / मुख्यं सुखप्राप्तिः दुखपरिहारश्च, तत्साधनं गौणम् / " न्यायमं० पृ० 563 / न्यायकलिका पृ० 8 / 3 " तत्र दृष्टान्तो नाम यत्र मूर्खविदुषां बुद्धिसाम्यम् / " चरकसं० पृ० 263 / " दृष्टान्तवचनं हि यत्र पृथग्जनानामार्याणाञ्च बुद्धिसाम्यं तदा वक्तव्यम् / दृष्टान्तो द्विविधः-सम्पूर्णदृष्टान्तः आंशिकदृष्टान्तश्च / " उपायहृदय पृ० 5 / 4 “सिद्धान्तो नाम यः परीक्षकैबहुविधं परीक्षितं हेतुभिः साधयित्वा स्थाप्यते निर्णयः स सिद्धान्तः / " चरकसं० पृ. 263 / " इदमित्थम्भूतञ्चेत्यनुज्ञायमानमर्थजातं सिद्धम् , सिद्धस्य संस्थितिः सिद्धान्तः।" न्यायभा० 1 / 1 / 26 / " सामान्यविशेषवदर्थाभ्यनुज्ञा सिद्धान्त इति / " न्यायवा० पृ० 103 / “प्रमाणमूलाभ्युपगमविषयीकृतः सामान्यविशेषवानर्थः सिद्धान्तः / " न्यायमं० पृ० 565 / न्यायकलि० पृ. 9 / “साध्यस्य हेतुभिः विस्तरेण स्थापनं निर्णयश्च / एतत्सिद्धान्तलक्षणम् / आह-सिद्धान्तधर्माः कियन्तः ? अत्रोच्यते चत्त्वारः-सर्वसमः, आदौ समः, पश्चाद्भिन्नः, आदौ मिन्नः पश्चात्समश्च / " उपायहृदय पृ. 6 / 5 "तन्त्रम्-इतरेतराभिसम्बद्धस्य अर्थसमूहस्योपदेशः शास्त्रम्''अभ्युपगमसंस्थितिः अनवधारितार्थपरिग्रहः तद्विशेषपरीक्षणाय अभ्युपगमसिद्धान्तः / " न्यायभा० 111 / 26 / “तन्त्रमधिकरणं येषामर्थानां भवति ते तन्त्राधिकरणाः तेषामभ्युपगमसंस्थितिः इत्थम्भावव्यवस्था धर्मनियमः सिद्धान्तो भवतीति / किमुक्त भवति ? योऽर्थो न शास्त्रितः तस्याभ्युपगमो न सिद्धान्त इति / न्यायवा० पृ० 104 / 6 “सर्वतन्त्रसिद्धान्तो नाम सन्ति निदानानि सन्ति व्याधयः सन्ति सिद्धथुपायाः साध्यानामिति / " चरकसं० पृ. 263 / "सर्वेषां सम्प्रतिपत्तिविषयः सर्वतन्त्रसिद्धान्त इति / यथा प्रमाणानि प्रमेयसाधनानि / " न्यायवा० पृ. 104 / " यथा घ्राणादीनि इन्द्रियाणि गन्धादयः इन्द्रियार्थाः / ..." न्यायभा० 1 / 1 / 28 / “स्वशास्त्रे य उपदिष्टोऽर्थः सर्वशास्त्राविरुद्धश्च स सर्वतन्त्रसिद्धान्तः / // न्यायमं० पृ० 565 / न्यायकलि० पृ. 9 /