________________ लघो० प्रमाणप्र० का०७] षोडशपदार्थवादः 311 व्यवस्थातो विशेषांशे 'साधक-बाधकप्रमाणाऽभावात् विशेषापेक्षः 'स्थाणुर्वा पुरुषो वा' इति विमर्शः संशयः / तथा, समानजातीयम् असमानजातीयञ्च अनेकम् , अनेकस्माद् व्यावृत्तो धर्मः अनेकधर्मः, तदुपपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्षः संशयः, यथा शब्दे विभागजत्वदर्शनात् किमयं गुणो द्रव्यं कर्म वा इति ? नहि विभागजत्वं सजातीये क्वचिद् गुणे विजातीये वा द्रव्ये कर्मणि च वर्तते, अतः संशयहेतुः-किंभूतस्य अस्य विभागजत्वमिति / तथा, 5 विप्रतिपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्षः संशयः, यथा 'अस्ति आत्मा' इत्येके, 'नास्त्यात्मा' इत्यपरे, न च सद्भावाऽसद्भावौ सममेकत्र भवतः तस्मात्तत्त्वाऽनवधारणम् 'अस्ति आत्मा, नास्ति वा' इति संशयः। . __ भाष्यकारमते तु उपलब्ध्यनुपलब्धी पृथक् संशयकारणम् इति पञ्चधा संशयः; तथाहि'उपलब्ध्युपपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्षः संशयः, यथा सद् उदकमुपलभ्यते, 10 मरीचिकासु च असत् , इदानीं क्वचिद् उदकोपलब्धौ तत्त्वव्यवस्थापकप्रमाणस्यानुपलब्धेः 'सद्वा उदकम् असद्वा' इति संशयः। तथा, अनुपलब्ध्युपपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्षः संशयः, यथा सन् मूलकीलकादि नोपलभ्यते, असञ्च अनुत्पन्नं निरुद्धं वा, इदानीं 'पिशाचोऽ पि सन् नोपलभ्यते असन् वा' इति संशयः / समानोऽनेकश्च धर्मो ज्ञेयस्थः, विप्रतिपत्तिउपलब्धि-अनुपलब्धयो ज्ञातृस्था इति भेदः / भवत इति / किमेतावन्मानं साधनम् ? नेत्युच्यते / यदि विशेषाकाङ्क्षा भवति समानधर्ममुपलभते, उपलब्ध्यनुपलब्धी न व्यवतिष्ठेते इदन्तया वाऽनिदन्तया वा, विशेषाकाङ्क्षायां च सत्यामर्थसन्देहो भवतीति।" न्यायवा० पृ० 89 / 1 साधकप्रमा-श्र० / 2 “अथ अनेकधर्मस्य कोऽर्थः ? असाधारणो धर्मः / “समानासमानजातीयविशेषकत्वात् समानजातीयमसमानजातीयञ्चानेकम् , तस्माद् विशेषो विशेषको धर्मः अनेकस्माद्विशेषोऽनेकधर्म इति / "एकाऽनेकप्रत्ययहेतुर्वा धर्मोऽनेकधर्मः..." न्यायवा० पृ. 91 / 3 "विप्रतिपत्तेः संशय इति / व्याहतार्थप्रवादो विप्रतिपत्तिशब्दस्यार्थी व्याहतार्थप्रवादविषयत्वमुपलभमानस्य उपलब्ध्यनुपलब्ध्योश्चाव्यवस्थाने सति तद्गतविशेषानुस्मृतौ च सत्यां संशयो भवतीति / " न्यायवा० पृ. 96 / 4 "उपलब्ध्यव्यवस्थातः खल्वपि-सच्चोदकमुपलभ्यते तडागादिषु, मरीचिषु चाविद्यमानमुदकमिति / अतः क्वचिदुपलभ्यमाने तत्त्वव्यवस्थापकस्य प्रमाणस्यानुपलब्धेः किं सदुपलभ्यते अथासत् इति संशयो भवति / ..." न्यायभा० 11 / 23 / 5 "अनुपलब्ध्यव्यवस्थातः सच्च नोपलभ्यते मूलकीलकोदकादि, असच्चाऽनुत्पन्नं निरुद्धं वा। ततः क्वचिदुपलभ्यमाने संशयः किं सन्नोपलभ्यते उतासन्निति संशयो भवति...।" न्यायभा० 1 / 1 / 23 / 6 “समानोऽनेकश्च धर्मो ज्ञेयस्थः, उपलब्ध्यनुपलब्धी पुनर्घातृगते / " न्यायभा० .1 / 1 / 23 / वार्तिककारस्तु ज्ञेयस्थतया समानाऽनेकधर्मयोः कारणत्वं नानुमन्यते-“समानोऽनेकश्च धर्मो ज्ञेयस्थः इत्येतदपि न बुद्धथामहे / किमत्र धर्मः संशयकारणम् , अथ ज्ञानमिति / न धर्मः संशयकारणमित्यनेकधा समर्थितम् / समानानेकधर्मज्ञानं तु संशयकारणम् , तच ज्ञातरि वर्त्तते इति नास्ति भेदः।" न्यायवा० पृ० 96 /