________________ 310 लघीयस्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० पलब्धौ नेन्द्रियाणि प्रभवन्ति इति सर्वविषयं मनः / शरीर-इन्द्रिय-अर्थ-बुद्धि-सुख-दुःखसंवेदनानां 'निर्वृतिकारणं प्रवृत्तिः पुण्य-पापरूपा। दोषाः राग-द्वेष-मोहाः। 'उत्पन्नशरीरेन्द्रियबुद्धिवेदनाभिसम्बन्धस्य पुनः अन्यैः शरीरादिभिः आत्मनः सम्बन्धः प्रेत्यभावः / प्रवृत्तिदोषज नितः सुखदुःखोपभोगः फलम् / “बाधनालक्षणं दुःखम् / " [ न्यायसू० 1 / 1 / 21 ] तस्य च 5 यत्नेन परिहार्यत्वात् फलात् पृथगुपादानम् / शरीरादिना एकविंशतिभेदभिन्नेन दुःखेन आत्यन्तिको वियोगः अपवर्गः। नानार्थविमर्शः संशयः, “समानीऽनेकधर्मोपपत्तेः उपलब्ध्यनुलब्ध्यव्यवस्थातो विशेषापेक्षो विमर्शः संशयः।" [ न्यायसू० 1 / 1 / 23 ] इति सूत्रकारवचनात्। स च वार्तिककारमते त्रेधा"; तथाहि-समानाऽनेकधर्मोपपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्षो' विमर्शः संशयः / 10 समानधर्मस्य स्थाणुपुरुषयोरूर्खतालक्षणस्य उपपत्तेः उपलब्धेः। स च समानो धर्मः उपलभ्य मानो न केवलः संशयहेतुः किन्तु उपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्षः, उपलब्ध्यनुपलब्ध्य 1 निवृत्ति-आ० / 2 "प्रवृत्तिः पुण्यपापात्मिका...।” न्यायमं० पृ० 428 / 3 “तत्रैराश्य रागद्वेषमोहार्थान्तरभावात् / " न्यायसू० 4 / 1 / 3 / 4 “पुनरुत्पत्तिः प्रेत्यभावः / " "उत्पन्नस्य क्वचित् सत्त्वनिकाये मृत्त्वा या पुनरुत्पत्तिः स प्रेत्यभावः / उत्पन्नस्य सम्बद्धस्य, सम्बन्धस्तु देहेन्द्रियमनोबुद्धिवेदनाभिः / पुनरुत्पत्तिः पुनर्देहादिभिः सम्बन्धः / " न्यायभा० 1 / 1 / 19 / "देहेन्द्रियादिसङ्घातस्य प्राक्तनस्य त्यागेन सघातान्तरग्रहणं प्रेत्यभावः।"न्यायकलिका पृ०७॥५-न्द्रियविषयबद्धि-ब०,ज०। 6 “प्रवृत्तिदोषजनितोऽर्थः फलम् / " "सुखदुःखसंवेदनं फलम्"।" न्यायभा. 1 / 1 / 20 / "प्रवृत्ति दोषजनक सुखदुःखात्मकं मुख्यं फलम् , तत्साधनं तु गौणम् / " न्यायकलिका पृ. 7 / 7 “फलग्रहणाक्षिप्तमपि पीडनस्वभावं दुःखम् अदुःखसम्मतस्यापि दुःखत्वभावनार्थमुपदिश्यते / अत एव फलत्वेऽपि सुखमिहन निर्दिष्टम् / " न्यायकलिका पृ. 7 / ८"दुःखानि शरीरं षड् इन्द्रियाणि षड्विषयाः षड् बुद्धयः सुखं दुःखं च इत्येकविंशतिः।" मुक्ता० दिन० पृ. 42 / 9 "तदत्यन्तविमोक्षोऽपवर्गः / " न्यायसू० 1 / 1 / 22 / “आत्यन्तिको दुःखवियोगोऽपवर्गः, सर्वगुणवियुक्तस्यात्मनः स्वरूपावस्थानम् / " न्यायकलिका पृ०७। 10 “संशयो नाम सन्देहलक्षणानुसन्दिग्धेष्वर्थेषु अनिश्चयः।" चरकसं० पृ. 264 / “उभयहेतुदशंनं संशयः।" सुश्रुतसं० पृ. 709 / “समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः / " न्यायसू० 1 / 1 / 23 / “अत्र च विमर्शः संशयः इति संशयसामान्यलक्षणम् / " ता० टी० 247 / “विरुद्धार्थावमझे विमर्शः, स्थाणुवा पुरुषो वेतीयता च सजातीयसंशयपचकानुगतं विजातीयेभ्यः प्रमाणादिभ्यो व्यवच्छिन्नं सामान्यलक्षणमुक्तं भवति / " न्यायमं० पृ० 556 / "अन्ये तु ( बौद्धाः ) साधर्म्यदर्शनाद्विशेषोपलिप्सोर्विमर्शः संशयः।” न्यायवा० पृ० 100 / 11 "तत्र समानधर्मोपपत्तेः अनेकधर्मोपपत्तेः विप्रतिपत्तेश्च त्रिविध एव संशयः।" न्यायवा० 1.1 / 23 / पृ० 87 / "तत्र उपलब्ध्यनुपलब्ध्योस्तावत् पृथक् संशयकारणत्वं न भवतीति / " न्यायवा० पृ० 96 / १२-पेक्षः संशयः आ०, ब०, ज०, भा० / 13 "सोऽयं साधारणो धर्म उपलभ्यमानः संशयहेतुः / किं केवल इति ? न केवलः / किं तर्हि ? उपलब्ध्यनुपलब्ध्यव्यवस्थातश्च / यदि च उपलब्ध्यनुपलब्धीन व्यवस्थिते