________________ लघी० प्रमाणप्र० का०७] षोडशपदार्थवादः 309 व्याप्तिरस्ति, इतरथा इतरज्ञानापेक्षया सुगतज्ञाने विशदतरादिव्यवहारतः तस्य अपरमार्थसत्त्वप्रसङ्गतो लाभमिच्छतो मूलोच्छेदः स्यात् / कथञ्चैवंवादिनो असम्बन्धस्वभावोऽप्यर्थानां वास्तवः सिद्धयेत् , तस्याप्यापेक्षिकत्वाऽविशेषात् ? प्रत्यक्षबुद्धौ प्रतिभासमानः सोऽनापेक्षिक एव, तत्पृष्ठभाविना तु विकल्पेन अध्यवसीयमानो यथा आपेक्षिकः तथाऽवास्तवोऽपि; इत्यन्यत्रापि समानम् , न खलु सम्बन्धोऽध्यक्षे न प्रतिभासते यतोऽनापेक्षिकोऽसौ न स्यात् , अन्त- 5 'बहिश्च एकत्वपरिणतिरहितस्य अर्थस्य स्वप्नेऽप्यप्रतिभासनात् / ___ यच्चोक्तम् -'द्वयोरेकाभिसम्बन्धात्' इत्यादि; तदप्येकान्तवादिनामेव दूषणम्, तैरेव सम्बन्धसम्बन्धिनामेकान्ततो भेदाऽभ्युपगमात् नाऽस्माकम् , एकलोलीभावादन्यस्य सम्बन्ध-सम्बन्धिभावस्यैवानभ्युपगमात् , तथाभूतश्च तद्भावः प्रत्यक्षगोचरचारितया प्ररूपितः / इत्ययुक्तमुक्तम्-'इत्यमिश्राः स्वयं भावाः तान् मिश्रयति कल्पना' इति / ततोऽवयवाऽवयव्यादौ उक्तप्र- 10 कारस्यैव सम्बन्धस्य प्रसिद्धेर्न परपरिकल्पितः सँमवायपदार्थोऽपि घटते / तदेवं वैशेषिकमते कणादप्रणीतषट्पदार्थानां विचार्यमाणानामव्यवस्थितेः न तल्लक्षणे भेदैकान्ते अर्थस्य सिद्धिर्घटते। ___माभूत् तत्र तत्सिद्धिः ; अक्षपादप्रणीते तु षोडशपदार्थलक्षणे तस्मिन् सा भविष्यति, .. विभिन्नलक्षणलक्षितत्वेन एषामत्यन्तभेदभिन्नानां प्रमाणत उपपद्यनैयायिकाभिमतप्रमाणप्रमेयादि- मानत्वात् / तत्र सामान्येन उद्दिष्टानामेषां विशेषलक्षणानि विधा- 15 घोडशपदार्थानां विशदरूपेण तं पार्यन्ते इति उद्देशतः षोडशदार्थान् सूत्रे निर्दिशतिविवेचनम् "प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्त-अवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगतिः।" [ न्यायसू० 1 / 1 / 1 ] इति / तत्र अर्थपरिच्छित्तिसाधनं प्रमाणम् / तच्चतुर्विधम् -"प्रत्यक्षाऽनुमानोपमानशब्दाः प्रमाणानि / " [ न्याय० सू० 1 / 1 / 3 ] इत्यभिधानात् / तत्परिच्छेद्यम् आत्मादिद्वादशविधं प्रमेयम् / तथा च सूत्रम्-"आत्म-शरीर-इन्द्रिय-अर्थबुद्धि-मनः-प्रवृत्ति-दोष-प्रेत्यभाव-फल-दुःख-अपवर्गास्तु प्रमेयम् / " [ न्यायसू० // 1 // 6 ] इति / तत्र आत्मा सर्वस्य सुख-दुःखसाधनस्य दृष्टा, सर्वस्याश्च सुखादिसंवित्तेराश्रयत्वेन भोक्ता, तस्य भोगायतनं शरीरम् , भोगसाधनानि इन्द्रियाणि, भोक्तव्या इन्द्रियार्थाः, भोगो बुद्धिः / सर्वार्थो १-बहिर्वा ब०, ज० / २-प्यप्रत्यक्षबुद्धौ प्रति-श्र० / 3 पृ. 306 पं० 16 / 4 समवायः पदार्थो घ-आ० / ५-पदान् आ० / 6 “एवं प्रमाणैश्चतुर्भिरुपदिष्टे ( प्रत्यक्षानुमानयुक्तिशब्दाख्यः) ..." चरकसं० सूत्रस्था० पृ० 69 / 7 “तत्र आत्मा सर्वस्य दृष्टा, सर्वस्य भोक्ता, सर्वज्ञः, सर्वानुभवी / तस्य भोगायतनं शरीरम् , भोगायतनानि इन्द्रियाणि, भोक्तव्या इन्द्रियार्थाः, भोगो बुद्धिः, सर्वार्थोपलब्धौ नेन्द्रियाणि प्रभवन्तीति सर्वविषयमन्तःकरणं मनः, शरीरेन्द्रियार्थबुद्धिसुखवेदनानां निर्वृतिकारणं प्रवृत्तिदोषाश्च / " न्यायभा० 1139 /