________________ 308 लघीयस्यालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० अस्याभ्युपगमात् , कात्स्न्यैकदेशाभ्यां हि तस्यासम्भवात् अपरप्रकारस्य च संभवात् / सम्बन्ध-. बुद्धधन्यथाऽनुपपत्तेश्च प्रकारान्तरेणैव असौ स्निग्धरूक्षतानिबन्धनोऽभ्युपगन्तव्यः / यन्मते हि विभिन्नौ सम्बन्धिनौ अप्रच्युताऽनुत्पन्नपूर्वाऽपरस्वरूपौ अन्योन्यं सम्बद्धयेते तन्मते अयम नन्तरोदितो दोषो भवत्येव, अस्मन्मते तु विश्लिष्टरूपतापरित्यागेन संश्लिष्टरूपतया एकलोली५ भावलक्षणया परिणतिः सक्तुतोयादीनां सम्बन्धोऽभिप्रेतः , तत्कथमुक्तदोषाणां लेशतोऽप्यव काशः स्यात् ? तथाविधसम्बन्धाऽनभ्युपगमे च कथं चित्रसंवेदनसिद्धिः स्यात् ? नहि चित्रसंविदः तथाभूतपरिणतिव्यतिरेकेण अन्यो नीलाद्यनेकाकारैः सम्बन्धः संभवति , सर्वात्मना एकदेशेन वा तस्यास्तैः सम्बन्धे प्रोक्ताऽशेषदोषाऽनुषङ्गात् / स च एवंविधः सम्बन्धोऽर्थानां क्वचिन्निखिलप्रदेशानामन्योन्यप्रदेशानुप्रवेशतो भवति यथा सक्तुतोयादीनाम् , क्वचित्तु प्रदेश१० संश्लिष्टतामात्रेण यथा अङ्गुल्यादीनाम् / न च अन्तर्बहिर्वा सांशवस्तुवादिनः सांशत्वाऽनुषङ्गो दोषाय इष्टत्वात् / न चैवमनवस्था; तद्वतः तत्प्रदेशानामत्यन्तभेदाऽभावात् , तद्भेदे हि तेषामपि तद्वतां प्रदेशान्तरैः सम्बन्धः इत्यनवस्था स्यान्नान्यथा। अनेकान्तात्मवस्तुनो अत्यन्तभेदाsभेदाभ्यां जात्यन्तरत्वात् चित्रसंवेदनवत् / नन्वेवं परमाणुनामपि सांशत्वप्रसङ्गः; इत्यप्यचोद्यम् ; यतोऽत्र अंशशब्दः स्वभावार्थः, 15 अवयवार्थो वाऽभिप्रेतः ? यदि स्वभावार्थः; न कश्चिद् दोषः, तेषां विभिन्नदिग्भागव्यवस्थिता ऽनेकाणुभिः सम्बन्धाऽन्यथाऽनुपपत्त्या तावद्धा स्वभावभेदोपपत्तेः / अवयवार्थस्तु तत्रासौ नोपपद्यते; अणूनामभेद्यत्वेन अवयवाऽसंभवात् / ननु स्वभावभेदसंभवेऽणूनां कथमविभागित्वप्रतिज्ञा न विरुद्धचेत ? इत्यप्यनुपपन्नम् ; यतोऽविभागित्वं तेषां भेदयितुमशक्यत्वमुच्यते न पुनः निःस्वभावत्वम् / __यत्पुनरुक्तम्-'परापेक्षा हि' इत्यादि; तदनभ्युपगमादेव परिहृतम् , नहि जिनपतिमताऽनुसारिभिः परापेक्षालक्षणः सम्बन्धोऽभ्युपगम्यते कथञ्चिदेकत्वपरिणतः तत्त्वाऽभ्युपगमात् / परापेक्षवात् सम्बन्धस्वभावो मिथ्या अर्थानाम् , असम्बन्धस्वभावार्थापेक्षों हि सम्बन्धस्वभावोऽर्थानाम् ; इत्यप्यनल्पतमोविलसितम् ; यतः क तस्य परापेक्षत्वम्-आत्मलाभे, सम्बन्धव्य वहारे वा ? न तावद् आत्मलाभे; परानपेक्षात् स्वकारणकलापादेव एकत्वपरिणतिलक्षण२५ सम्बन्धस्य आत्मलाभप्रतीतेः / तद्वयवहारे परापेक्षत्वं तु न तस्य मिथ्यात्वं प्रसाधयति; पर मार्थसत्त्वाऽप्रतिद्वन्दित्वात् , न खलु 'यत्र परापेक्षो व्यवहारः तत्र अपरमार्थसत्त्वम्' इति १-स्य वा सं-ब०, ज० / 2 विशिष्ट-आ० / 3 “अंशशब्दः स्वभावार्थः अवयवार्थो वा ?" प्रमेयक पृ० 152 उ० / स्या. रत्ना० 824 / ४-रुद्धयते आ०, ब०, ज०, भा० / 5 पृ० 306 पं०६। ६"न चापेक्षवात् सम्बन्धस्वभावस्य मिथ्याप्रतिभासः...।" तत्त्वार्थश्लो. पृ० 148 प्रमेयक० पृ. 152 उ० / स्या. रत्ना० पृ. 825 / ७-पेक्षा आ० /