________________ 307 लघी० प्रमाणप्र० का०७] सम्बन्धसद्भाववादः . सत्तिः एकत्वपरिणतिस्वभावा पारतन्त्र्य-अपरनामा सम्बन्धोऽर्थानामभिप्रेतो जैनैः, स च आबालं प्रत्यक्षादिप्रमाणे प्रतिभासते, बहिरेकावयविद्रव्यगतानां रूपादीनाम् अन्तश्च एकात्मद्रव्यगतानां ज्ञान-सुखादीनां लोलीभूतानामध्यक्षत एव अवभासनात् / प्रसाधितञ्च अवयविद्रव्यम् आत्मद्रव्यञ्च प्राक् इत्यलमतिप्रसङ्गेन / तथा एकक्षेत्रवर्त्तिनां क्षीर-नीरादीनामेकलोलीभावेन एकत्वपरिणतिलक्षणं क्षेत्रनिबन्धनं पारतन्त्र्यं प्रत्यक्षत एव प्रतीयते / कालनिबन्धनमपि 5 तत् तथाविधम् आम्ररसादीनां बालाद्यवस्थशरीरावयवोपचयादीनां वा प्रत्यक्षत एव प्रतीयसे / भावनिबन्धनमपि तत् संयोगिनां द्रव्य-पर्यायादीनाञ्च प्रतीयत एव, घटपटादीनां संयोगात्मना परिणतः औत्मसुखादीनाञ्च चैतन्यादिस्वभावतया इति / एकैकप्रधानतया च एवंविधा प्रत्यासत्तिः प्रदर्शिता न पुनरन्यव्यवच्छेदेन; द्रव्यादिप्रत्यासत्तौ क्षेत्रादिप्रत्यासत्तेरप्यनिवारणात् / ___यदप्युक्तम्-'निष्पन्नयोरनिष्पन्नयोर्वा' इत्यादि; तदसमीक्षिताभिधानम् ; कथञ्चिन्निष्प- 10 नयोः सम्बन्धिनोः पारतन्त्र्याभ्युपगमात् / द्रव्य-पर्यायात्मकत्वे हि वस्तुनो द्रव्यरूपतया निष्पनस्य अनिष्पन्नपर्यायपारतन्त्र्यमुपपद्यते तद्रपतया तस्य परिणमनात्। पटो हि तन्तुद्रव्यरूपतया निष्पन्न एव, अन्वयिनो द्रव्यस्य पटपरिणामोत्पत्तेः प्रागपि सत्त्वात् , स्वरूपेण तु अनिष्पन्नः / तन्तुद्रव्यमपि स्वरूपेण निष्पन्नम् पटपरिणामरूपतया तु अनिष्पन्नम् / तथा अङ्गुल्यादिद्रव्यं स्वरूपेण निष्पन्नम् संयोगपरिणामात्मना त्वनिष्पन्नम् , इति सर्व वस्तु स्यान्निष्पन्नं स्यादनिष्पन्नं 15 पारतन्त्र्यभाक् भवतीति प्रतिपत्तव्यम् / किञ्च, पारतन्त्र्यस्याभावाद् भावानां सम्बन्धाभावे तेन व्याप्तः क्वचित् सम्बन्धः प्रसिद्धः, न वा ? प्रसिद्धश्चेत् कथं सर्वत्र सर्वदा सम्बन्धाभावः विरोधात् ? अथ न प्रसिद्धः; कथमव्यापकाऽभावाद् अव्याप्यस्याभावसिद्धिः अतिप्रसङ्गात् ? __ यच्चान्यदुक्तम्-‘रूपश्लेषो हि' इत्यादि ; तदपि एकान्तवादिनामेव दूषणं नास्माकम् , कञ्चित् सम्बन्धिनोरेकत्वापत्तिस्वभावस्य॑ रूपश्लेषलक्षणसम्बन्धस्याभ्युपगमात् / अशक्य- 20 विवेचनत्वं हि सम्बन्धिनो रूपश्लेषः, असाधारणरूपता च तदश्लेषः, स च अनयोन द्वित्वं विरुणद्धि तथाप्रतीतेः चित्राकारैकसंवेदनवत् / __ यदप्यभिहितम् -'सर्वात्मना एकदेशेन वा' इत्यादि ; तदप्यभिधानमात्रम् ;प्रकारान्तरेणैव +पृ. 232 / पृ० 261 / १"द्रव्यक्षेत्रकालभावप्रत्यासत्तिलक्षणस्य सम्बन्धस्य निराकर्तमशक्तः / न हि कस्यचित् केनचित् साक्षात् परम्परया वा सम्बन्धो नास्तीति निरुपाख्यत्वप्रसङ्गात् / ..." अष्टसह. पृ० 111 / तत्र आ० / "क्षेत्रप्रत्यासतिर्यथा...।" तत्त्वार्थश्लो० पृ० 147 / 2 आत्मस्थसुआ० / 3 पृ० 305 पं० 13 / ४-पर्ययाय-आ० / 5 “पारतन्त्र्यस्याभावाद् भावानां सम्बन्धाभावमभिदधानाः तेन सम्बन्धं व्याप्तं क्वचित् प्रतिपद्यन्ते न वा / ..." तत्त्वार्थश्लो० पृ. 146 / प्रमेयक. पृ० 152 उ० / स्या० रत्ना० पृ० 821 / 6 पृ० 306 पं० 1 / 7 "ते हि कथञ्चिदेकत्वापत्तिं सम्बन्धिनो रूपश्लेषं सम्बन्धमाचक्षते / ..." तत्त्वार्थश्लो. पृ० 148 / प्रमेयक. पृ० 152 उ०। स्या. रत्ना० पृ. 824 / ८-स्य स्वरूपश्ले-श्र०। ९-रूपत्वाच्च आ० / 10 पृ. 305 पं० 23 /