________________ 306 लघीयस्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० "रूपंश्लेषो हि सम्बन्धः द्वित्वे स च कथं भवेत् / तस्मात् प्रकृतिभिन्नानां सम्बन्धो नास्ति तत्त्वतः // " [ अथ परापेक्षास्वरूपोऽसौ सम्बन्धः; अस्त्वेतत् ; तथापि भावः स्वयं सन् , असन् वा पर मपेक्षेत ? न तावदसन् ; तथाभूतस्य अस्य अश्वविषाणवत् अपेक्षाधर्माश्रयत्वविरोधात् / नापि 5 सन् ; सर्वनिराशंसत्वात् , अन्यथा सत्त्वविरोधात् / तथा चोक्तम् “परौपेक्षा हि सम्बन्धः सोऽसन् कथमपेक्षते / संश्च सर्वनिराशंसो भावः कथमपेक्षते // " [ किञ्च, सम्बन्धः सम्बन्धिभ्यो भिन्नः; अभिन्नो वा स्यात् ? यद्यभिन्नः; तदा सम्बन्धिनावेव सम्बन्ध एव वा स्यात् / अथ भिन्नः; तदा सम्बन्धिनौ केवलौ कथं सम्बद्धौ स्याताम् ? अस्तु 10 वा ताभ्यामर्थान्तरमसौ; तथापि तेनैकेन सम्बन्धेन सह द्वयोः सम्बन्धिनोः कः सम्बन्धः ? यथा सम्बन्धिनोर्यथोक्तदोषान्न कश्चित् सम्बन्धः तथा अत्रापि, तेन सह अनयोः सम्बन्धान्तराभ्युपगमे च अनवस्था स्यात् तत्रापि सम्बन्धान्तराऽनुषङ्गात् / तन्न संम्बन्धबुद्धिर्वास्तवी तद्वथतिरिक्तस्य सम्बन्धस्याऽसत्त्वात् / सत्त्वे वा 'द्वौ सम्बन्धिनौ सम्बन्धश्च' इत्यन्योन्यम मिश्राः सर्वे भावाः स्वस्वरूपव्यवस्थिताः परमार्थतः स्थिताः, तान् इत्थम्भूतानपि भावान् 15 कल्पना अन्योन्यं मिश्रानिवादर्शयतीति / उक्तञ्च "द्वयोरेकाभिसम्बन्धात् सम्बन्धो यदि तद्वयोः। . कः सम्बन्धोऽनवस्था च न सम्बन्धमतिस्तथा // ततः- तौ च भावौ तदन्यश्च सर्वे ते स्वात्मनि स्थिताः। . इत्यमिश्राः स्वयं भावाः तान् मिश्रयति कल्पना // "[ ] ईत्यादि / 20 अत्र प्रतिविधीयते / यत्तावदुक्तम् -'पारतन्त्र्य' इत्यादि; तदसमीचीनम् ; एकत्वपरिणति लक्षणपारतन्त्र्यस्य अर्थानां प्रत्यक्षादिप्रमाणप्रसिद्धत्वेन निहोतुतत्प्रतिविधानपुरस्सरं सम्बन्धस्य मशक्यत्वात् / यत् प्रत्यक्षादिप्रमाणप्रसिद्धं न तन्निह्रोतुं शक्यम् कथञ्चिदेकत्वपरिणतिलक्षणत्न यथा नीलादि, तत्प्रमाणप्रसिद्धञ्च एकत्वपरिणतिलक्षणं पारतन्त्र्यं व्यवस्थापनम् बाह्याध्यात्मिकार्थानामिति / द्रव्य-क्षेत्र-काल-भावकृता हि प्रत्या१ उद्धृतश्चैतत्-तत्त्वार्थश्लो० पृ० 148, प्रमेयक० पृ० 149 पू० / 2 अथापरा-श्र० / 3 उद्धृतश्चैतत्-तत्त्वार्थश्लो० पृ० 148, प्रमेयक० पृ० 149 पू०, स्या. रत्ना० पृ० 813 / 4 सम्बन्धिनो बु-श्र० / 5 उद्धृतश्चैतत्-तत्त्वार्थश्लो० पृ० 147, प्रमेयक० पृ० 149 पू० / स्या. रत्ना० पृ० 813 / 6 अनयैव प्रक्रियया पूर्वपक्षः (प्रमेयक० पृ० 149 पू०, स्या० रत्ना० पृ० 812) द्रष्टव्यः / 7 पृ० 305 पं० 12 / ८-तन्त्र्यादि श्र० / 9 "द्रव्यतः क्षेत्रतः कालभावाभ्यां कस्यचित् स्वतः / प्रत्यासन्नकृतः सिद्धःसम्बन्धः केनचित् स्फुटः // 12 // " तत्त्वार्थश्लो. पृ० 146 / स्या० रत्ना० पृ० 821 /