________________ - 305 लघी० प्रमाणप्र० का०७] सम्बन्धसद्भाववादः ___ यच्चान्यदुक्तम्'-'संयोगिद्रव्यविलक्षणत्वाद् गुणादीनाम्' इत्यादि ; तदप्यपेशलम् ; यतो निष्क्रियत्वेऽप्येषाम् आधेयत्वम् अल्पपरिमाणत्वात् , तत्कार्यत्वात् , तथाप्रतिभासाद्वा ? तत्र आद्यः पक्षोऽसङ्गतः ; सामान्यस्य महापरिमाणगुणस्य न अनाधेयत्वप्रसङ्गात् / द्वितीयपक्षोऽप्यत एव अयुक्तः / तृतीयपक्षोऽप्यनुपपन्नः; तेषामाधेयतया प्रतिभासाभावात् / तदभावश्च रूपादीनां स्वाधारेषु अन्तर्बहिश्च सत्त्वात् / नहि अन्यत्र कुण्डादावधिकरणे बदरादीनामा- 5 धेयानां तथा सत्त्वमस्ति / अथ रूपादीनामाधेयत्वे सत्यपि युतसिद्धेरभावात् उपरितनतया प्रतिभासाऽभावः; न; युतसिद्धत्व-अयुतसिद्धत्वयोः उक्तप्रकारेणाऽव्यवस्थितयोः तथाप्रतिभासाऽनिबन्धनत्वात् / न च युतसिद्धत्वस्य उपरितनत्वप्रतीतिहेतुत्वम् ; ऊर्ध्वाधःस्थितवंशादेः क्षीरनीरयोश्च तदभावात्। तस्मान्नसम्बन्धिभ्यः सम्बन्धः सर्वथार्थान्तरभूतो विचार्यमाणो घटते / ननु सिद्धे सम्बन्धे तस्य सम्बन्धिभ्योऽर्थान्तरत्वम् अनर्थान्तरत्वं वा कल्पयितुं युक्तम् , 10 __न चासौ सिद्धः तत्स्वरूपाऽनवधारणात् ; तथाहि-सम्बन्धो'न सम्बन्धबुद्धिर्वास्तवी तद्वयति ऽर्थानां पारतन्त्र्यलक्षणः, रूपसंश्लेषस्वभावः, परापेक्षास्वरूपो रिक्तस्य सम्बन्धस्य असत्त्वात् ' इत्यादिना सम्बन्धमात्रं निराकुर्वतो वा स्यात् ? प्रथमपक्षे किमसौ सम्बन्धिनोर्निष्पन्नयोः, अनि " पन्नयोर्वा स्यात् ? न तावदनिष्पन्नयोः स्वरूपस्यैवाऽसत्त्वात् बौद्धस्य पूर्वपक्षः शशविषाणबन्ध्यास्तनन्धयवत् / नापि निष्पन्नयोः तथाविधयो- 15 स्तयोः सह्य-विन्ध्यवत् पारतन्त्र्याऽभावतः सम्बन्धानुपपत्तेः / तदुक्तम् "पारतन्त्र्यं हि सम्बन्धः सिद्धे का परतन्त्रता / तस्मात् सर्वस्य भावस्य सम्बन्धो नास्ति तत्त्वतः // " [ ] नापि रूपसंश्लेषस्वभावोऽसौ घटते; सम्बन्धिनोत्वेि तत्संश्लेषविरोधात् / तयोरैक्ये वा सुतरां सम्बन्धाऽभावः , सम्बन्धिनोरभावे सम्बन्धाऽयोगात् द्विष्ठत्वात्तस्य / अथ नैरन्तये 20 तयोः सम्बन्धः; न; अस्य अन्तरालाऽभावत्वेन अतात्त्विकत्वतः सम्बन्धत्वाऽनुपपत्तेः, निरन्तरतायाश्च सम्बन्धत्वे सान्तरताऽपि सम्बन्धः स्यादविशेषात् / किञ्च, अनयोः पश्लेषः सर्वात्मना, एकदेशेन वा ? सर्वात्मना तत्संश्लेषे पिण्डोऽणुमात्रः स्यात् / एकदेशेन तत्संश्लेषे अणूनां षडंशतापत्तिः / तद्देशाश्च तेभ्योऽभिन्नाः, भिन्ना वा ? यद्यभिन्नाः; तदा तेषामभावात् कथमेकदेशेन तत्संश्लेषः स्यात् / अथ भिन्नाः तदा तैरपि 25 अणूनां सर्वात्मना एकदेशेन वा संश्लेषे स एव पर्यनुयोगोऽनवस्था च स्यात् / उक्तञ्च 1 पृ० 297 पं० 11 / 2 "आश्रयाश्रयिभावान स्वातन्त्र्यं समवायिनाम् / इत्ययुक्तः स सम्बन्धो न युक्तः समवायिभिः॥६४॥" आप्तमो०। "नापि संयोगस्य समवायस्य वा सम्बन्धिव्यतिरेकेण अस्तित्वे किञ्चित् प्रमाणमस्ति ।..."ब्रह्मसू० शां० भा० 2 / 2 / 17 / 3 उद्धृतश्चैतत्-तत्त्वार्थश्लो॰ पृ० 146 / अष्टसह पृ० 111 / प्रमेयक० 149 पू० / स्या. रत्ना० पृ० 812 / 4 रूपसंश्ले-श्र०।, 39