________________ 304 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० समवायिनां सम्बन्धान्तरसम्बद्धत्वं संभवति अनभ्युपगमात् / किञ्च, विशेषणभावोऽपि एतेभ्यः अत्यन्तं भिन्नः कुतस्तत्रैव नियम्येत ? समवायाच्चत् ; इतरेतराश्रयः-सिद्धे हि समवायनियमे ततो विशेषणभावनियमसिद्धिः, तत्सिद्धौ च समवायनियमसिद्धिरिति / किञ्च, अयं विशेष णभावः षड्पदार्थेभ्यो भिन्नः, अभिन्नो वा ? भिन्नश्चेत् ; किं भावरूपः, अभावरूपो वा ? न 5 तावद् भावरूपः; ‘षडेव पदार्थाः' इति नियमविघातप्रसक्तेः / नाप्यभावरूपः ; अनभ्युपग मात् / अथ अभिन्नः; किं द्रव्यस्वरूपः , गुणादिस्वभावो वा भवेत् ? न तावत् द्रव्यस्वरूपः गुणाद्याश्रितत्वाऽभावप्रसङ्गात् / अत एव न गुणोऽपि / नापि कर्म कर्माश्रितत्वाऽभावानुषङ्गात् / " अकर्म कर्म" [ ] इत्यभिधानात् / नापि सामान्यम् ; सामान्यादौ तदभावप्र सङ्गात् पदार्थत्रयवृत्तित्वात्तस्य / नापि विशेषः ; नित्यद्रव्येभ्योऽन्यत्र विशेषणभावस्य अभाव१० प्रसङ्गात् / युगपदनेकसमवायिविशेषणत्वे च अस्यानेकत्वप्राप्तिः, यद् युगपदनेकार्थविशेषणं तदनेकम् यथा दण्डकुण्डलादि, तथा च समवायः , तस्मादनेक इति / न च सत्तादिना अनेकान्तः / तस्यापि अनेकस्वभावत्वप्रसाधनात् / तन्न विशेषणभावेनाप्यसौ सम्बद्धः। .. नाप्यदृष्टेन ; अस्य सम्बन्धरूपत्वस्यैव असंभवात् / सम्बन्धो हि द्विष्ठो भवताऽभ्युपगतः , अदृष्टश्च आत्मवृत्तितया समवाय-समवायिनोरतिष्ठन् कथं द्विष्ठो भवेत् ? षोढासम्बन्धवादि१५ त्वव्याघातश्च / यदि च अदृष्टेन समवायः सम्बद्धयते तर्हि गुण-गुण्यादयोऽपि अत एव सम्बद्धा भविष्यन्ति इति अलं तत्रापि समायादिसम्बन्धकल्पनया / न च अदृष्टोऽप्यसम्बद्धः समवायसम्बन्धहेतुः ; अतिप्रसङ्गात् / अथ सम्बद्धः ; 'कुतः' इति वक्तव्यम् ? समवायाचेत् ; अन्योन्याश्रयः / अन्यतश्चेत् ; अपसिद्धान्तप्रसङ्गः / तन्न सम्बद्धः समवायः / नाप्यसम्बद्धः; 'षण्णामाश्रितत्वम्' इत्यस्य विरोधप्रसङ्गात् / 'इह आत्मनि ज्ञानम् ; इत्यादि 20 सम्बन्धबुद्धिः न सम्बन्ध्यसम्बद्धसम्बन्धपूर्विका सम्बन्धबुद्धित्वात् दण्डपुरुषसम्बन्धबुद्धिवत्' इत्यनुमानविरोधानुषङ्गाच्च / किञ्च, अयं समवायः समवायिनोः परिकल्प्येत, असमवायिनोर्वा ? यद्यसमवायिनोः ; तर्हि घटपटयोरपि तत्प्रसक्तिः / अथ समवायिनोः; कुतस्तयोः समवायित्वम्-समवायात् , स्वतो वा ? समवायाञ्चेत् ; अन्योन्याश्रयः-सिद्ध हि समवायित्वे तयोः समवायसिद्धिः , तस्याश्च तत्त्वसिद्धिरिति / स्वत एव तु समवायिनोः किं समवायेन ? न च 25 संयोगेऽप्येतत् सर्व समानम् इत्यभिधातव्यम् ; संश्लिष्टतयोत्पन्नवस्तुव्यतिरिक्तस्य अस्याप्य संभवात् , भिन्नसंयोगिनोस्तन्नियमे तु समानमेवैतत् / १-राभिसम्बद्ध-श्र० / 2 “कर्मभिः कर्माणि गुणैश्च गुणा व्याख्याताः / " वै०सू० 7 / 1 / 15 / "कर्मभिः कर्माणि न तद्वन्ति गुणैश्च गुणाः न तद्वन्तः / ." उपस्का० / 3 विशेषभाव-आ० / ४-कुण्डलत्वादि ज०। ५-वायादिकल्प-आ०, ब०, ज०, भां०। 6 “अयं समवायः समवायिनोरसमवायिनोवा ? ".."प्रमेयक० पृ० 188 उ० /