________________ लघी० प्रमाणप्र० का०७] समवायपदार्थवादः 303 सिद्धः ; 'इह आत्मनि ज्ञानम्, इह पटे रूपादिकम् ' इति इहेति प्रत्ययस्य विशेषात् , विशेषणाऽनुरागो हि प्रत्ययस्य विशिष्टत्वम् / न च अनुगतप्रत्ययात् समवायस्य एकत्वं सिद्धथति; गोत्वादिसामान्येषु षट्पदार्थेषु च अनुगतस्यैकत्वस्याऽभावेऽपि 'सामान्यं सामान्यम् / ‘पदार्थः पदार्थः' इति अनुगतप्रत्ययप्रतीतः। 'सत्तावद्' इति दृष्टान्तोऽपि साध्यसाधनविकलः; सर्वथैकत्वस्य सत्प्रत्ययाऽविशेषस्य च असिद्धत्वात् , तदसिद्धत्वञ्च अग्रे कथञ्चित् तदनेकत्वस्य 5 तद्विशेषस्य च प्रतिपादयिष्यमाणत्वात् सिद्धम् / यदप्युक्तम् -'स्वकारणसत्तासम्बन्धस्यैव निष्पत्तित्वात् ' इत्यादि ; तदप्यचर्चिताऽभिधानम् ; आत्मलाभस्य स्वकारणसत्तासमवायपर्यायतायां नित्यत्वप्रसङ्गात् / निरस्तञ्च स्वकारणसत्तासमवायलक्षणं कार्यत्वं प्राक् / इत्यलं पुनः प्रसङ्गेन / यच्चोक्तम् -'अग्नेरुष्णतादिवत्' इत्यादि; तदप्युक्तिमात्रम् ; यतः प्रत्यक्ष सिद्धे वस्तुस्वभावे 10 स्वभावैरुत्तरं वक्तुमुचितम् जलाऽनलवत् / न च 'समवायस्य स्वतः सम्बन्धत्वम् , संयोगादीनां तु परतः' इति प्रत्यक्षसिद्धम् ; तत्स्वरूपस्य अध्यक्षाऽगोचरत्वप्रतिपादनात् / 'समवायोऽन्येन सम्बन्ध्यमानो न स्वतः सम्बद्धयते सम्बद्धयमानत्वात् रूपादिवत्' इत्यनुमानविरोधाच्च / यदप्यभिहितम् -'समवायः सम्बन्धान्तरं नापेक्षते स्वतः सम्बन्धत्वात् ' इत्यादि ; तदप्यसिधानमात्रम् ; हेतोरसिद्धः, नहि समवायस्य स्वरूपाऽसिद्धौ स्वतः सम्बन्धत्वं तत्र सिद्धयति / 15 संयोगेन अनेकान्ताच; स हि स्वतः सम्बन्धः सम्बन्धान्तरञ्च अपेक्षते / न खलु स्वतोऽसम्बन्धस्वभावत्वे संयोगादेः परतः तद् युक्तम् ; अतिप्रसङ्गात् / घटादीनाञ्च सम्बन्धित्वात् न परतोऽपि सम्बन्धत्वम् , इत्ययुक्तमुक्तम्-'न ते स्वतः सम्बन्धाः' इति / तन्न अस्य स्वतः सम्बन्धो युक्तः / नापि परतः; यतः परतः किं "संयोगात्, समवायान्तरात् , विशेषणभावात् , अदृष्टाद्वा स स्यात् ? न तावत् संयोगात्; तस्य गुणत्वेन अद्रव्यस्वभावे समवाये संभवाऽभा- 20 वात् / नापि समवायान्तरात्; तस्य एकरूपतया अभ्युपगमात् , अन्यथा "तत्त्वं भावेन" [वै० सू० 7 / 2 / 28 ] व्याख्यातम्", इति इदं विरुद्धयेत / नापि विशेषणभावात, सम्बन्धान्तरेण सम्बद्धार्थेष्वेव अस्य प्रवृत्तिप्रतीतेः दण्डविशिष्टः पुरुषः इत्यादिवत् , अन्यथा सर्व सर्वस्य विशेषणं विशेष्यञ्च स्यात् / न च समवाय १-कस्य ब०, ज० / " सत्तावदिति दृष्टान्तोऽपि साध्यसाधनविकलः सर्वथैकत्वस्य / ..." प्रमेयक० पृ. 186 उ० / २-ञ्चिदनेक-भां० / -ञ्चित्तदनेकस्य ब०, ज० / 3 पृ० 297 पं० 4 / 4 पृ० 297 पं०६। ५-क्षप्रसिद्ध श्र०। 6 पृ. 297 पं० 9 / ७“प्राप्तित्वात् प्राप्त्यन्तराभाव इति चेन्न व्यभिचारात् / " तत्त्वार्थराज० पृ० 5 / 8 पृ० 297 पं० 10 / 9 सम्बद्धाः आ० / 10 "किं विशेषणविशेष्यभावेन, संयोगेन, समवायेन वा ?" अष्टसह० पृ० 215 / तत्त्वार्थश्लो. प्र. 20 / प्रमेयक पृ० 188 पू० / स्या. रत्ना० पृ. 969 / 11 “व्याख्यातमितिशेषः / ..." वै० सू०, उपस्का० // 2 / 28 / 12 -स्य प्रतीतेः ब०, ज० / पृ० 101 /