________________ 302 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [२विषयपरि० यद् दुष्टमनुमानं तदेव विशेषविघाताय न वक्तव्यम् , यथा 'अयं प्रदेशः अत्रत्येन अग्निना अग्निमान्न भवति धूमवत्त्वात् महानसवद्' इत्यादिकम् / यतः तेन यो विशेषो निराक्रियते स प्रत्यक्षेणैव तद्देशोपसर्पणे प्रतीयते, न चैतत् समवाये संभवति प्रत्यक्षाद्यगोचरत्वेन अस्य प्रतिपादितत्वात् / न च अतद्विषयं बाधकम् अतिप्रसङ्गात्। __यत् पुनरुक्तम्'-'न चास्य संयोगवत् नानात्वम्' इत्यादि; तदप्यसमीचीनम् , तदेकत्वस्य अनुमानबाधितत्वात् / तथाहि-अनेकः समवायः भिंन्नदेशकालाकारार्थेषु सम्बन्धबुद्धिहेतुत्वात् , यो य एवं सः सो नैकः यथा संयोगः , तथा चायम् , तस्मादनेक इति / प्रसिद्धो हि दण्डैपुरुषसंयोगात् कट-कुड्यादिसंयोगस्य भेदः / 'निबिडः संयोगः, शिथिलः संयोगः' इति प्रत्ययभेदात् अस्य भेदाभ्युपगमे 'नित्यं समवायः, कदाचित् समवायः' इति प्रत्ययभेदात् सम१० वायस्यापि भेदोऽस्तु अविशेषात् / समवायिनोनित्यत्व-कॉदाचित्कत्वाभ्यां समवाये तत्प्रत्ययो त्पत्तौ संयोगिनोर्निविडत्व-शिथिलत्वाभ्यां संयोगे तथा प्रत्ययोत्पत्तिः स्यात् न पुनः संयोगस्य निबिडत्वादिस्वभावसंभवात् , इति एकं सन्धित्सोः अन्यत् प्रच्यवते / ... तथा 'नाना समवायः अयुतसिद्ध-अवयव-अवयव्याद्याश्रितत्वात् संख्यावत्' इत्यतोऽपि अस्य अनेकत्वसिद्धिः / न चेदमसिद्धम्; तदनाश्रितत्वे हि समवायस्य "षण्णामाश्रितत्वम१५ न्यत्र नित्यद्रव्येभ्यः।" [ प्रश० भा० पृ० 16 ] इत्यस्य विरोधः / अथ न परमार्थतः समवायस्य आश्रितत्वं किन्तु उपचारात् , निमित्तं तु उपचारस्य समवार्यिषु सत्सु समवायज्ञानम् , तत्त्वतो हि आश्रितत्वे अस्य आश्रयविनाशे विनाशप्रसङ्गो गुणादिवत् ; इत्यप्यसुन्दरम् ; आश्रितत्वसामान्यस्य हेतुत्वात् / दिगादीनामप्येवम् आश्रितत्वापत्तेश्च; मूर्त्तद्रव्येषु उपलब्धिलक्षणप्राप्तेषु दिग् लिङ्गस्य 'इदमतः पूर्वेण' इत्यादिप्रत्ययस्य काललिङ्गस्य च परत्वाऽपरत्वादिप्रत्ययस्य सद्भा२० वात् / तथा च ‘अन्यत्र नित्यद्रव्येभ्यः' इत्यस्य विरोधः / सामान्यस्य अनाश्रितत्वप्रसङ्ग श्च; आश्रयविनाशेऽपि अविनाशात् समवायवत् / अनुमानविरुद्धश्च परमार्थतोऽस्य अनाश्रितत्वम् ; तथाहि-आश्रितः परमार्थतः समवायः सम्बन्धत्वात् संयोगादिवदिति / तथा च 'इहेतिप्रत्ययाऽविशेषाद् विशेषलिङ्गाऽभावाच्च एकः समवायः' इत्ययुक्तम् ; विशेषलिङ्गाऽभावस्य अनन्तरप्रतिपादितलिङ्गसद्भावतः असिद्धत्वात् / इहेति प्रत्ययाऽविशेषोऽपि अ १पृ. 296 पं० 16 / 2 विभिन्न-भां०,श्र० / ३-कालार्थेषु ब०, ज०। 4 "नहि संयोगः प्रतिविशेष्यं विशिष्टो नाना न भवति दण्डपुरुषसंयोगात् पटधूपसंयोगस्य अभेदाऽप्रतीतेः तद्वत् समवायोऽनेकः प्रतिपद्यताम्"शिथिलः संयोगो निबिडः संयोगः इति प्रत्ययो यथा संयोगे तथा नित्यं समवायः कदाचित् समवाय इति समवायेऽपि...।" तत्त्वार्थश्लो० पृ० 19-20 / प्रमेयक पृ० 186 उ० / सन्मति० टी० पृ. 702 / ५-कादाचित्काभ्याम् आ०, ब.,ज०,भां०। 6 “समवायिषु सत्स्वेव समवायस्य वेदनात् / आश्रितत्वे दिगादीनां मूर्तद्रव्याश्रितिर्न किम् // 60 // " आप्तपरी / प्रमेयक० पृ० 186 उ० / 7 तथेहेति आ० / 8 पृ. 296 पं० 16 / ९-न्तरंप्र-भां० / ....