________________ लघी० प्रमाणप्र० का०७] समवायपदार्थवादः 301 अप्रसिद्धविशेषणश्चायम; 'पटे तन्तवः, वृक्षे शाखाः' इत्यादिरूपतया प्रतीयमानप्रत्ययेन 'इह तन्तुषु पटः' इत्यादिप्रत्ययस्य बाध्यमानत्वात् / स्वरूपाऽसिद्धश्च; तन्तु-पटप्रत्यये इहप्रत्ययत्वस्य अनुभवाऽभावात् 'पटोऽयम्' इत्यादिरूपतया अस्य अनुभवात् / अनैकान्तिकश्वायम् ; 'इह प्रागभावेऽनादित्वम् , इह प्रध्वंसाऽभावे प्रध्वंसाऽभावाऽभावः' इति अबाध्यमान-इहप्रत्ययस्य सम्बन्धपूर्वकत्वाऽभावात्। न च अत्र विशेषणविशेष्यभावः सम्बन्धो वाच्यः; सम्बन्धान्तरमन्तरेण तद्भाव- 5 स्यैव असंभवात् , अन्यथा सर्व सर्वस्य विशेषणं विशेष्यञ्च स्यात् / किञ्च, अतोऽनुमानात् तन्तु-पटादौ सम्बन्धमात्रं प्रसाध्यते, तद्विशेषो वा ? प्रथमपक्ष सिद्धसाध्यता, तादात्म्यलक्षणसम्बन्धस्य इष्टत्वात् / ननु तन्तु-पटयोः तादात्म्ये सति अन्यतरदेव स्यात् , तथा च सम्बन्धिनोरेकत्वे कथं सम्बन्धः स्याद् अस्य द्विष्ठत्वात् ? इत्यप्ययुक्तम् ; यो हि द्विष्ठः सम्बन्धः तस्य इत्थमभावो युक्तः, यस्तु तत्स्वभावतालक्षणः कथं तस्य अभावः ? 10 तन्तूनां स्वात्मभूतोऽवस्थाविशेष एव हि पटः नाऽर्थान्तरम् , आतानवितानीभूततन्तुव्यतिरेकेण देशभेदादिना तस्यानुपलभ्यमानत्वात् / अथ सम्बन्धविशेषः साध्यते; किं संयोगः, समवायो वा ? संयोगश्चेत् ; अभ्युपगमबाधा / अथ समवायः ; दृष्टान्तस्य साध्यविकलता, पक्षस्य च अप्रसिद्धविशेषणत्वं समवायस्य क्वचिदप्यप्रसिद्धः / अथ न संयोगः समवायो वा साध्यते किन्तु सम्बन्धमात्रम् , तत्सिद्धौ च परिशेषात् 15 समवायः सिद्ध यति इत्युच्यते ; ननु कोऽयं परिशेषो नाम ? प्रसक्तप्रतिषेधेऽवशिष्टप्रत्ययहेतुः सः इति चेत् / स किं प्रमाणम् , अप्रमाणं वा ? यदि अप्रमाणम् / कथं प्रकृतप्रतीतिहेतुः अतिप्रसङ्गात् ? अथ प्रमाणम् ; किं प्रत्यक्षम् , अनुमानं वा ? न तावत् प्रत्यक्षम् ; तस्य प्रसक्तप्रतिषेधद्वारेण अभिप्रेतसिद्धौ असमर्थत्वात् / अथ केवलव्यतिरेक्यनुमानं परिशेषः ; तर्हि प्रकृताऽनुमानस्य आनर्थक्यम् , तस्मिन् सत्यपि परिशेषमन्तरेण अभिप्रेतसिद्धेरभावात् , 20 स तु प्रमाणान्तरमन्तरेणाऽपि तत्सिद्धौ समर्थः इति स एव उच्यताम् , न चाऽसौ उक्तः , तत्कथं समवायः सिद्धयेत् ? ___ यच्चान्यदुक्तम्-'विशेषविरुद्धाऽनुमानं सकलानुमानोच्छेदकत्वान्न वक्तव्यम्' इत्यादि; तत् किम् अनुमानाभासोच्छेदकत्वान्न वाच्यम्, सम्यगनुमानोच्छेदकत्वाद्वा ? तत्र आद्यपक्षोऽनुपपन्नः ; नहि कालात्ययापदिष्टहेतूत्थानुमानोच्छेदकस्य प्रत्यक्षादेः अनुमानवादिना उप- 25 न्यासो न क्रियते अतिप्रसङ्गात् / द्वितीयपक्षोऽप्ययुक्तः ; नहि धूमादिसम्यगनुमानस्य विशेषविरुद्धाऽनुमानसहस्रेणाऽपि प्रत्यक्षादिभिरपहृतविषयेण बाधा विधातुं पार्यते / न च विशेषविरुद्धानुमानत्वादेव इदमवाच्यम् ; यतो न विशेषविरुद्धानुमानत्वम् असिद्धादिवत् हेत्वाभासनिरूपणप्रघट्टके दोषो निरूपितः, येन अनुमानवादिभिः तद् असिद्धत्वादिवत् न प्रयुज्येत / ततो 1 "वृक्षे शाखा शिलाश्चाग इत्येषा लौकिकी मतिः // 831 // " तत्त्वसं० / 2 पृ० 296 पं० 11 / 3 "तत्किमनुमानाभासोच्छेदकत्वान्न।" प्रमेयक० पृ० 186 पू० /