________________ 300 लघीयस्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० किञ्च, तद्रूपतया असौ सम्बन्धबुद्धौ प्रतिभासते, ‘इहेदम् ' इत्यनुभवे, 'समवायः' इति प्रत्यये वा ? तत्र आद्यविकल्पे कोऽयं सम्बन्धो नाम यबुद्धौ असौ प्रतिभासेत-किं सम्बन्धत्वजातियुक्तः सम्बन्धः, अनेकोपादानजनितः, अनेकाश्रितः, सम्बन्धबुद्ध-युत्पादकः, तबुद्धिविषयो वा ? न तावत् सम्बन्धत्वजातियुक्तः ; समवायस्य असम्बन्धत्वप्रसङ्गात् , समवायान्तराऽस५ वेन अत्र सम्बन्धत्वजातेरप्रवर्त्तनात् / अथ संयोगवद् अनेकोपादानजनितः; तर्हि समवा यस्य असम्बन्धत्वप्रसङ्गः तस्य नित्यत्वाऽभ्युपगमतः तदसंभवात् , पटादेश्च तत्प्रसङ्गः तत्संभवात् / नापि अनेकाश्रितः; गोत्वादेरपि सम्बन्धत्वाऽनुषङ्गात् / नापि सम्बन्धबुद्धयुत्पादकः; चक्षुरादेरपि तत्त्वप्रसक्तेः / नापि सम्बन्धबुद्धिविषयः; सम्बन्ध-सम्बन्धिनोः एकज्ञानविषयत्वे सम्वन्धिनोऽपि तद्रूपताऽनुषङ्गात् , न च प्रतिविषयं ज्ञानभेदः मेचकज्ञानाऽभावप्रसङ्गात् / अथ 'इहेदम्' इति अनुभवे समवायः प्रतिभासते; न ; अस्य आधाराधेयभावलक्षणसम्बन्धाकारोल्लेखित्वात् , न च अन्याकारेऽर्थे प्रतीयमाने अन्याकारोऽर्थः कल्पयितुं युक्तः अतिप्रसङ्गात् / अथ कुण्डबदरादौ तत्सम्बन्धः सम्बन्धान्तरपूर्वको दृष्टः , अतः अवयवअवयव्यादावपि असौ सम्बन्धान्तरपूर्वक एव सिद्धथति इति समवायसिद्धिः / नन्वेवम् अनवस्था स्यात् ; दधिकुण्डादिसम्बन्धस्य सम्बन्धान्तरात् तत्परतन्त्रतोपलम्भाद् अवयवाऽ१५ वयव्यादिसम्बन्धस्यापि तदन्तरात् तत्परतन्त्रताप्रसङ्गात् / अथ समवायबुद्ध था असौ प्रतीयते ; तन्न ; तबुद्धेः कस्यचिदपि असंभवात् , न हि 'एते तन्तवः, अयं पटः, अयं च समवायः' इति त्रितयमन्योन्यविविक्तं कस्यचित् स्वप्नेऽपि प्रतिभासते। तन्न प्रत्यक्षंगम्यः समवायः / नाप्यनुमानगम्यः; तत्सद्भावावेदिनो निरवद्यस्य अस्याप्यसंभवात् / यच्च इह तन्तुषु पटः' 20 इत्यादि तत्सद्भावावेदकमनुमानमुक्तम् ; तदप्यसाम्प्रतम् ; अनेकदोषदुष्टत्वात् / तथाहि-तावद् आश्रयाऽसिद्धोऽत्र हेतुः; तदसिद्धुत्वञ्च 'इह तन्तुषु पटः' इत्यादिप्रत्ययस्य धर्मिणोऽसिद्धत्वात् / 1 “किं सम्बन्धबुद्धयाऽध्यवसीयते, अहोस्विदिहबुद्धया, समवायबुद्धया वा ?" तत्त्वोप० पृ० 10 / प्रमेयक० पृ. 184 उ० / 2 किं सम्बन्धजातियुक्तः सम्बन्धः, आहोस्विदनेकोपादानजनितः, अनेकाश्रितो वा, सम्बन्धबुद्धिविशेषो वा, सम्बन्धबुद्धयुत्पादको वा, सम्बन्धाकारो वा ? तत्त्वोप० प्र. 10 / प्रमेयक पृ० 184 उ० / 3 "अयं तन्तुः, अयं पटः, अयमनयोः समवाय इति न जातु जानते जनाः / ..." तत्त्वोप० पृ. 10 / “न धर्मधर्मित्वमतीव भेदे वृत्त्यास्ति चेन्न त्रितयं चकास्ति / इहेदमित्यस्ति मतिश्च वृत्ती न गौणभेदोऽपि च लोकबाधः // 7 // " स्या० मं० / ४“नहि तस्य प्रत्यक्षात् प्रतिपत्तिः पटतन्तुव्यतिरेकेण तदनिर्णयात् / " न्यायवि० वि० पृ० 225 पू० / 5 तद्भावा-आ० / "समवायस्य वृक्षोऽत्र शाखास्वित्यादिसाधनैः / अनन्यसाधनैः सिद्धिरहो लोकोत्तरा स्थितिः॥ 104 // " न्यायवि० परि० 1, पृ० 226 पू० / 6 पृ. 295 पं० 20 / 7 "तामेव धर्म्यसिद्धिं समर्थयते "नैव तन्तु पटादीनां नानात्वेनोपलक्षणम् / विद्यते येन तेषु स्युरिदमत्रेति बुद्धयः॥ 829 // " तत्त्वसं० /