________________ लघो० प्रमाणप्र० का०७] समवायपदार्थवादः 299 किञ्च, इयमयुतसिद्धिः अभिन्न देशाश्रयत्वेन, अभिन्नकालाश्रयत्वेन, अभिन्नधाश्रयत्वेन, अभिन्नकारणप्रभवत्वेन, अभिन्नस्वरूपत्वेन वा स्यात् ? न तावद् अभिन्नदेशाश्रयत्वेन ; असिद्धत्वात् , नहि य एव तन्तूनां देशाः त एव पटस्यापि, तन्तवो हि स्वांशुषु स्थिताः पटस्तु तेषु इति / नापि अभिन्नकालत्वेन; अत एव, नहि य एव तन्तूनां कालः स एव पदस्थापि, प्रतीतिविरोधात् / कार्यकारणभावाऽभावप्रसङ्गाच्च; कारणेन हि कार्यस्य समकालत्वमन्यतः सिद्धस्य 5 स्यात् , सिद्धेचास्मिन् किं कुर्वत् तत् कारणं स्यात् ? नापि अभिन्नधाश्रयत्वेन; अस्य अत्राऽसंभवात् , नहि अवयव-अवयव्यादीनां क्वचिदेकस्मिन् धर्मिणि आश्रितत्वमस्ति, प्रतीतिविरोधाद् अपसिद्धान्तप्रसङ्गाच्च / एतेन अभिन्नकारणप्रभवत्वेनापि अयुतसिद्धिः प्रत्याख्याता / अभिन्नस्वरूपत्वे तु अनयोः कस्य किमपेक्षा अयुतसिद्धिः कुत्र वा कस्य समवायः स्यात् ? अभिन्नस्वरूपत्वञ्च अन्यस्य 10 अन्यस्वरूपापत्तिः, एकलोलीभावेन आत्मलाभो वा ? प्रथमपक्षे प्रत्यक्षविरोधः, न खलु जात्यादेर्व्यक्त्यादिस्वरूषापत्तिः प्रत्यक्षतः प्रतीयते / द्वितीयपक्षे तु 'तथापरिणतिरेव अर्थानामयुतसिद्धत्वम्' इत्यस्मन्मतसिद्धिः / एकद्रव्याश्रयाणां रूपरसादीनामपि च एवंविधाऽयुतसिद्धिसंभवाद् अन्योन्यं समवायप्रसङ्गः। तेषामाश्रयाश्रयिभावाऽभावात् न तत्प्रसङ्गः; इत्यप्यचारु ; तथापरिणतिव्यतिरेकेण अन्यस्य आश्रयाश्रयिभावस्य तन्तुपटादावग्यसंभवात् , तदन्यस्य अस्य 15 पृथसिद्धेषु कुण्डबदरादिष्वेव संभवात् / . यदप्युक्तम् -'उभयत्र अवधारणाश्रयणात्' इत्यादि; तदप्ययुक्तम् ; उभयत्र अवधारणाश्र• यणेऽपि विपक्षैकदेशवृत्तेर्लक्षणस्य व्यभिचारित्वात् , इष्टश्च विपक्षैकदेशादव्यावृत्तस्य सर्वरपि अनैकान्तिकत्वम् , शब्दस्य प्रयत्नानन्तरीयकत्वे साध्ये नित्यत्ववत् / . यच्चोक्तम् -'तन्तुपटादयः संयोगिनो न भवन्ति' इत्यादि; तत्सत्यम् / तत्र तादात्म्योपगमात्। 20 यत् पुनरुक्तम्-'प्रत्यक्षत एव समवायः प्रतीयते' इत्यादि; तदपि श्रद्धामात्रम् ; तदसाधारणस्वरूपाऽव्यवस्थितेः, स्थिते हि घटादीनामसाधारणे स्वरूपे प्रत्यक्षता सिद्धा, न चास्य तत्सिद्धम् / तद्धि किमयुतसिद्धसम्बन्धत्वम् , सँम्बन्धत्वमात्रं वा स्यात् ? न तावदयुतसिद्धसम्बन्धत्वम् ; उक्तप्रकारेण अस्य अव्यवस्थितेः / न च एकस्य सामान्यात्मकं स्वरूपं युक्तम् ; समानानामभावे सामान्यस्याऽसंभवात् गगने गगनत्ववत् / नापि सम्बन्धत्वमात्रं समवायस्य 25 असाधारणं स्वरूपम् ; संयोगादावपि संभवात् / 1 “अभिन्नदेशे वृत्तिः, अभिन्नकालता, अभिन्नधर्मिता, अभिन्न कारणप्रभवत्वम् , अभिन्नस्वरूपत्वं वा ?" स्या० रत्ना० पृ. 965 / २-त्वेन अस्या आश्रयत्वेन असि-भां० / 3 पृ. 295 पं० 5 / 4 अवधारणयापिज० / ५-स्यास्य व्य- ज०।६ पृ. 295 पं०१४ / 7 पृ. 295 पं० 18 / 8 सम्बन्धमात्रं ब०, ज०। 9 सम्बन्धमात्र ब०, ज० / /