________________ 298 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० यिणौ न तथा तन्तुपटादिषु, तन्तोरेव स्वावयवापेक्षया आश्रयित्वात् पटापेक्षया च आश्रयत्वात् , अतः 'पृथगाश्रयेवृत्तित्वं युतसिद्धिः' इत्यस्य युतसिद्धिलक्षणस्य अभावादयुतसिद्धत्वं तेषाम् / इत्यप्यसत् ; दिक्-काल-आकाश-आत्मनां युतसिद्ध-यभावप्रसङ्गात् तेषां पृथगाश्रयाऽऽश्रयित्वाऽभावात् / 'नित्यानां च पृथग्गतिमत्त्वम्' इत्यपि तल्लक्षणं तत्र असम्भाव्यम् ; व्यापितया अन्यतरपृथग्गतिमत्त्वस्य उभयपृथग्गतिमत्त्वस्य वा तेषामसंभवात् / इतरेतराश्रयश्च-समवायसिद्धौ हि पृथगाश्रयसमवायित्वलक्षणा युतसिद्धिः सिद्धयेत् , तत्सिद्धौ च तन्निषेधेन अयुतसिद्धानां समवायः सिद्धयतीति / ननु लणं विद्यमानस्य अन्यतो भेदेन अवस्थापकम् , न तु सद्भावकारकम् , तेनाऽयमदोषः ; तदयुक्तम् ; ज्ञापकपंक्षे सुतरामितरेतराश्रयप्रसक्तेः / तथाहि-नाऽज्ञातायां युतसिद्धौ तत्प्रतिषेधेन अयुतसिद्धानां समवायो ज्ञातुं शक्यते, अज्ञात१० श्चासौ न पृथगाश्रयसमवायित्वलक्षणां युतसिद्धिमवस्थापयितुमुत्सहते इति / न च प्रमाणतोऽ प्रसिद्धस्य अस्य लक्षणमात्रात् सिद्धिर्युक्ता; यत् प्रमाणतोऽप्रसिद्धम् न तस्य तन्मात्रात् सिद्धिः यथा आत्माऽद्वैतादेः , प्रमाणतोऽप्रसिद्धश्च भवत्कल्पितः समवाय इति / सिद्धे हि कुतश्चित्. लक्ष्यसद्भावे तदनुसारि लक्षणं प्रतीयते न पुनर्लक्षणबलादेव तत्सिद्धिः ; सर्वस्य स्वेष्टतत्त्वसिद्धि प्रसङ्गात् , तन्मात्रप्रणयनस्य सर्वत्र सुलभत्वात् / अन्योन्याश्रयश्च-सिद्धे हि समवाये तस्य इदं 15 लक्षणं सिद्धयेत् , तसिद्धौ च समवायसिद्धिरिति / किञ्च, युतसिद्धेरभावः अयुतसिद्धिः, सिर्द्धिशब्देन चात्र किं ज्ञप्तिः, उत्पत्तिर्वा अभिप्रेता ? यदि ज्ञप्तिः; तदा सामान्यतद्वदादीनामपि युतसिद्धिप्रसङ्गः, अनुवृत्तव्यावृत्तादिरूपतया तेषामन्योन्यं पृथगेव स्वरूपसंवेदनसंभवात् / अथ उत्पत्तिः; तदा 'न युतसिद्धिः अयुतसिद्धिः, अपृथगुत्पत्तिः' इत्यायातम् , तदपि जातेर्नित्यत्वाऽभ्युपगमाद् दुर्घटम् / अथ युतसिद्धेरभा२० वमात्रमयुतसिद्धिः , सा च जातावस्ति तेनायमदोषः ; न; इत्थम् आकाशादीनामपि अयुत सिद्धिः स्यात् , तथा उत्पन्ने पटे रूपादयः पृथगेव उत्पद्यन्ते, सिद्धषु च पृथक् तन्तुषु पटः इत्यतोऽत्रापि युतसिद्धत्वं स्यात् / 1 “अनित्यानां तु युतेष्वाश्रयेषु समवायो युतसिद्धिरिति / " प्रश० भा० पृ० 152 / 2 “सा पुनः द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वम् इयं तु नित्यानाम् / " प्रश. भा० पृ. 152 / प्रश• कन्द० पृ० 14 / ३"."इत्यपि न विभुद्रव्येषु संभवति; तद्धि पृथग्गतिमत्त्वं द्विधा / .." आप्तपरी० का० 44-47 / प्रमेयक० पृ. 184 पू० / स्या० रत्ना० पृ० 965 / 4 “अत्र केचिदसदूषणमुद्भावयन्ति-समवायाऽसिद्धौ युतेष्वाश्रयेषु समवायो न युतसिद्धिः"तदेतदसदूषणम् ; लक्षणस्य विद्यमानव्यवच्छेदकत्वात् / यदि हि अविद्यमानं लक्षणेन उत्पाद्यत भवेदेतद् दूषणम्"न चैतत् लक्षणस्य ज्ञापकत्वात् इति / " प्रश० व्यो० पृ० 108 / 5 "ज्ञापकपक्षे सुतरामितरेतराश्रयत्वम्” प्रमेयक० पृ० 184 पू०। 6 “सिद्धिशब्देन किं ज्ञप्तिरुत्पत्तिा / " स्या० रत्ना० पृ० 965 / “तत्पुनरयुतसिद्धत्वमपृथग्देशत्वं वा, अपृथक्कालत्वं वा, अपृथक्स्वभावत्वं वा ? सर्वथापि नोपपद्यते।"" ब्रह्मसू० शां० भा०२।३।१७ /