________________ लघी० प्रमाणप्र० का०७] समवायपदार्थवादः 297 व्यपदेशाऽभावप्रसङ्गात् / सम्बद्धश्चेत् ; किं स्वतः, परतो वा ? न तावत् स्वतः ; संयोगादोनामपि तथा तत्प्रसङ्गात् / नापि परतः ; अनवस्थाप्रसङ्गात् / न च गुणादीनामाधेयत्वं युक्तम् ; निष्क्रियत्वात् , गतिप्रतिबन्धकश्च आधारः जलादेर्घटादिवदिति / तदप्युक्तिमात्रम् ; यतो न निष्पन्नाऽनिष्पन्नयोर्वा समवायः; स्वकारणसत्तासम्बन्धस्यैव निष्पत्तित्वात् , नहि निष्पत्तिरन्या समवायश्चान्यः येन पौर्वापयं स्यात् / नापि समवायस्य सम्बन्धान्तरेण सम्बन्धः येन अनवस्था 5 स्यात् ; सम्बन्धस्य समानलक्षणसम्बन्धेन सम्बद्धस्य क्वचिददृष्टेः / अतः अग्नेरुष्णतावत् स्वतं एव अस्य सम्बन्धो युक्तः स्वत एव सम्बन्धरूपत्वात् , न संयोगादीनां तदभावात् / न हि एकस्य स्वभावोऽन्यस्यापि , अन्यथा स्वतोऽमेरुष्णत्वदर्शनात् जलादीनामपि स्वत एव तत् स्यात् / प्रयोगः-समवायः सम्बन्धान्तरं नापेक्षते स्वतः सम्बन्धत्वात् , ये तु सम्बन्धान्तरमपेक्षन्ते न ते स्वतःसम्बन्धाः यथा घटादयः, न चाऽयं न स्वतः सम्बन्धः, तस्मात् सम्बन्धान्तरं नापेक्षते इति। 10 यच्चोक्तम्-'निष्क्रियत्वात् तेषामनाधेयत्वम्' इति; तदसत् ; संयोगिद्रव्यविलक्षणत्वाद् गुणादीनाम् , संयोगिनां सक्रियत्वेनैव, तेषां निष्क्रियत्वेऽपि आधाराधेयभावस्याध्यक्षेण प्रतीतेश्च इति / ___ अत्र प्रतिविधीयते / यत्तावदुक्तम्-'अयुतसिद्धानाम्' इत्यादि; तदसमीचीनम् ; समवायि नामसंभवे समवाये एतल्लक्षणलक्षितत्वाऽनुपपत्तेः, तदसंभ'अयुतसिद्धानाम्' इत्यादिविशषण- वश्च प्रागेव प्रतिपादितः / द्रव्यगुणकर्मसामान्यविशेषरूपा हि 15 प्रतिविधान पुरस्सरं समवायस्य / पञ्च पदार्थाः समवायित्वेन भवद्भिः परिकल्पिताः, ते च तत्पकथञ्चित्तादात्म्यरूपताप्रसाधनम् रीक्षावसरे प्रपञ्चतः प्रतिक्षिप्ताः, तत्कथम् अयुतसिद्धत्वादिल'क्षणसंभवः यतस्तल्लक्षितः समवायः पदार्थान्तरं सिद्धयेत् ? किञ्च, इदमयुतसिद्धत्वं शास्त्रीयम् , लौकिकं वा ? तत्र आद्यपक्षोऽनुपपन्नः ; तन्तुपटादीनां शास्त्रीयाऽयुतसिद्धत्वस्यासंभवात् / वैशेषिकशास्त्रे हि प्रसिद्धम्-अपृथगाश्रयवृत्तित्वम् अयुतसिद्धत्वम् , तच्च इह 20 नास्त्येव; तन्तूनां स्वावयवांऽशुषु वृत्तेः पटस्य च तन्तुषु इति पृथगाश्रयवृत्तित्वसिद्धेः अपृथगाश्रयवृत्तित्वमसदेव / एवं गुणकर्मसामान्यानामपि अपृथगाश्रयवृत्तित्वाऽभावः प्रतिपत्तव्यः / लोकप्रसिद्धकभाजनवृत्तिरूपं तु अयुतसिद्धत्वं युतसिद्धयोर्दुग्धाऽम्भसोरप्यस्ति इति कथं तल्लक्षणम् ? ननु यथा कुण्डदध्यवयवाख्यौ पृथग्भूतौ द्वौ आश्रयौ, द्वौ च दधिकुण्डावयव्याख्यौ आश्र १“."अतः समानलक्षणवृत्तिप्रतिषेध एव"।" प्रश. व्यो० पृ. 119 / 2 "अविभागिनो वृत्त्यात्मकस्य समवायस्य नान्या वृत्तिरस्ति तस्मात् स्वात्मवृत्तिः / " प्रश० भा० पृ. 329 / 3 पृ० 294 पं० 18 / ४-ये तल्ल-श्र०। 5 “पञ्चानां समवायित्वमनेकत्वञ्च / " प्रश० भा० पृ० 16 / 6 "सत्यामयुतसिद्धौ चेन्नेदं साधु विशेषणम् / शास्त्रीयायुतसिद्धत्वविरहात् समवायिनोः // 42 // द्रव्यं स्वावयवाधारं गुणो द्रव्याश्रयो यतः / लौकिक्ययुतसिद्धिस्तु भवेद् दुग्धाम्भसोरपि // 43 // " आप्तपरी / प्रमेयक० पृ. 184 पू० / 7 "युतसिद्धिः पृथगवस्थितिः उभयोरपि सम्बन्धिनोः परस्परपरिहारेण पृथगाश्रयाश्रयित्वं सा ययोनास्ति तावयुतसिद्धौ / .." प्रश० कन्दली पृ० 14 / 38