________________ 296 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [२विषयपरि० निर्हेतुकः; कादाचित्कत्वात् / नापि तन्तुहेतुकः पटहेतुको वा; 'तन्तवः, पदः' इति वा प्रत्ययप्रसङ्गात् / नापि वासनाहेतुकः; तस्याः कारणरहितायाः संभवाऽभावात् / पूर्वज्ञानस्य तत्कारणत्वे तदपि कुतः स्यात् ? तत्पूर्ववासनातश्चेत् ; अनवस्था / ज्ञानवासनयोः अनादित्वाद् अय मदोषश्चेत् ; नैवम् ; नीलादि-सन्तानान्तर-स्वसन्तान-संविदद्वैतादिसिद्धेरपि अभावाऽनुषङ्गात् , 5 अनादिवासनावशादेव नीलादिप्रत्ययस्य स्वतोऽवभासस्य च संभवात्। नापि तादात्म्यहेतु कोऽयम् ; तादात्म्यं हि एकत्वमुच्यते, तत्र च सम्बन्धाऽभाव एव स्यात् द्विष्ठत्वात्तस्य / नापि संयोगहेतुकः ; युतसिद्धेष्वेव अर्थेषु संयोगस्य संभवात् / ने चात्र समवायपूर्वकत्वं साध्यते येन दृष्टान्तः साध्यविकलः हेतुश्च विरुद्धः स्यात्, नापि संयोगपूर्वकत्वं येन अभ्युपगमवि रोधः स्यात् / किं तर्हि ? सम्बन्धमात्रपूर्वकत्वम् , तस्मिंश्च सिद्धे परिशेषात् समवाय एव 10 तजनकः सेत्स्यति / यच्च इदम्-'विवादास्पदम् 'इदमिह' इति ज्ञानं न समवायपूर्वकम् अबाधित-इहज्ञानत्वात् 'इह कुण्डे दधि' इति ज्ञानवत्' इति विशेषविरुद्धानुमानम् , तत् सकलानुमानोच्छेदकत्वाद् अनुमानवादिना न प्रयोक्तव्यम् / यच्चोच्यते-'इदम् इहेति ज्ञानं न समवायालम्बनम्'; तत्स त्यम् ; विशिष्टाधारविषयत्वात्तस्य, नहि 'इह तन्तुषु पटः' इत्यादि इहप्रत्ययः केवलं समवाय१५ मालम्बते तद्विशिष्टतन्तुपटालम्बनत्वात् , वैशिष्टयञ्चानयोः सम्बन्धः / __ नै चास्य संयोगवन्नानात्वम् ; इहेति प्रत्ययाऽविशेषात् विशेषलिङ्गाऽभावाच्च सत्प्रत्ययाऽविशेषात् तल्लिङ्गाऽभावाच्च सत्तावत् / न च सम्बन्धत्वमेव विशेषलिङ्गम् ; अस्य अन्यथासिद्धत्वात् , नहि संयोगस्य सम्बन्धत्वेन नानात्वं साध्यते अपि तु प्रत्यक्षेण भिन्नाश्रयसमवे तस्य क्रमेण उत्पादोपलब्धेः / समवायस्य च अनेकत्वे सति अनुगतप्रत्ययोत्पत्तिर्न स्यात् , 20 संयोगे तु संयोगत्वबलात् नानात्वेऽपि स्यात् / न चैतत् समवाये संभवति, समवायत्वस्य सम वाये समवायाऽसंभवात् , अन्यथा अनवस्था स्यात् / संयोगस्य च गुणत्वेन द्रव्येष्वेव संभवात् , संयोगत्वं पुनः संयोगे समवेतम् / न च अनुगतप्रत्ययजनकत्वे सामान्यादस्य अभेदः; भिन्नलक्षणयोगित्वात्। यच्चान्यत् समवाये बाधकमुच्यते-'निष्पन्नयोः अनिष्पन्नयोर्वा समवायः स्यात् ? ने 25 तावदनिष्पन्नयोः ; सम्बन्धिनोरनुत्पादे सम्बन्धाऽसंभात् / निष्पन्नयोस्तु संयोग एव / तथा स्वसम्बन्धिभ्यामसौ सम्बद्धः , असम्बद्धो वा ? न तावदसम्बद्धः ; 'तयोरयं सम्बन्धः' इति 1 "न चात्र समवायपूर्वकत्वं साध्यते साध्यविकलताप्रसङ्गात् , नापि संयोगपूर्वकत्वम् , किं तर्हि सम्बन्धमात्रकार्यत्वम् / ..." प्रश० व्यो० पृ० 109 / 2 "न च संयोगवन्नानात्वं भाववत् लिङ्गाविशेषाद् विशेषलिङ्गाभावाच / तस्माद् भाववत् सर्वत्र एकः समवाय इति / " प्रश० भा० पृ० 326 / 3 “नानिपन्नयोः समवायो घटते सम्बन्ध्यभावे सम्बन्धस्यादर्शनात् / अथ निष्पन्नयोः सम्बन्धः समवायः तर्हि युतसिद्धिः स्यात् / " प्रश० व्यो० पृ०६९९ / ४-वात अन्यथा निष्प-श्र०।.