________________ 295 लघी० प्रमाणप्र० का० 7] . समवायपदार्थवादः नाम्' इत्यभिधानात् , दधिकुण्डादयश्च युतसिद्धाः / युतसिद्धिश्च पृथगाश्रयवृत्तित्वं पृथग्गतिमत्त्वञ्च उच्यते / न चासौ तन्तुपटादिषु अस्ति तन्तून विहाय पटस्य अन्यत्राऽवृत्तेः / न च 'इह आकाशे वाच्ये वाचकः आकाशशब्दः' इति वाच्यवाचकभावेन 'इह आत्मनि ज्ञानम्' इति विषय-विषयिभावेन च व्यभिचारः, अत्र अयुतसिद्धेः आधाराधेयभावस्य च भावादित्यभिधातव्यम् ; उभयत्र अवधारणाश्रयणात् , अनयोश्च युतसिद्धेषु अनाधाराधेयभूतेष्वपि च 5 भावात् घट-तच्छब्द-ज्ञानवत् / नन्वेवम् ‘अयुतसिद्धानामेव' इत्यवधारणेऽपि व्यभिचाराऽभावात् 'आधाराधेयभूतानाम्' इत्यभिधानमनर्थकम् , 'आधाराधेयभूतानामेव' इत्यवधारणे अयुतसिद्धानाम् ' इत्यभिधानवत् ; इत्यप्यसुन्दरम्; एकार्थसमवायिनां रूपरसादीनामयुतसिद्धानामपि अन्योन्यं समवायाऽसंभवात् इति एकार्थसमवायसम्बन्धव्यभिचारनिवृत्त्यर्थम् उत्तरावधारणम् , नहि अयं 10 वाच्यवाचकभावादिवद् युतसिद्धानामपि संभवति / तथा उत्तरावधारणे सत्यपि 'आधाराधेयभावेन संयोगविशेषेण सर्वथाऽनाधाराधेयभूतानामसंभवता व्यभिचारो माभूत' इत्येवमर्थ पूर्वाऽवधारणम् / इति सूक्तमिदं तल्लक्षणम् / ___ अत इदमुच्यते तन्तुपटादयः सामान्यतद्वदादयो वा 'संयुक्ता न भवन्ति' इति व्यवहतव्यम् , नियमेन अयुतसिद्धत्वाद् अधाराधेयभूतत्वाच्च , ये तु संयुक्ता न ते तथा यथा कुण्ड- 15 बदरादयः, तथा चैते, तस्मात् संयोगिनो न भवन्ति इति / यदि वा, तन्तुपटादिसम्बन्धः 'संयोगो न भवति, नियमेन अयुतसिद्धसम्बन्धत्वात् , ज्ञान-आत्मनोविषयविषयिभाववदिति / सद्भावे तु, समवायस्य प्रत्यक्षमेव प्रमाणम् ; प्रत्यक्षतो हि तन्तुसम्बद्ध एव पटः प्रतिभासते रूपादयश्च पटादिसम्बद्धाः। तथा अनुमानतोऽपि असौ प्रतीयते; तथाहि-'इह तन्तुषु पटः' इत्यादि इहप्रत्ययः सम्ब- 20 न्धकार्यः, अबाध्यमान-इहप्रत्ययत्वात् , 'इह कुण्डे दधि' इत्यादिप्रत्ययवत् / न तावदयं प्रत्ययो श्यताम् 'इह प्रामे वृक्षाः' इति ज्ञानं दृष्टम्...” इत्यादि सर्वं पदकृत्यम् प्रश० व्यो. पृ० 107-108, कन्दली पृ० 14 / पूर्वपक्षरूपेण च आप्तपरी० पृ० 26, प्रमेयक. पृ० 182 उ० / इत्यादिषु द्रष्टव्यम् / 1 "न चासौ संयोगः सम्बन्धिनामयुतसिद्धत्वात् अन्यतरकर्मादिनिमित्तासंभवात् / ...,' प्रश० भा० पृ. 326 / 2 नैयायिकमते प्रत्यक्षः समवायः ; तथाहि-" समवाये च अभावे च विशेषणविशेष्यभावादिति / " न्यायवा० 111 / 4 / “अवयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिजातिमन्तौ च मिथः सम्बद्धावनुभूयेते, नान्यथा तन्तुषु पट इति शुक्लः पट इति पटः प्रस्पन्दत इति च पटो द्रव्यमिति च बुद्धिव्यपदेशौ स्याताम् / " न्यायवा• ता० टी० 1 / 1 / 4 / 3 वैशेषिकमते तु अतीन्द्रियः अनुमेयश्च; तथाहि-"अत एवातीन्द्रियः"तस्मादिहबुद्धधनुमेयः समवाय इति / " प्रश. भा० पृ० 329 / 4 "इह तन्तुषु पट: इत्यादि इहप्रत्ययः सम्बन्धकार्यः, अबाध्यमानेहप्रत्ययत्वात् , इह कुण्डे दधीति प्रत्ययवत् ।"""प्रश• व्यो• पृ० 109 / प्रश० कन्द• पृ०३२५। ..