________________ लघी० प्रमाणप्र० का० 7] विशेषपदार्थवादः 293 त्याद्याधाराणां मुक्ताफलादीनामत्यन्तव्यावृत्तिबुद्धिहेतौ चिह्नऽविशेषरूपेऽपि अस्य लक्षणस्य गतत्वात् / नहि तदाश्रयद्रव्यस्य कथञ्चिन्नित्यत्वमसिद्धम् ; सर्वस्य वस्तुनो द्रव्यरूपतया नित्यत्वात् / अस्तु वा सर्वथा नित्यं द्रव्यम् ; तथापि ये तत्र वर्त्तन्ते ते न कदाचनाऽपि नित्यद्रव्यं परित्यजन्ति / तेषां विशेषरूपत्वे आत्मत्वादिसामान्यैः पारिमाण्डल्यादिभिश्च व्यभिचारः ; तान्यपि हि नित्यद्रव्येष्वेव वर्तन्ते न च विशेषव्यपदेशं प्रतिपद्यन्ते / व्यावृत्तिबुद्धिहे- 5 तुत्वमपि ऐषां विद्यत एव ; सामान्यविशेषरूपत्वात् / ननु समस्तनित्यद्रव्येष्वेव वर्तमानानां विशेषरूपत्वप्रतिज्ञानात् , आत्मत्वादीनाञ्च नियतनित्यद्रव्यवृत्तित्वात् न तैरनेकान्तः ; इत्यप्ययुक्तमेव ; निरतिशयपरिमाणेन अनेकान्तात् , तद्धि समस्तेष्वेवं नित्यद्रव्येषु वर्त्तते, विशेषणत्वाच्च स्वाश्रयमन्यस्माद् व्यावर्त्तयति न च विशेषरूपमिति / किञ्च,अर्थानां स्वस्वभावादेव अन्योन्यव्यावृत्तबुद्धिजनकत्वोपपत्तेर्न विशेषैः साध्यं किञ्चि- 10 त्प्रयोजनम्। नित्यद्रव्याणि हि स्वरूपेण व्यावृत्तानि विशेषैर्व्यावर्त्तन्ते, अव्यावृत्तानि वा ? यदि अव्यावृत्तानि ; कथमन्यसम्बन्धादपि व्यावृत्ततामनुभवेयुः ? यद्धि स्वरूपेणाऽव्यावृत्तं तत नान्यसम्बन्धेऽपि व्यावृत्ततामनुभवति यथा एकव्यक्तिस्वरूपम् , स्वरूपेणाऽव्यावृत्तानि च नित्यद्रव्याणि इति / अथ व्यावृत्तानि; तँदा किं विशेषैः साध्यम् ? यत् स्वरूपेण व्यावृत्तं न तत्र व्यावृत्तिहेतवो व्यतिरिक्तविशेषाः सन्ति यथा विशेषस्वरूपे, स्वरूपतो व्यावृत्तानि च 15 नित्यद्रव्याणि इति / स्वरूपेण व्यावृत्तानामपि अमीषां तत्कल्पने विशेषाणामपि स्वरूपतो व्यावृत्तानां विशेषान्तरकल्पनाप्रसङ्गादनवस्था स्यात् / अथ अर्थव्यावृत्त्या विशेषाणां व्यावृत्तिः तद्व्यावृत्त्या च अर्थानाम् ; तदप्यसाम्प्रतम् ; अन्योऽन्याश्रयाऽनुषङ्गात् / ननु यथा |दीपादीनां स्वत एव भासुररूपता तत्स्वभावत्वात् न घटादिसम्बन्धात् , घटादीनां तु तत्सम्बन्धात् , एवं विशेषेषु स्वत एव व्यावृत्तप्रत्ययहेतुत्वं तत्स्वभावत्वात् न परमाण्वादि- 20 सम्बन्धात्, परमाण्वादौ तु तद्योगात् ; इत्यप्यसमीक्षिताऽभिधानम् ; यतः प्रदीपादिसम्बन्धाद् घटादयो भावाः परित्यक्तप्राक्तन-अभासुरस्वभावा अन्ये एव भासुररूपतया उत्पद्यन्ते, इति युक्तं तेषां तत्सम्बन्धाद् भासुररूपत्वम् ; न च परमाण्वादिषु एतत् संभवति तेषां सर्वथा नित्यत्वाऽभ्युपगमतः प्राक्तन-अविविक्तरूपत्यागेन अपरविविक्तरूपतयाऽनुत्पत्तेः / ननु पर १-त्तिहे-ब०, ज० / 2 आत्मत्वपारिमाण्डल्यादीनाम् / ३-वेव च वर्त्तते आ० / -वेव नित्यद्रव्येष्वेव ज० / -ऽवेव नित्यद्रव्येष्वेव च श्र० / 4 अन्योन्यं ब०, ज० / ५-षैः साध्यः किञ्चित् भां० / -फैः किञ्चित् आ०, ब०, ज०। 6 तथा आ० / 7 प्रदीपानाम् आ०, ब०, ज०, भां० / "इह अतदात्मकेष्वन्यनिमित्तः प्रत्ययो भवति यथा घटादिषु प्रदीपात् न तु प्रदीपे प्रदीपान्तरात्"।" प्रश. भा० पृ. 322 / 8 "प्रदीपादिप्रभावाच्च ज्ञानोत्पादस्वरूपताम् / लभन्ते क्षणिका ह्याः कलशाभरणादयः // 821 // न विवादास्पदीभूतविशेषबलभाविनी। वैलक्षण्यमतिस्तेषु क्रमोत्पत्तेः सुखादिवत् // 822 // " तत्त्वसं०। प्रमेयक पृ० 182 पू० / सन्मति० टी० पृ० 699 / स्या० रत्ना० पृ. 964 /