________________ लघी० प्रमाणप्र० का०७] विजातीयव्यावृत्तिरूपसामान्यस्य निरासः 291 नीलसुखादिव्यतिरिक्तस्य अस्य असत्त्वात् कथं तथाऽवभासनम् ? इत्यन्यत्रापि समानम् , नहि सदृशेतरपरिणामरहितं स्वलक्षणमप्यस्ति यत् तथाऽवभासेत / न चैकस्य अनेकात्मकत्वविरोधान्न सदृशेतरात्मकत्वम् ; चित्राकारवत् विकल्पेतराकारवञ्च एकस्य तदात्मकत्वाऽविरोधात् / ततः सदृशेतरात्मकत्वं वस्तुनो वास्तवमभ्युपगन्तव्यम् , पुरोव्यवस्थितस्य खण्डाद्यर्थस्य तथैव प्रतिभासनात् / न खलु ज्ञानज्ञेययोरपि चेतनेतररूपतया वैलक्षण्यप्रतीतिरेव; नील- 5 सदादिना सादृश्यस्यापि प्रतीतेः , अन्यथा तयोरन्यतरदेव सत् स्यात् , सारूप्यवादश्च हीयेत। ____ न च अनुवृत्तप्रतीतेर्निर्हेतुकत्वात् किं सदृशपरिणामादिकारणचिन्तया इत्यभिधातव्यम् ; निर्हेतुकत्वे तस्या देशादिनियमाऽयोगात् / वासनाहेतुकत्वे च अर्थापेक्षा न स्यात् , नहि अन्यहेतुकोऽर्थः अन्यदपेक्षते धूमादेर्जलापेक्षाप्रसङ्गात् / किञ्च, वासनाऽपि अनुभूतार्थविषयैव उपजायते , न च अत्यन्ताऽसत्त्वेन भवन्मते सामान्यानुभवसंभवः / किञ्च, असौ 10 तथाभूतं प्रत्ययं विषयतया उत्पादयति, कारणमात्रतया वा ? यदि विषयतया ; तदा सकलविशेषानुगता वस्तुभूता ग्राह्याकारा नामान्तरेण जातिरेव उक्ता / कारणमात्रतया च तज्जनने विषयो वक्तव्यः, निर्विषयस्य ज्ञानस्यैवाऽसंभवात् / न च सदृशपरिणामव्यतिरेकेण अन्यः तद्विषयो घटते; उक्तदोषाऽनुषङ्गात् / न चास्य वासनाप्रभवत्वे प्रमाणमस्ति, येन हि प्रमाणेन वासनाया विकल्पं प्रति कारणत्वं प्रतीयते तस्यापि विकल्परूपतया बाह्यार्थविषयत्वाऽसंभवतः 15 'वासनाप्रभवोऽयं विकल्पः' इत्यवगन्तुमशक्यत्वात् / ततो निमित्तान्तराऽसंभवात् सदृशपरिणामनिमित्त एव अयमनुगतप्रत्ययोऽभ्युपगन्तव्यः / ननु तन्निमित्तत्वे 'सदृशोऽयम्' इति प्रत्ययः स्यात् , न पुनः ‘स एवाऽयं गौः' इति / कस्य पुनः ‘स एवाऽयं गौः' इति प्रत्ययः ? नहि धवलं दृष्ट्वा शबलं पश्यतः ‘स एवाऽयं धवलो गौः' इति प्रत्ययः प्रादुर्भवति, अविपर्यस्तस्य शबले धवलप्रतीतिविरोधात् / किं तर्हि ? 20 'गौः गौः' इति प्रत्ययः, सोऽप्यविरुद्धः कथम् ? इति चेत् ; सदृशपरिणामविशेषे गोशब्दसङ्केतात् , संकलसमानधर्मेषु हि सदृशशब्दसङ्केतात् तत्प्रधानतया 'सदृशोऽयम्' इति प्रत्ययः प्रवर्त्तते, तद्विशेषेषु पुनः गवाश्वादिविशेषशब्दसङ्केतात् तत्प्रधानतया 'गौः' 'अश्वः' इत्यादिप्रत्ययाः / कथमन्यथा सामान्येषु 'सामान्यम् सामान्यम्' इति प्रत्ययः षट्पदार्थेषु वा 'पदार्थः पदार्थः' इति ? नहि सामान्येषु अनुगतस्वभावस्वरूपं षट्पदार्थेषु च अत्यन्तविभिन्नलक्षणल- 25 क्षितत्वलक्षणञ्च सदृशपरिणामं विहाय अन्यन्निमित्तान्तरमस्ति / 'प्रवृत्तिश्च दृश्य-विकल्प्ययोरेकत्वाध्यवसायात्'; इत्यपि श्रद्धामात्रम् ; तदेकत्वाध्यवसायस्य सविकल्पकसिद्धौं निरस्तत्वात् / 1 इत्यत्रापि आ०, भां० / २-त्मत्वा-आ० / ३-णत्वमस्ति आ०, ब०, ज० / 4 तन्निमित्ते आ० / 5 स किल आ० / ६-भावरूपं ब०, ज० / 7 पृ० 289 पं० 10 / 8 पृ० 49 /