________________ लघीयनयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० कारोल्लेखित्वे तदभेदात् सजातीयव्यावृत्त्याकारोल्लेखित्वमपि स्यात् / न च सजातीयविजातीयव्यावृत्त्योः स्वलक्षणस्य च भेदः; वस्तुत्वात् निरंशत्वाच्च / नापि प्रतिनियतव्यावृत्तिलक्षणजात्यवभासे प्रतिनियमहेतुरस्ति / किञ्च, असमानाकारव्यावृत्त्या समानाकारलक्षणं सजातीयत्वं कल्प्यते; तत्र च स्वयम५ समानाकारस्य समानत्वं कल्प्येत, समानाकारस्य वा ? तत्र स्वयमसमानाकारस्य कथमन्यतो व्यावृत्तावपि समानाकारता, गवाश्वयोरपि महिष्यादिव्यावृत्त्या समानाकारत्वप्रसङ्गात् ? मूर्त्ताच घटाद् यथा व्यावर्त्तते ज्ञानम् तथा पटोऽपि, अतो मूर्त्तत्वं द्वयोः समानो धर्मः स्यात् / अन्योन्याश्रयश्च-अन्यतो व्यावृत्त्या हि समानाकारत्वम्, ततश्च अन्यतो व्यावृत्तिरिति / स्वयं समानाकारस्य तु अन्यतो व्यावृत्त्या समानाकारत्वकल्पनावैफल्यम् / सजातीयत्वञ्च अर्थानाम्-एकार्थक्रियाकारित्वात् , एकप्रत्यवमर्शजनकत्वात् , एकव्यावृत्त्याधारत्वाद्वा स्यात् ? न तावद् एकार्थक्रियाकारित्वात् ; वाह-दोहादिक्रियायाः प्रतिविशेष भिंद्यमानत्वेन एकत्वाऽसंभवात् , तस्याश्च कादाचित्कत्वात् तामकुर्वतः सजातीयत्वाऽभावात् , चक्षुःसम्बद्धेऽपि व्यक्तिविशेषे 'गौः' 'गौः' इत्यनुगतप्रत्ययो न स्यात् / एकार्थक्रियाकारित्वञ्च यदि सर्वस्वलक्षणेषु एकमनुस्यूतमभ्युपगम्यते ; तदा सिद्धं तदेव अशेषविशेषनिष्ठं सामान्यम् / 15 विकल्पारोपितं चेत् ; न; तस्य निर्विषयत्वेन अर्थाऽगोचरत्वतः तत्रं स्वार्थक्रियाकारित्वस्य एकत्वेन आरोपणाऽसामर्थ्यात् / नापि एकप्रत्यवमर्शजनकत्वात् ; प्रत्यवमर्शस्य तज्जनकत्वस्य च प्रतिव्यक्ति भेदेन एकत्वाऽनुपपत्तेः, न खलु य एव शाबलेये गोप्रत्यवमर्शः तज्जनकत्वञ्च, स एव बाहुलेयेऽपि तयोः एकव्यक्तिवद् भेदाऽभावप्रसङ्गात् / नापि एकव्यावृत्त्याधारत्वात् ; तस्या बहिरन्तर्विकल्पाऽनतिक्रमात् / तत्र व्यावृत्तेर्बाह्यत्वे सकल व्यक्ति व्यापित्वे च सामान्यरूपताप्र२० सङ्गः / आन्तरत्वे तु तस्या बहिराधारत्वाऽभावतः कथमतो बाह्यार्थस्य सजातीयत्वसिद्धिः, कथं वा बहीरूपतया अवभासनम् ? ___'नान्तर्बहिर्वा' इत्यपि स्वाभिप्रायमात्रम् ; तथाभूतं हि व्यावृत्तिस्वरूपं किञ्चित् , न किञ्चिद्वा ? न किञ्चिच्चेत् ; कथं सजातीयत्वनिबन्धनम् ? किञ्चिच्चेत् ; नूनम् अन्तर्बहिर्वा तेन भवितव्यम् , तत्र च “उक्तो दोषः / ननु यया प्रत्यासत्त्या केचन भावाः स्वयं सदृशपरिणामं बिभ्रति तयैव स्वयमतदात्मकाः तथा किन्नाऽवभासेरन् ? इत्यप्यपरीक्षिताभिधानम् ; चेतनेतरभेदाऽभावप्रसङ्गात् , 'ययैव हि प्रत्यासत्या चेतनेतरस्वभावान् भावाः स्वीकुर्वन्ति तयैव स्वयमतदात्मकाः तथाऽवभासेरन्' इत्यपि वदतो ब्रह्माद्वैतवादिनो न वक्त्रं वक्रीभवेत् / 1 अवस्तु-श्र० / २-त्या हि समानाकारत्वं लक्षणावैफल्यम् ब०, ज० / 3 एकवृत्त्याआ० / 4 विद्य-आ० / 5 तत्रस्थार्थ-आ० / 6 कथं बही-आ० / 7 “नान्तर्न बहिरिति तु भणितिभङ्गिमात्रम् ; तत्तादृशं किञ्चित् न किञ्चिद्वा किञ्चिच्चेत् नूनमन्तर्बहिर्वा तेन भवितव्यमेव / ..." न्यायमं० पृ० 316 / 8 उक्तदोषः ब०, ज० /