________________ लघी० प्रमाणप्र० का० 7] विजातीयव्यावृत्तिरूपसामान्यस्य निरासः 289 वगतेः / विरुद्धञ्च; दृष्टान्ते सामान्याऽभावेनैव व्याप्तत्वात् / 'यद्वस्त्वाकारविलक्षणो यः प्रत्ययः' इत्याद्यप्यनुमानम् एतदूषणैर्दुष्टत्वान्न सामान्यसद्भावप्रसाधकम् / तदेवं परपरिकल्पितसामान्यस्य कुतश्चित् प्रमाणादप्रसिद्धेः 'तद् द्विविधम्' इत्यादिना तद्भेदोपवर्णनं वन्ध्यासुतसौभाग्यव्यावर्णनतुल्यमित्युपरम्यते। अस्तु तर्हि विजातीयव्यावृत्तिरेव अनुवृत्तप्रत्ययनिबन्धनम् , नित्यनिरंशैकरूपसामान्यस्य 5 उक्तप्रकारेण तन्निबन्धनत्वाऽसंभवात् / कथं पुनः सामान्यमसामान्यपदार्थपरीक्षायां 'विजा- न्तरेण कौदिपरिहारेण खण्डादिष्वेव गोप्रत्ययप्रादुर्भावः इति तीयव्यावृत्तिरेव अनुवृत्तप्रत्य- चेत् ? 'विजातीयव्यावृत्तेः' इति ब्रूमः, सा हि यत्रास्ति तत्रैव जान बम. या शिवास्ति यनिबन्धनम् / इति सौगतमतनि- . तत्प्रत्ययमुत्पादयति नान्यत्र / ननु बाह्यार्थाऽविषयत्वे कथमतः रसनपुरस्सरं तस्य वास्तविकसदृशपरिणामनिबन्धनत्व प्रत्ययात् तत्र प्रवृत्तिः ? इत्यप्यचोद्यम् ; दृश्य-विकल्प्ययोरेकत्वा- 10 ध्यवसायात् तदुपपत्तेः / एकत्वाध्यवसायश्च दर्शनानन्तरमुपजाप्रसाधनम् यमानस्य विकल्पस्य दर्शनेन सह भेदाऽग्रहणम्। ततो भेदाऽग्रहणाद् विकल्पव्यापारतिरस्कारेण 'मया गृहीतमिदम्' इत्यध्यवसायात् प्रवर्त्तते / वस्तुप्राप्तिश्च पारम्पर्येण वस्तुप्रतिबन्धात्। सम्यमिथ्याविवेकोऽपि अत एव; यो हि वस्तुसम्बन्धदर्शनभावी विकल्पः स सत्यः, अन्योऽन्यथा इति / ... तदप्यविचारितरमणीयम् ; नित्यादिस्वभावसामान्यस्य तन्निबन्धनत्वाऽभावेऽपि सदृशपरिणामलक्षणस्यास्य प्रत्यक्षादिप्रमाणतः प्रसिद्धस्वरूपस्य तन्निबन्धनत्वोपपत्तेः। न खलु समानध.मयोगित्वस्वरूपः सदृशपरिणामः अर्थेषु प्रत्यक्षतो न प्रतीयते; सर्वतो विलक्षणस्वलक्षणस्य स्वप्नेऽप्यप्रतीतेः / प्रत्ययप्रसादादेव हि सर्वत्र अर्थव्यवस्था, प्रत्ययश्चात्र विलक्षणेष्वपि शाबलेयादिषु 'गौौः ' इत्यनुगताकारेण उपलभ्यते / न च अन्याकारेऽपि वस्तुनि अन्याकारेण प्रथनम् 20 इत्यभिधातव्यम् ; नीले पीतप्रतिभासप्रसङ्गतः प्रतिनियतवस्तुव्यवस्थाविलोपः स्यात् / अतोऽनुगतप्रतिभासाद् 'वस्त्वपि अनुगतधर्मोपेतम्' इत्यभ्युपगन्तव्यम् / व्यावृत्तिविषयत्वे चास्य 'गौः 'गौः' इत्युल्लेखेन विधिप्रधानतया प्रवृत्तिर्न स्यात् , यथा च विजातीयपरावृत्तं वस्तुनः स्वरूपं तथा सजातीयपरावृत्तमपि, तथा च दर्शनानन्तरभाविविकल्पानां विजातीयव्यावृत्त्या १विरुद्धत्वञ्च श्र० / 2 कर्कः श्वेताश्वः / 3 गोत्वप्र-श्र० / 4 “गौरवाशक्तिवैफल्या दाख्यायाः समा श्रुतिः / कृता वृद्धरतत्कार्यव्यावृत्तिविनिबन्धना // 139 // न भावे सर्वभावानां [ स्वस्वभावव्यवस्थितेः / यद्रूपं ] शाबलेयस्य बाहुलेयस्य नास्ति तत् // 140 // अतत्कार्यपरावृत्तियोरपि च विद्यते / अर्थाभेदेन विना शब्दाभेदो न युज्यते // 141 // तस्मात्तत्कार्यतापीष्टाऽतत्कार्यादेव च भिन्नता / " प्रमाणवा० 11139-42 / तत्त्वसं० पृ. 239, 317 / 5 "तत्र दृश्यसजातीयविजातीयव्यावृत्तत्वादुभयेऽपि व्यावृत्तिमेव स्पृशेयुः सजातीयविजातीयव्यावृत्त्योर्न च भिन्नता / यतोऽन्यतरसंस्पर्शो विकल्पेन प्रकल्पते // " न्यायमं० पृ. 316 / 37