________________ 288 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० पक्षे तस्याः तद्रहितत्वप्रसङ्गः / अथ अपरित्यज्य; तत्रापि किं व्यक्तथा सहैव आगच्छति, किं वा केनचिदंशेन तत्रैव तिष्ठति केनचिदागच्छति ? प्रथमविकल्पे शाबलेयेऽपि 'बाहुलेयोऽयम्' इति प्रतीतिः स्यात् / द्वितीयविकल्पस्त्वयुक्तः ; निरंशत्वेन अस्य अंशवत्तया प्रवृत्त्यसंभवात् , यत्र हि यस्य वृत्तिनिबन्धनं नास्ति स न तत्र वर्त्तते यथा एकपरमाणुः सह्य-विन्ध्ययोः, नास्ति चे 5 भिन्नदेशव्यक्तिषु युगपवृत्तिनिबन्धनं सामान्यस्य अंशा इति / सांशत्वे चास्य व्यक्तिवदनित्यत्वप्रसङ्गः। 'सर्वगतत्वात्तस्य युगपत् सर्वत्र वृत्तिः' इत्यपि सर्वसंगतत्वम् , स्वव्यक्तिसर्वगतत्वं वा अङ्गीकृत्य उच्येत ? सर्वसर्वगतत्वे खण्डाद्यन्तराले कर्कादौ च गोत्वोपलम्भप्रसङ्गः, दृश्यस्य सतोऽस्य सर्वत्र सद्भावाऽविशेषात् / 'स्वव्यक्तीनां व्यञ्जकत्वात् तत्रैव अस्य उपलम्भः' इत्यपि 10 आसां व्यञ्जकत्वनिषेधात् कृतोत्तरम् / स्वव्यक्तिसर्वगतत्वेऽपि किं प्रतिव्यक्ति सर्वात्मनी वर्तते, एकदेशेन वा ? सर्वात्मना वृत्तौ सर्वव्यक्तीनामेकत्वम् , तस्य वा व्यक्तिवत् नानात्वं स्यात् / अंशतो वृत्तिश्च प्रागेव कृतोत्तरा / अतो वृत्त्यादिविकल्पैः पिण्डेषु नित्यादिस्वभावसामान्यस्याऽनुपपत्तेरसत्त्वम् / प्रयोगः-यद् यत्र उपलब्धिलक्षणप्राप्तं सत् नोपलभ्यते तत् तत्र नास्ति यथा कचिद्देशे घटः, नोपलभ्यते च इन्द्रियसम्बन्धे सत्यपि पिण्डेषु परपरिकल्पितं सामान्यमिति। 15 तन्न व्यक्तिभ्यः सर्वथा भिन्नस्वरूपमपि सामान्यं घटते / नाप्युभयरूपम् ; उभयपक्षनिक्षिप्तदोषाऽनुषङ्गात् / तन्न प्रत्यक्षं सामान्यसद्भावाऽऽवेदकम् / यदपि-'गवाद्यभिधानज्ञानविशेषाः' इत्याद्यनुमानं तत्सद्भावाऽऽवेदकमुक्तम् / तत्रापि पिण्डादिव्यतिरिक्तं निमित्तान्तरमात्रं साध्यते, सामान्यं वा ? निमित्तान्तरमात्रे सिद्धसाधनम् , सदृशपरिणामस्य निमित्तान्तरस्य इष्टत्वात् / नित्यादिस्वभावसामान्यसाधने तु साध्यविकलता दृष्टान्तस्य, तत्र सामान्यस्य निमित्तान्तरस्यासंभवात् / सामान्याऽभावेऽपि च सत्तासामान्यादौ गतत्वादनैकान्तिकत्वम् / कालात्ययापदिष्टञ्च ; पक्षे प्रागुक्तन्यायेन सामान्याऽभावाऽ 1 च विभि-श्र० / 2 “सर्वसर्वगता वा स्यात् पिण्डसर्वगतापि वा। सर्वसर्वगतत्वे स्यात् कर्कादावपि गोमतिः // " न्यायमं० पृ० 299 ( पूर्वपक्षरूपेण ) / "तथा तत्सर्वसर्वगतं स्वव्यक्तिसर्वगतं वा...।" प्रमेयक० पृ० 138 पू० / स्या० रत्ना० पृ. 952 / 3 “नहि सामान्यं तदाधारव्यक्तिगतमेकं संभवति व्यक्तयन्तरालेऽपि तदुपलम्भप्रसङ्गात्" न्यायवि० टी० पृ. 345 पू० / स्या० मं० पृ० 108 / 4 "अमेयमश्लिष्टममेयमेव, भेदेऽपि तवृत्त्यपवृत्तिभावात् / वृत्तिश्च कृत्स्नांश विकल्पतो न मानं च नानन्तसमाश्रयस्य // 55 // " युक्तयनुशा० / सन्मति. टी. पृ० 689 / ५-नरूपमपि ब०, ज०, श्र० / 6 पृ. 284 पं०६ / 7 "तद्वयतिरिक्तनित्यैकानुगामिसामान्याख्यसंसर्गिनिबन्धनत्वमेषां साध्यते; तदा दृष्टान्तस्य साध्यविकलता।."तत्त्वसं० पं० पृ. 242 / स्या० रत्ना० पृ. 956 / ८"अस्तीति प्रत्ययो यश्च सत्तादिष्वनुवर्तते // 744 // अन्यधर्मनिमित्तश्चेत्तत्राप्यस्तितामतिः / तदन्यधर्महेतुत्वेऽनिष्ठासक्तरधर्मिता // 45 // व्यभिचारी ततो हेतुरमीभिरयमिष्यते / " तत्त्वसं०।. 20