________________ लघी० प्रमाणप्र० का० 7] सामान्यपदार्थवादः 287 उपलम्भात् / न च यदभावेऽपि यद् भवति तत् तन्निबन्धनम् अतिप्रसङ्गात् / अथ सामान्येषु असौ समवायनिबन्धनः; कुत एतत् ? तत्र अपरसामान्याऽप्रतीतेश्चेत् ; किं पुनः खण्डादिषु अपरं सामान्यं प्रतीयते ? अत एव प्रत्ययात् तत्प्रतीतो सामान्येष्वपिप्रतीयताम् / समवायस्य अत्र कारणत्वे' च खण्डादिष्वपि अनुगतप्रत्यये स एव कारणमस्तु अलं सामान्यकल्पनया / यथैव हि येनैव समवायेन गोत्वं खण्डादिषु समवेतं तेनैव अश्वत्वं कर्कादिषु , अतः एकसम- 5 वायवशात् सामान्येषु सामान्यप्रत्ययः, तथा येनैव समवायेन खण्डः स्वावयवेषु वर्तते तेनैव मुण्डादिरपि इति ‘गौः 'गौः' इत्यपि प्रत्ययः समवायनिबन्धन एव स्यात् / किञ्च, स्वयं समानेषु तत् तत्प्रत्ययहेतुः, असमानेषु वा ? प्रथमपक्षे तत एव तदुत्पत्तेः सामान्यं सिद्धोपस्थायि। असमानेषु च तदुत्पत्तौ कर्कादिष्वपि गोत्वाद् गोप्रत्ययोत्पत्तिः स्यात् , सर्वगतत्वेन तस्य समवायस्य च सर्वत्र सद्भावात्। किञ्च, समानानां भावः सामान्यम् , समा- 10 नत्वञ्च तेषां किं सामान्यसम्बन्धात् , स्वभावाद्वा ?. तत्र आद्यविकल्पोऽयुक्तः; नहि अँनेन अन्ये समाना भवन्ति, तद्वन्तो हि तथा स्युः। स्वभावात् चेत् ; तर्हि तत एव एवम्भूतां बुद्धिं ते करिष्यन्ति इत्यलं सामान्यपरिकल्पनया। तन्निबन्धनत्वे चास्याः प्रथममेकव्यक्तिदर्शनेऽपि सा स्यात् , इन्द्रियसम्बन्धाऽविशेषात् व्यक्तिवत् / अथ द्वितीयादिव्यक्तिग्रहणमपि अस्याः सामग्री ततः प्रथमव्यक्तिप्रतिभासे न प्रतिभासः ; कथमेवं सविकल्पप्रत्ययस्यास्य अनुसन्धानात्मनः 15 प्रवृत्तिः अगृहीतेऽर्थे तदप्रवृत्तेः ? किञ्च, इदं सामान्य व्यक्तिभ्यो भिन्नम् , अभिन्नं वा ? यद्यभिन्नम् ; तर्हि तद्वदेव अस्य उत्पत्ति-विनाशप्रसङ्गः। भिन्नं चेत् ; तद् व्यक्तयुत्पत्तौ उत्पद्यते, न वा ? यद्यत्पद्यते; तद्वदेव अनित्यत्वम् / नोत्पद्यते चेत् तद् उत्पत्तिप्रदेशे विद्यते, न वा ? यदि विद्यते; व्यक्तयुत्पत्तेः पूर्वमपि गुह्येत / व्यक्तथाश्रितत्वान्न तदभावे ग्रहणम् इत्यप्यसत् ; आश्रयाश्रयिभावस्य उपका- 28 योपकारकभावे सत्येव कुण्डबदरार्दिवत् संभवात् / बदराणी हि गुरुत्वाद् अधःपततां तत्प्रतिबन्धलक्षणोपकारकर्तृत्वेन कुण्डम् आधारः, सामान्यस्य तु निष्क्रियत्वेन पतनाऽभावान्न कश्चिद् आधारः संभवति इति अनाश्रितत्वात् प्राक् ऊर्ध्वमपि उपलम्भः स्यात् / आश्रितत्वे वा आश्रयाऽभावे अभावो रूपादिवत् / अथ तद्देशे तत् नास्ति, उत्पन्ने तु व्यक्तिविशेषे व्यक्त थन्तराद् आगच्छति; ननु ततः तद् आगच्छत् पूर्वव्यक्तिं परित्यज्य आगच्छति, न वा ? प्रथम- 25 १-त्वे ख-आ० / २-नेषु तदु-आ० / 3 अन्येन ब०, ज०, श्र०, भां० / 4 व्यक्तरुत्प-ब०, जः / "नहि तेन सहोत्पन्नाः नित्यत्वान्नाप्यवस्थिताः / तत्र प्रागविभुत्वेन नचायान्त्यन्यतोऽक्रियाः // 8.7 // " तत्त्वसं०।५ गृह्यते आ० / ६-दिव सं-आ० ।-त् सम्बन्धात् भां० / 7 “गमनप्रतिबन्धोऽपि न तस्य बदरादिवत् / विद्यते निष्क्रियत्वेन नाधारोऽतः प्रकल्प्यते // 800 // " तत्त्वसं० / स्या. रत्ना०पृ०९६३।८-त्वे आश्र-आ० / 9 “न याति न च तत्रासीदस्ति पश्चान्न चांशवत् / जहाति पूर्व नाधारमहो व्यसनसन्ततिः // " प्रमाणवा० 1115 प्रमेयक० पृ० 138 उ० / सन्मति० टी० पृ. 6911 स्या. रत्ना० पृ० 955 /