________________ 286 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० एवाऽयं गौः' इति प्रतिभासः ; तयोरैक्यप्रसङ्गात् / द्वितीयपक्षस्तु युक्तः; 'अयम्' इत्यनेन अन्योन्यविलक्षणशाबलेयादिविशेषं परामृश्य 'गौः' इत्यनेन सदृशपरिणामपरामर्शात् / स्वकारणादेव हि तादृशं रूपमुत्पन्नं यत् तथाविधां बुद्धिमुत्पादयति, नेतु व्यक्तिव्यतिरिक्तं नित्या दिस्वभावं सामान्यम् तदग्रहेऽपि तद्ग्रहणप्रसङ्गात् ? यथैव हि घटाद् व्यतिरिक्तः पटः घटा५ ऽग्रहेऽपि गृह्यते तथा सामान्यमपि विशेषाद् व्यतिरिक्त विशेषाऽग्रहेऽपि गृह्येत, न च तदग्रहे तद् गृह्यते तस्मात् न तत् ततो व्यतिरिक्तम् / / ____ अथ तासां तद्वयञ्जकत्वान्न तद्वयतिरेकेण तत्प्रतिभासः, तर्हि प्रदीपादिवत् प्रथमं तासां प्रतिभासः स्यात् ; न चैवम् , 'प्रथमं सामान्यं गृह्यते पश्चाद् व्यक्तिः' इत्यभ्युपगमात् , "नोऽगृहीतविशेषणा विशेष्ये बुद्धिः" [ ] इत्यस्य विरोधाऽनुषङ्गाच्च / विपर्य१० यश्चायम् अनयोर्व्यङ्गथव्यञ्जकभावं निराचष्टे / व्यक्तेश्च व्यञ्जकत्वे विजातीयव्यक्तेरपि तत् स्यात् व्यक्तित्वाऽविशेषात् / न च स्वव्यक्तरेव व्यञ्जकत्वम् इत्यभिधातव्यम् ; सामान्याऽसिद्धौ स्वव्यक्तरेव निरूपयितुमशक्यत्वात् / अस्तु वा स्वव्यक्तरेव तत्, तथाऽपि व्यक्तेतररूपतया कथं तस्य ऐक्यम् ? खण्डादयश्च अस्य व्यञ्जका यदि स्वभावतः तज्जननसमानशक्तियोगात्; तर्हि तावतैव सामान्यप्रयोजनँसिद्धः किं तेन सिद्धोपस्थायिना ? 15 किञ्च, उपकारं कुर्वती व्यक्तिः सामान्यं व्यनक्ति, अकुर्वती वा ? कुर्वती चेत् ; कोऽनया तस्य उपकारः क्रियते-तज्ज्ञानोत्पादनयोग्यता , तज्ज्ञानं वा ? तद्योग्यता चेत् ; सा ततो भिन्ना, अभिन्ना वा विधीयते ? भिन्ना चेत् ; तत्करणे सामान्यस्य न किञ्चित् कृतम् इति तदवस्था अस्य अनभिव्यक्तिः / अभिन्ना चेत् ; तत्करणे सामान्यमेव कृतं स्यात् , तथा चास्याऽनित्य त्वम् / तज्ज्ञानं चेत् ; कथमतः सामान्यसिद्धिः अनुगतज्ञानस्य व्यक्तिभ्यः एवं आविर्भावात् ? 20 तत्सहायस्य अस्यापि अत्र व्यापारः इत्यपि श्रद्धामात्रम्; यतो यदि घटोत्पत्तौ दण्डाद्युपेत कुम्भकारवत् व्यक्त्युपेतं सामान्यमनुगतज्ञानोत्पत्तौ व्याप्रियमाणं प्रतीयेत, स्यादेतत् , तच्च न प्रतीयते तत्कथं तत्सहायस्य अस्य तत्र व्यापारः स्यात् ? न किञ्चित्कुर्वत्याश्च व्यञ्जकत्वे विजातीयव्यक्तरपि व्यजकत्वप्रसङ्गः। ननु व्यक्तीनां यदि अनुगतमेकं सामान्यं नेष्यते तदा कथं तत्र अनुगतप्रत्ययः अभिन्न२५ शब्दनिवेशश्च स्यात् ? नहि घट-पटादीनां विभिन्नस्वभावानामसौ दृष्टः; इत्यप्यसाधीयः; सामान्येषु तदभावेऽपि 'सामान्यम् ' 'सामान्यम्' इत्यनुगतप्रत्ययस्य एकशब्दनिवेशस्य च 1 ननु आ०, ब०, ज० / २-ग्रहणेऽपि आ० / 3 गृह्यते आ०, भां० / 4 तत्त्वतो ब०, ज० / 5 “विशिष्टबुद्धिरिष्टेह न चाज्ञातविशेषणा // 88 // " मी० श्लो० अपोहवाद / 6 व्यञ्जकभूतायाः व्यक्तः प्रागेव व्यङ्ग्यभूतस्य सामान्यस्य ग्रहणरूपः / ७-नप्रसिद्धेः आ०, श्र० / 8 “सामान्यस्य व्यक्तिकार्यत्वप्रसङ्गः तदभिन्नस्योपकारस्य करणात् / " अष्टसह० पृ० 139 / प्रमेयक० पृ० 138 पू० / स्या. रत्ना० पृ० 953 / ९-ते कथं आ० /