________________ लघो० प्रमाणप्र० का०७] : सामान्यपदाथवादः . अत्र प्रतिविधीयते / यत्तावदुक्तम्'-'द्रव्यगुणकर्माऽनिमित्त' इत्यादि; तदसमीचीनम् ; भव स्कल्पितद्रव्यादीनामुक्तविधिना निषेधे सति सामान्यस्य तदाषट्पदार्थपरीक्षायां वैशेषिकोक्त श्रितस्य तत्र अनुगतज्ञाननिमित्तत्वाऽनुपपत्तेः / नहि आश्रयनित्यनिरंशैकादिरूपसामान्यस्य प्रतिविधान पुरस्सरं तस्य सदृश मन्तरेण आश्रितानां क्वचिदवस्थितिः। कार्यकारित्वं वा दृष्टम् परिणामात्मकत्वप्रसाधनम् - अनाश्रितत्वप्रसङ्गात् / 'अनुगतज्ञाननिमित्तम् ' इत्यस्य च भाषि- 5 तस्य कोऽर्थः-किम् अनुगतस्य ज्ञानस्य निमित्तम् अनुगतज्ञाननिमित्तम् , अनुगतं वा सत् ज्ञाननिमित्तम् इति ? प्रथमपक्षे ज्ञाने अनुगमः किंकृतः-स्वरूपकृतः, सामान्यकृतो वा ? न तावत् स्वरूपकृतः; अर्थानामपि स्वरूपत एव अनुगमप्रसङ्गतः सामान्यकल्प• नाऽनर्थक्याऽनुषङ्गात् / अथ सामान्यकृतः, प्रतिभास्याऽनुसारेण हि ज्ञानस्य अनुवृत्तिः नान्यथा; तर्हि 'अनुगतं सत् ज्ञाननिमित्तम् ' इत्ययं पक्षोऽङ्गीकृतः स्यात् / तत्राऽपि अस्य अनुगतत्वम्- 10 ज्ञानाऽर्थयोः साधारणस्वभावाऽऽधारत्वम् , नित्यैकत्वे सति अनेकत्र व्यतिरिक्तया वृत्त्या वर्तमानत्वं वा ? आद्यविकल्पे संयोगेन अनेकान्तः, तस्य ज्ञानाऽर्थयोः साधारणस्वभावत्वेन अनुगतस्य सतो ज्ञाननिमित्तत्वेऽपि सामान्यरूपत्वाऽभावात्। नहि तस्य येनैव स्वभावेन स्व. ज्ञानविषयत्वं तेनैव स्वसम्बन्धिनि वर्तमानत्वमसिद्धम् , सामान्यवत् निरंशत्वेन अस्यापि स्वभावभेदाऽभावात् / द्वितीयपक्षस्तु अयुक्तः; सामान्ये नित्यैकत्वस्य समवायवृत्या च अने- 15 कत्र वर्तमानत्वस्य अद्याप्यंसिद्धः / ___ यदप्युक्तम्-'तत्सद्भावे च प्रत्यक्षमेव' इत्यादि; तत्र प्रत्यक्षं गोत्वादिसामान्यस्य परिच्छेदकं "निर्विकल्पकम् , सविकल्पकं वा स्यात् ? न तावन्निर्विकल्पकम् ; तस्य परामर्शशून्यत्वेन 'गौः गौः' इत्याद्युल्लेखेन अनुवृत्तवस्तुपरामर्शकत्वाऽयोगात् / तत्त्वे वा न यथोपवर्णितस्वरूपं वर्णआकृति-अक्षराकारशून्यं नित्यैकव्यापिस्वभावं तत् तत्र प्रतिभासते विप्रतिपत्त्यभावप्रस- 20 ङ्गात् / न खलु स्वरूपेण प्रतिभासमानेऽर्थे कश्चिद् विप्रतिपद्यते व्यक्तिवत् / नापि सविकल्पकम् ; तस्य निर्विकल्पकपृष्ठभावितया तत्प्रतिपन्ने एव अर्थे प्रवृत्तेः / 'न च सामान्यं निर्विकल्पकप्रतिपन्नम् ' इत्युक्तम् , प्रतिपत्तौ वा गृहीतग्राहितया नितरामस्याऽप्रामाण्यम् / कीदृशश्चायमनुगतप्रत्ययः-किं "योऽयं गौः सोऽयं गौः, किं वा अयमपि गौः अयमपि गौरिति ? प्रथमपक्षोऽयुक्तः; नहि शाबलेय-बाहुलेययोः प्रतिभासमानयोः ‘य एवाऽयं गौः स 25 1 पृ. 283 पं० 17 // 2 अनुगतनि-आ०, ब०, ज०, भां०।३ “अनुगतश्चासौ प्रत्ययश्चेति अनुगतप्रत्ययः, किंवा अनुगते बस्तुनि प्रत्यय इति / " स्या. रत्ना० पृ० 950 / "तथाहि किमिदं सामान्य किमनुवृत्तप्रत्ययकारणमुतानुवृत्तप्रत्ययप्रमाणकमथवा अनुवृत्तत्वमाहोस्विन्नित्यत्वे सत्यनुवृत्तत्वमथवा नित्यमेकमनेकसमवेतत्वम् / " चित्सुखी पृ० 190 / ४-भासस्या-ब०, ज० / 5 तज्ज्ञाना-ब०, ज० / ६ज्ञान-ब०, ज०, श्र० / ७-त्याने-ब०, ज० / ८-प्यप्रसि-ब०, ज०, भां०, श्र०।९१० 283 पं० 27 / 10 "तत्र किं निर्विकल्पकात् सविकल्पकाद्वा तत्प्रतिपत्तिः स्यात्।" प्रमेयक० पृ. 141 उ० / स्या० रत्ना० पृ. 958 / 11 “."किं य एवायं गौः स एवायमपि, किं वाऽयमपि गौः अयमपि गौः; किं वा गौ!ः इति सामान्येनेति / " स्या० रत्ना० पृ. 952 /