________________ 284 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० स्यास्य 'गौः' 'गौः' इत्यादि अनुगतेन्द्रियप्रभवप्रत्यये प्रतिभासमानत्वात् / नहि इदम् अनुगतैकाकारवस्त्वालम्बनमन्तरेण उपपद्यते ; निर्हेतुकत्वेन सर्वदा सत्त्वस्य असत्त्वस्य वा प्रसङ्गात् , खण्डादिवत् अन्यत्रापि वा नियामकाऽभावतः प्रवृत्त्यनुषङ्गात् / न च व्यक्त्यालम्बनत्वादयमदोषः इत्यभिधातव्यम् ; व्यक्तीनां व्यावृत्तरूपतया अनुगतैकाकारप्रत्ययालम्बनत्वाऽयोगात् / 5 अन्याकारप्रत्ययस्य अन्यालम्बनत्वे सर्वत्राऽनाश्वासान्न क्वचित् प्रतिनियतार्थसिद्धिः स्यात् / तथा, अनुमानमपि तत्सद्भावावेदकत्वेन प्रवर्त्तते ; तथाहि-गो-अश्व-महिष-वराहादिषु गवाद्यभिधान-ज्ञानविशेषाः समय-आकृति-पिण्डादिव्यतिरिक्तस्वरूपानुरूपसंसर्गिनिमित्तान्तरनिबन्धनाः गवादिविषयत्वे सति पिण्डादिस्वरूपाभिधान-ज्ञानाद्वथतिरिक्ताभिधान-ज्ञानविशेष त्वात् , यथा तेष्वेव गवादिषु 'सवत्सा धेनुः, भाराकान्तो महिषः, सशल्यो वराहः , साङ्कशो 10 मातङ्गः' इत्यभिधान-ज्ञानविशेषा निमित्तान्तरसंभवाः , ये च पिण्डादिस्वरूपव्यतिरिक्तनिमि त्तान्तरनिमित्ता न भवन्ति न ते तद्व्यतिरिक्ताऽभिधान-ज्ञानविशेषाः यथा पिण्डादिप्रत्यया इति / तथा, 'यद्वस्त्वाकारविलक्षणो यः प्रत्ययः स तद्व्यतिरिक्तनिमित्तान्तरनिबन्धनः यथा वस्त्रादिषु रक्तादिप्रत्ययः, तथा चायं पिण्डादिषु गवादिप्रत्यय इति / गवादिषु अनुवृत्तिप्रत्ययः पिण्डादिव्यतिरिक्तनिमित्तनिबन्धनः , विशिष्टप्रत्ययत्वात् , नीलादिप्रत्ययवत् इति / गोपिण्डाद२० र्थान्तरं गोत्वम् , भिन्नप्रत्ययविषयत्वात् रूप-स्पर्शादिवत् , इति / पिण्डादर्थान्तरं गोत्वम् , 'तस्य' इति व्यपदेशात् , चैत्रस्य तुरङ्गमवत् / “गौः गौः' इत्यभिन्नाऽभिधान-प्रत्ययौ अनुवृत्तवस्तुनिबन्धनौ, अभावसामान्याभिधानप्रत्ययान्यत्वे सति अनुवृत्ताऽभिधानप्रत्ययत्वात्", चर्म-वत्रादिषु नीलीद्रव्यसम्बन्धात् 'नीलम्' 'नीलम्' इत्यभिधानप्रत्ययवत् / ' इत्याद्यनुमानेन च द्रव्यादिभ्योऽर्थान्तरं तत् प्रतिभासते। १-नत्वम-ब०, ज० / 2 तत्र भाविविक्तः प्राह-“गवादिशब्दप्रज्ञानविशेषा गोगजादिषु / समयाकृतिपिण्डादिव्यतिरिक्तार्थहेतवः // 716 // गवादिविषयत्वे हि सति तच्छब्दबुद्धितः / अन्यत्वात्तद् यथैष्वेव सवत्साऽङ्कुशधीध्वनी ॥१७॥शशशृङ्गादिविज्ञानैर्व्यभिचाराद्विशेषणम् / तत्स्वरूपाभिधानञ्च वैधानिदर्शनम् // 718 // " (पूर्वपक्षरूपेण) तत्त्वसं० / ३-स्वरूपाभिधानज्ञानविशेषत्वात् आ०, ब०, ज० / "गवादिविषयत्वे सति पिण्डादिस्वरूपाभिधानप्रज्ञानव्यतिरिक्ताभिधानज्ञानत्वात् / ..." तत्त्वसं० पं० प्र० 238 / 4 "यथा परस्परविशिष्टेषु चर्मवस्त्रकम्बलादिषु नीलीद्रव्याभिसम्बन्धात् नीलं नीलमिति प्रत्ययानवृत्तिः तथा परस्परविशिष्टद्रव्यगुणकर्मसु सत्सदिति प्रत्ययानुवृत्तिः सा चार्थान्तराद्भवितुमर्हति / ..." प्रश. भा० पृ० 311-12 / “यद्वस्त्वाकारविलक्षणो यः स"।" तत्त्वसं० पं० पृ० 238 / 5 "गवादिध्वनुवृत्तिप्रत्ययो दृष्टः पिण्डव्यतिरिक्ताल्लिङ्गाद्भवतीति विशेषवत्त्वात् नीलादिप्रत्ययवत् / " न्यायवा० 2 / 2 / 70 / 6 “गोतोऽर्थान्तरं गोत्वं भिन्नप्रत्ययविषयत्वात् रूपस्पर्शप्रत्ययवदिति / " न्यायवा० 12 / 70 / 7 "गोतोऽर्थान्तरं गोत्वं व्यपदेशशब्दविषयत्वात् चैत्राश्ववत् / .." न्यायवा० 2 / 2170 / ८"गोर्गोत्वानुवृत्तिप्रत्यया भिन्ननिमित्ता विशेषवत्त्वाद्रूपादिप्रत्ययवत् / " न्यायवा० २।२।७०।९-भिधानप्रधान प्र-आ० / १०-त्वाच्च वस्त्रा-श्र० /