________________ 283 लघी० प्रमाणप्र० का०७] सामान्यपदार्थवादः पाते च जाते 'चलति वसुमती' इति प्रतीतिदृश्यते, न च तत्र उत्पातहेतुना संयोग-विभागौ गृह्यते / तस्मान्न संयोगाद्यालम्बना 'चलति' इति प्रतीतिः, किन्तु क्रियालम्बनैव / / किञ्च, इमो संयोग-विभागौ अहेतुको, सहेतुको वा स्याताम् ? अहेतुकत्वे सर्वदा सत्त्वमसत्त्वं वा स्यात् / सहेतुकत्वे कस्तयोर्हेतुः-पदार्थस्वरूपमात्रम् , तद्विशिष्टपरिणामो वा ? प्रथमपक्षे स्थिरेऽप्यर्थे अपराऽपर प्रदेशाऽवयविद्रव्यसंयोग-विभागोत्पादप्रसङ्गः तत्स्वरूपमात्रस्य 5 तत्राप्यविशिष्टत्वात्। विशिष्टपरिणामहेतुकत्वे तु नाममात्रभेदः, कर्मण एव तत्परिणामशब्देन अभिधानात् , तद्व्यतिरेकेण अपराऽपरप्रदेशाऽवयविद्रव्यसंयोग-विभागहेतोः पदार्थानां विशिष्टपरिणामस्य असंभवात् / अतः कर्म संयोग-विभागाभ्यां देवदत्तादेश्च अर्थान्तरम् विभिन्नप्रत्ययग्राह्यत्वात् घट-पटवत् / न चेदमसिद्धम् ; संयोग-विभागयोः संविद्वयप्रतिष्ठतया संवेदनात् , कर्मणस्तु एकसंविन्निष्ठतया। तथा, देवदत्तः चलत्तिष्ठदवस्थायां देवदत्तप्रत्ययवेद्यः, कर्म पुनः 10 चलदवस्थायामेव 'चलति' इति प्रत्ययवेद्यम् , अतः ततो भिन्नम् ; सर्वत्र भेदव्यवस्थायाः संविद्भेदनिबन्धनत्वात् / ननु क्षणमात्रस्थायितया अर्थानां देशाद्देशान्तरप्राप्त्यसंभवात् नैतल्लक्षणमपि कर्म उपपन्नम् ; इत्यपि मनोरथमात्रम् ; क्षणिकत्वस्य अर्थानां निराकरिष्यमाणत्वात् / तन्न कर्मपदार्थोऽपि परपरिकल्पितो विचार्यमाणो घटते / नापि सामान्यपदार्थः / तत्स्वरूपस्यापि विचार्यमाणस्य 15 अनुपपद्यमानत्वात् / . ननु द्रव्य-गुण-कर्माऽनिमित्ताऽबाध्यमानाऽनुगतज्ञाननिमित्तं सामान्यम् , तत्स्वरूपस्य ___चास्य कथं विचार्यमाणस्याऽनुपपत्तिः ? तद्रूपतयाऽस्य प्रत्यक्षा..''द्रव्यादिभ्योऽर्थान्तरं पराऽपरभेदात् दिगोचरचारितया समर्थयिष्यमाणत्वात् / तद्रूपोपेतञ्च सामाद्विविधं सामान्यम्। इति वैशेषिकस्य न्यं द्विविधम्-परम् , अपरं चेति / तत्र परं महाविषयं सत्ता- 20 ___पूर्वपक्षः ख्यम् , तच्च समस्तेषु द्रव्यंगुणकर्मसु अनुवृत्तिप्रत्ययस्यैव हेतुत्वात् सामान्यमेव, न विशेषः। अपरं तु द्रव्यत्व-गुणत्व-कर्मत्वादिलक्षणम् , तच्च स्वाश्रयेष्वनुवृत्तिप्रत्ययहेतुत्वात् 'सामान्यम्' इत्युच्यते, विजातीयेभ्यः स्वाश्रयस्य व्यावृत्तप्रत्ययहेतुत्वाच्च सामान्यमपि सत् 'विशेषः' इत्यभिधीयते / तथाहि-गुणादिषु 'अद्रव्यम्' 'अगुणः' इत्यादिका येयं व्यावृत्तबुद्धिरुत्पद्यते तां प्रति एषामेव द्रव्यगुणत्वादीनां हेतुत्वं प्रतीयते नान्यस्य / न 25 चैकस्य अस्य सामान्यविशेषभावो विरुद्धयते इत्यभिधातव्यम् ; अपेक्षाभेदात् तत्र तद्भावस्य अविरोधात् / तत्सद्भावे च प्रत्यक्षमेव तावत्प्रमाणम् , विभिन्नगवादिव्यतिरिक्तस्य अनुगतस्यैक 1 "क्षणक्षयिषु भावेषु कर्मोत्क्षेपाद्यसंभवि / जातदेशे च्युतेरेव तदन्यप्राप्त्यसंभवात् // 692 // " तत्त्व. सं० / 2 “सदिति यतो द्रव्यगुणकर्मसु सा सत्ता / " वै० सू० १।२।७।३-श्रयेप्यनु-आ० / “द्रव्यत्वं गुणत्वं कर्मत्वं सामान्यानि विशेषाश्च / " वै० सू० 1 / 2 / 5 / " तच्च व्यावृत्तेरपि हेतुत्वाद् सामान्य सद् विशेषाख्यामपि लभते / " प्रश० भा० पृ० 11, 312 / ४-वृत्तिप्र-श्र० / ५-वृत्तत्वबु-श्र० /