________________ 282 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० भूतार्थक्रियायां काल्पनिकस्य सामर्थ्याऽसंभवात् / सर्वथा अर्थादर्थान्तरस्य च अस्य ग्राहकप्रमाणाऽभावाद् असत्त्वम् / यद् यतः सर्वथा अर्थान्तरं प्रमाणतो न प्रतीयते न तत् तथाऽभ्युपगन्तव्यम् यथा सामान्यादेः स्वरूपसत्त्वम् , सर्वथा अर्थादर्थान्तरं न प्रतीयते च कुतश्चित्प्रमाणात् कर्म इति / ततो यथोक्तस्वरूपमेव कर्म प्रतीतिभूधरशिखरारूढं प्रेक्षादक्षःप्रतिपत्तव्यम् / ननु 'सालोकाऽवयविद्रव्यसंयोग-विभागव्यतिरेकेण नाऽपरं किञ्चित् कर्म प्रतीयते, ऊर्ध्व प्रदेशाऽऽलोकाद्यवयविद्रव्यसंयोग-विभागपरम्परा हि उत्क्षेपणम् 'संयोग एव कर्म' इति भूषण उच्यते , एवम् अपक्षेपणादावपि वक्तव्यम्' इत्यन्यैः ; सोऽपि मतस्य निराकरणम् प्रतीत्यपलापित्वाद् अप्रामाणिकः ; नहि संयोग-विभागौ 'चलति' इत्यादिप्रतीतेरालम्बनतां प्रतिपद्यते 'संयुक्तः, वियुक्तः' इति प्रतीतिगोचरचारित्वात्तयोः, यथा१० विषयम् अवितथप्रत्ययप्रवृत्तेः, अन्यथा पटप्रत्ययोऽपि घटालम्बनः स्यात् / संयोग-विभागाल म्बनत्वे चास्य तिष्ठत्यपि 'चलति' इति प्रत्ययः स्यात् , न चैवम् , न खलु नदीमध्यस्थिते स्थाणौ जलप्रवाहेण श्येनेन वा संयोगविभागेषु प्रवर्त्तमानेष्वपि 'स्थाणुश्चलति' इति स्वप्नेऽपि कस्यचित् प्रतीतिरस्ति / निरन्तरञ्च संयोग-विभागश्रेणिदर्शनात् देवदत्तवद् भूमावपि 'चलति' इति प्रतीतिः स्यात् / नहि संयोग-विभागयोः उभयत्र वृत्त्यविशेषे 'देवदत्ते एव तत्प्रतीतिर्भवति 15 न भूमौ' इति निर्निबन्धना व्यवस्थितियुक्ता; स्वेच्छाचारित्वप्रसङ्गात् / अथ देवदत्तक्रिययैव तौ जन्येते न भूमिक्रियया अतः तत्रैव तत्प्रतीतिमुत्पादयतः न भूमौ; यद्येवम् , क्रियान्वय-व्यतिरेकाऽनुविधायित्वात् तत्प्रतीतेः सिद्धं क्रियालम्बनत्वमेव। संयोग-विभागाऽग्रहणेऽपि च निरालम्बे विहायसि विहरति विहङ्गमे 'चलति' इति प्रत्ययप्रतीतेश्च / नहि गगनतत्संयोगोऽस्मदादेः प्रत्यक्षः; प्रत्यक्षतरद्रव्यवृत्तित्वाद् गन्धवह२० महीरुहसंयोगवत् / ननु वितताऽऽलोकावयवी आकाशः, तेन च पतत्रिसंयोगः अस्मदादेः प्रत्यक्ष एव; इत्यप्यसुन्दरम् ; समन्धकारे 'खद्योतो गच्छति' इति प्रत्ययाभावप्रसङ्गात् / नहि तत्र आलोकाऽवयवी विद्यते, यत्संयोग-विभागग्रहणनिबन्धनोऽयं प्रत्ययः स्यात् / नापि अन्धकारलक्षणं किञ्चिद् भवन्मते वस्त्वस्ति, 'आलोकाभावस्तमः' इत्यभ्युपगमात् / भूकम्पो 1 सर्वथार्थान्तरस्य ग्रा-ज० / 2 चार्थग्रहणस्य भा०, श्र० / ३-थार्थान्त-आ०। 4 भूषणः / "भूषणादिमते च कर्मणो गुणत्वेन " न्यायलीला कण्ठा० पृ. 94 / “संयोगापेक्षया कर्मणोऽतिरिक्तत्वं नास्तीति भूषणकारमतम् / ...," मुक्ता० दिनकरी पृ० 40 / “संयोग एव कर्म इति भूषणमतम् / " (प्र० प्र०) न्यायको० पृ. 206 / 5 वर्त-आ० / 6 "द्रव्यगुणकर्मनिष्पत्तिवैधादभावस्तमः / " बै० सू०५।२।१९ / कन्दल्यां तु 'भाभावः' इति सूत्रपाठभेदः (पृ.१०)। "तस्माद्रूपविशेषोऽयं अत्यन्तं तेजोऽभावे सति सर्वतः समारोपितः तमः / " प्रश० कन्दली पृ. 9 / जैनास्तु-"तमो दृष्टिप्रतिबन्धकारणम् अथ च पौद्गलिकम्।" सर्वार्थसि० 5 / 24 / 'द्रव्यं तमः' इति भाहा वेदान्तिनश्च भणन्ति 'आलोकज्ञानाभावः' इति प्राभाकरैकदेशिनः / " सर्वदर्शनसं० औलू. द. पृ. 229 / वैयाकरणास्तु-"अणवः सर्वशक्तित्वाद्भेदसंसर्गवृत्तयः। छायातपतमःशब्दभावेन परिणामिनः // 111 // " वाक्यप० काण्ड 1 /