________________ 281 लघी० प्रमाणप्र० का०७] कर्मपदार्थवादः नाप्युभयस्वभावस्य ; उभयपक्षनिक्षिप्तदोषाऽनुषङ्गात् / किञ्च, अस्य उभयस्वभावता युगपत् , क्रमेण वा स्यात् ? न तावद् युगपत् ; गन्तृत्वाऽगन्तृत्वस्वभावयोविभिन्नकालनिबन्धनत्वात् , ययोविभिन्नकालनिबन्धनत्वम् न तयोर्युगपद्भावः यथा प्रसारितेतराङ्गुलिस्वभावयोः, तत्कालनिबन्धनत्वञ्च तत्स्वभावयोरिति / युगपत्तद्भावे च अण्वादेः विरुद्धधर्माऽध्यासतो भेदप्रसंगाद् एकस्वरूपताव्याघातः / क्रमेण तद्भावाऽभ्युपगमे अगन्तृरूपत्यागेन अत्यागेन वा गन्तृ- 5 रूपोत्पादे प्रागुक्ताऽशेषदोषाऽनुषङ्गः / अनुभयरूपता तु विरोधान्न युक्ता ; विधिप्रतिषेधधर्मयोः एकतरप्रतिषेधे अन्यतरविधेरवश्यंभावित्वात् / ततः सर्वथैकस्वभावे वस्तुनि कर्मणोऽनुपपद्यमानत्वान्न परेषां कर्मपदार्थो घटते / .. अस्तु वाऽसौ; तथापि, 'देशाद् देशान्तरप्राप्तिहेतुः परिस्पन्दात्मकः परिणामोऽर्थस्य कर्म' इत्येतावतैव पर्याप्तत्वात् न तत्पञ्चप्रकारतोपवर्णनं युक्तम् , उत्क्षेपणादीनामत्रैवाऽन्तर्भावात् / अत्र 10 अन्तर्भूतानामपि कञ्चिद्विशेषमादाय भेदेनाऽभिधाने भ्रमण-रेचनादीनामपि अतो भेदेनाऽभिधानाऽनुषङ्गात् कथं पञ्चप्रकारतैव अस्य स्यात् / : किञ्च, उत्क्षेपणादिकर्मणो भेदः स्वरूपनिबन्धनः, जातिनिबन्धनो वा स्यात् ? स्वरूपनिबन्धनश्चेत्-किं स्वरूपमात्रनिबन्धनः , विशिष्टस्वरूपनिबन्धनो वा ? न तावत् स्वरूपमात्रनिबन्धनः; तन्मात्रस्य सर्वेषामविशिष्टत्वात् / अविशिष्टस्याऽपि भेदकत्वे एकतव्यक्तेरपि भेद- 15 कत्वप्रसङ्गान्न क्वचिदेकत्वव्यवहारः स्यात् / विशिष्टस्वरूपनिबन्धनश्चेत् ; किंकृतं तद्वैशिष्टयम् ? जातिकृतमिति चेत् ; तर्हि 'जातिनिबन्धनस्तद्भेदः' इत्यायातम् / ... तत्रापि उत्क्षेपणत्वादिजातिः अभिव्यक्ता, अनभिव्यक्ता वा तत्कर्मणो भेदं विदध्यात् ? न तावदनभिव्यक्ता ; सर्वत्र सर्वदा तद्भेदाऽभिव्यञ्जकत्वप्रसङ्गात् / अभिव्यक्ता चेत्, कुतस्तदभिव्यक्तिः-तत्कर्मभेदात् , अन्यतो वा ? न तावदन्यतः ; विजातीयव्यक्तीनामभिव्यजकत्वे 20 कर्कादिभ्यो गोत्वाऽभिव्यक्तिप्रसङ्गात् / तत्कर्मभेदस्य च अभिव्यञ्जकत्वे अन्योऽन्याश्रयःसिद्धे हि तत्कर्मणो भेदे ततः तज्जातीनामभिव्यक्तिसिद्धिः , तत्सिद्धेश्च तत्कर्मणो भेदसिद्धिरिति / किञ्च, आसां तत्कर्मक्षणो व्यजकः, तत्समुदायो वा ? न तावत् तत्क्षणः ; प्रथमक्षणे समुत्पन्नस्य तत्कर्मक्षणमात्रस्य दुर्लक्ष्यतया उत्क्षेपणत्वादिजात्यभिव्यञ्जकत्वाऽयोगात् , नहि क्षणमात्रभावि कर्म उत्क्षेपणम् अपक्षेपणं वा अस्मदादिभिलक्ष्यते, येन अतः तज्जातिभेदोऽ- 25 भिव्यक्तः स्यात् , तस्य अतिसूक्ष्मत्वेन योगिनामेव प्रत्यक्षत्वात् / नापि तत्समुदायो व्यञ्जकः; कर्मणां क्षणिकत्वेन समुदायस्यैवाऽसंभवात् / बुद्धिपरिकल्पितः सोऽस्तीत्यप्ययुक्तम् ; वस्तु 1 एकरूप-ब०, ज०, श्र० / “यदि तु स्यादगन्ताऽयमेकदा चान्यथा पुनः / परस्परविभिन्नात्ममहतभिन्नता भवेत् // 7.3 // " तत्त्वसं। 2 "उभयनिमित्तवशादुत्पद्यमानः पर्यायो द्रव्यस्य देशान्तरप्राप्तिहेतुः क्रिया / " सर्वार्थसि० 5 / 7 / प्रमेयक० पृ० 183 पू० / 3 "उत्क्षेपणत्वादिजात्यभिव्यजकः कर्मक्षणः तत्समुदायो वा..." स्या० रत्ना० पृ० 950 / 36