________________ 280 लघीयस्त्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० विभागकारणं कर्म उत्पद्यते, यथा शरीराऽवयवे तत्सम्बद्धे च मुसलादौ ऊर्ध्वदिग्भाविभिः आकाशाद्यथैः संयोगकारणम् अधोदिग्भाविभ्यश्च विभागकारणं गुरुत्व-प्रयत्न-संयोगवशात् कर्म उत्पद्यते / उक्तविपरीतसंयोगविभागकारणं तदपक्षेपणम् / ऋजुनो द्रव्यस्य कुटिलत्व कारणं कर्म आकुञ्चनम् , तद्यथा ऋजुनो बाह्वादिद्रव्यस्य अग्राऽवयवानामङ्गल्यादीनां तद्देशैः 5 स्वसंयोगिभिराकाशाद्यैर्विभागे सति मूलप्रदेशैश्च संयोगे येन कर्मणा अवयवी कुटिलः सम्प द्यते तद् आकुञ्चनम् / तद्विपर्ययेण तु संयोगविभागोत्पत्तौ येन कर्मणा अवयवी ऋजुः सम्पद्यते तत् कर्म प्रसारणम् / अनियतदिग्देशैर्घटादिभिर्यत् संयोगविभागकारणं तद् गमनम् / उत्क्षेपणादिकं चतुःप्रकारमपि नियतदिग्देशैस्तैः तत्कारणम् / अत एव पञ्चैव कर्माणि भवन्ति भ्रमण-स्यन्दन-रेचनादीनां गमने एव अन्तर्भावादिति / 10 अत्र प्रतिविधीयते। यत्तावदुक्तम्-'एकद्रव्यम्' इत्यादि कर्मणो लक्षणम् ; तदसमीचीनम् / भवत्परिकल्पिते द्रव्ये प्रतिषिद्धे तस्य तल्लक्षणत्वाऽनुपपत्तेः / अस्तु षट्पदार्थपरीक्षायां तथोक्तकर्मप वा तद् द्रव्यम् ; तथापि एतद् गन्तृस्वभावम, अगन्तृस्वभावम्, दार्थनिरसनपुरस्सरं 'देशाद्देशा ___ उभयरूपम् ,अनुभयरूपं वा कर्मण आश्रयः स्यात् ? गन्तृस्वभावं न्तरप्राप्तिहेतुः परिस्पन्दात्मकः चेत् ; तर्हि तद्वयतिरिक्तकर्मकल्पनावैयर्थ्यम् , तत्स्वभावस्यापि परिणामोऽर्थस्य कर्मः इति 15 तत्कल्पने अनवस्थाप्रसङ्गात् / किञ्च, सर्वदा तत् तत्स्वभावम् , व्यवस्थापनम् कदाचिद्वा ? प्रथमपक्षे न कदाचित् तदवतिष्ठेत् सर्वदा गन्तृस्वभावत्वात् वायुवत् / अथ कदाचित् ; तदा 'पूर्वम् अगन्तृस्वभावं तत् पश्चाद् गन्तृस्वभावम्' इत्यायातम् / तत्र च पूर्वाऽगन्तृस्वभावपरित्यागेन तद् गन्तृस्वभावतां स्वीकुर्यात् , अपरित्या गेन वा ? यदि परित्यागेन ; तदा अण्वादिद्रव्यस्य अनित्यतापत्तिः , स्वभावप्रच्युतिलक्षणत्वात 20 तस्याः / अथ अपरित्यागेन ; तन्न ; अपरित्यक्ताऽगन्तृस्वभावस्य हिमाचलादिवत् गन्तृस्वभाव समावेशाऽनुपपत्तेः / तन्न गन्तृस्वभावस्य अण्वादिद्रव्यस्य कर्माश्रयत्वं घटते / नापि अगन्तृस्वभावस्य; आकाशादिवत् तथाविधस्य अस्य तदाश्रयत्वविरोधात् , पूर्वमगन्तुस्वभावस्य उत्तरकालं गन्तृस्वभावर्तीयां सत्यां तस्य तदाश्रयत्वे तु उक्तदोषाऽनुषङ्गः। 1 "गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम् / " वै० सू० 1 / 1 / 29 / 2 संयोगेन क-आ० / 3 तत्प्रसाब०, ज०। 4 ..."भ्रमणाद्यवरोधार्थत्वात् ; उत्क्षेपणादिशब्दैरनबरुद्धानां भ्रमणपतनस्यन्दनादीनामवरोधार्थ गमनग्रहणं कृतमिति।"प्रश. भा० पृ० 296 / 5 पृ. 279 पं० १५।६-वं तदा त-आ० / “यदि गन्त्रादिरूपं तत्प्रकृत्या गमनादयः। सदा स्युः क्षणमप्येवं नावतिष्ठेत निश्चलम् // 699 // यस्माद्गत्याद्यसत्त्वेऽपि प्राप्नुवन्त्यस्य ते ध्रुवं / अत्यक्तपूर्वरूपत्वाद् गत्याद्युदयकालवत् // 700 // " तत्त्वसं० / प्रमेयक० पृ. 183 पू० / 7 “अथागन्त्रादिरूपं तत्प्रकृत्याऽगमनादयः। सदा स्युः क्षणमप्येकं नैव प्रस्पन्दवद्भवेत् // 701 // पश्चाद्गत्यादिभावेऽपि निश्चलात्मकमेव तत् / अत्यतपूर्वरूपत्वात् निश्चलात्मककालवत् // 702 // " तत्त्वसं० / ८-तायां तस्य ब०, ज०, श्र० / 9 च ब०, ज० /