________________ लघी० प्रमाणप्र० का०७] कर्मपदार्थवादः 279 विरुद्धथते ? इति चेत् ; शीघ्रक्रियाणां सातत्ये 'वेगेन गच्छति' इति प्रतीतेरविरोधः / अतः प्रतीतेवेंगाख्यगुणसद्भावेच 'वेगेन शास्त्रं जानाति, वेगेन षष्टिकाः पच्यन्ते' इत्यत्रापि वेगगुणसद्भावः स्यात् / 'सन्तानेन आगच्छति' इति प्रतीतेश्च सन्तानोऽपि गुणः स्यात् / भावनारूपोऽपि संस्कारः आत्मनः स्मरणजननशक्तेर्नान्यः / एतेन स्थितस्थापकोऽपि संस्कारः प्रत्याख्यातः; नहि सोऽपि यथाऽवस्थितवस्तुस्थापनसामर्थ्यादपरः प्रतिभासते / न चासौ नियमेन यथाऽवस्थि- 5 तं वस्तु स्थापयति आकृष्यमाणे शाखादौ अनियतदिक्त्वेन शाखादेर्गमनस्य स्थानस्य च दर्शनात्। ___धर्माऽधर्मावपि नात्मगुणौ प्रतिपादयितुं शक्यौ / तत्र विप्रतिपत्तेः / अस्मन्मते हि पौद्गलिको तौ, सांख्यमते बुद्धिधर्मों, मीमांसककृतान्ते द्रव्यादिकं श्रेयःसाधनत्वशक्तिविशिष्टं तच्छब्दवाच्यम् , बौद्धराद्धान्ते ज्ञानस्यैव वासनाख्यं शक्तिरूपं कर्म इति प्रसिद्धम् / एतेन शब्दोऽपि आकाशगुणः प्रतिषिद्धः; विप्रतिपत्तीनामविशेषात् / तथाहि-जैनाः पौद्ग- 10 लिंक तं प्रतिजानन्ति, मीमांसका नित्यद्रव्यम् , शिक्षाकारों मीमांसकविशेषाः वायवीयम् , सौत्रान्तिकाः परमाणुरूपम् , वैयाकरणाः स्फोटात्मकम् , सांख्याः प्रकृतिपरिणामम् इति / तन्न गुणपदार्थोऽपि परपरिकल्पितो विचार्यमाणो घटते / एतेन कर्मपदार्थोऽपि प्रत्याख्यातः। ननु कर्मणो गुणलक्षणाद् विभिन्नलक्षणलक्षितत्वात् कथं तत्प्रत्याख्यानेन अस्य प्रत्या ख्यानम् ? तस्य हि लक्षणम्-" एकद्रव्यमगुण संयोगविभागे- 15 'उत्क्षेपणादीनि पश्च कर्माणिः इति वैशेषिकस्य ष्वनेपक्षं कारणं कर्म / " [वै० सू० 1 / 1 / 17 ] इति / एकद्रव्यम आश्रयो अस्यास्तीति एकद्रव्यम् , न अस्य गुणाः सन्ति स्वयं च पूर्वपक्षः गुणो न भवति इति अगुणम् , संयोगविभागेषु च कर्त्तव्येषु न किञ्चित् कारणमपेक्षते इति अनपेक्षम् / तच्च अनेन लक्षणेन लक्षितं कर्म पञ्चप्रकारं भवति, तथा च सूत्रम्-"उत्क्षेपणम् अपक्षेपणम् आकुञ्चनं प्रसारणं गमनमिति कर्माणि" [वै० सू० 20 1 / 17 ] इति / तच्च ‘उत्क्षिप्यते हस्तः, अपक्षिप्यते पादः, आकुच्यते पाणिः, प्रसार्यते अङ्गलिः' इत्यादिविशिष्टप्रत्ययाद् द्रव्यादर्थान्तरम् / "तत्र उत्क्षेपणम् यद् ऊर्ध्वाऽधःप्रदेशैः संयोग 1 स्थापनस्य श्र० / 2 धर्मविषये तृतीयपृष्ठस्य टिप्पणी (1-7 ) द्रष्टव्या। 3 तच्च साधितं 242 पृष्ठे। ४"वर्णानां तु नित्यानां द्रव्यत्वमेवाङ्गीक्रियते / " शास्त्रदी० 111 / 23 / 5 "तथा च शिक्षाकारा आहः-वायुरापद्यते शब्दतामिति; नैतदेवम् / " शावरभा० 111 / 22 / 6 “उपात्तादिमहाभूतहेतुत्वाङ्गीकृतेर्वनेः // 627 // " तत्त्वसं०। 7 "स्फोटस्याभिन्नकालस्य ध्वनिकालानुपातिनः / ग्रहणोपाधिभेदेन वृत्तिभेदं प्रचक्षते।" वाक्यप० 1 / 75 / 8 'तन्मात्रापञ्चकान्तर्गतः शब्दः प्रकृतिपरिणामरूपः' एतदर्थ सांख्यका० 24 द्रष्टव्या / 9 "स्वोत्पत्त्यनन्तरोत्पत्तिकभावभूतानपेक्षम् इत्यर्थः, तेन समवायिकारणापेक्षायां पूर्वसंयोगाभावापेक्षायां च नासिद्धत्वम् / " वै० उप० 1 / 1 / 17 // 10 उत्क्षेपणादीनां पश्चानामपि लक्षणानि किञ्चिच्छब्दभेदेन प्रशस्तपादभाष्ये (पृ२९१-९२ ) द्रष्टव्यानि /