________________ 278. लघीयस्रयालङ्कारे न्यायकुमुदचन्द्रे [2 विषयपरि० अन्यत्राप्येवमस्तु, किं तत्रापि परत्वाऽपरत्वगुणनिबन्धनत्वसाधनप्रयासेन ? किञ्च, एवं सति मध्यत्वमपि गुणः स्यात् कालकृतस्य दिकृतस्य च मध्यव्यवहारस्य दर्शनात् पराऽपरव्यवहारवत्। 'गुरुत्वञ्च पतनाऽनुमेयम्' इत्ययुक्तम् ; करतैलस्थिते सुवर्णपिण्डादौ पतनं विनाऽपि 'दशपलोऽयम् , पञ्चपलोऽयम्' इति प्रतीतेः। किञ्च, गुरुत्वं नाम द्रव्यस्य पतनशक्तिः, शक्तयश्च प्रति. द्रव्यं स्वस्यां स्वस्यामर्थक्रियायां नानाविधाः, ताः कियत्यः संख्यातुं शक्यन्ते / प्रधानभूता हि षट्कारकशक्तयोऽर्थानां तद्भेदप्रभेदाश्च अनन्ताः, ते चेन्न गण्यन्ते किं गुरुत्वपरिगणनया ? किञ्च, गुरुत्वस्य गुणत्वे लघुत्वमपि गुणः स्याद् अविशेषात् / गुरुत्वाऽभावरूपत्वात् तस्य न गुणत्वमिति चेत् ; गुरुत्वमपि लघुत्वाऽभावः किन्न स्यात् ? ननु गुरुत्वस्य अभावरूपत्वे तार तम्यं न स्यात् , इत्यन्यत्रापि समानम् / न च पतनकर्मकारिण्येव गुरुत्वव्यवहारः; 'मदीयो 10 गुरुः' इति आराध्ये, 'मस्त्रिगुरुः' इति वर्णधर्मे च गुरुत्वव्यवहारदर्शनात् / किञ्च, यदि गुरुत्वं गुणः स्यात् तदा 'कारणगतैर्गुणैः कार्ये गुणाः प्रारभ्यन्ते रूपादिवत्' इत्यभ्युपगमात तन्तुगतेन दशपलपरिमाणेन गुरुत्वेन पटे गुरुत्वमारभ्यमाणं सातिशयं स्यात् परिमाणवत् , तथा च तुलानमनातिशयः स्यात् , न चैवमस्ति / यदपि -'स्यन्दनकर्मकारणं द्रवत्वम्'; तदपि शक्तिविशेषात् नान्यत् / तक्रियोत्पत्तौ विशिष्टा 15 शक्तिरेव हि द्रवत्वम् , 'न च अर्थगताः शक्तयः परिसंख्यातुं शक्यन्ते' इत्युक्तम् / 'तच्च विद्र व्यवृत्ति' इत्य॑प्ययुक्तम् ; तेजसि अभावात् / सुवर्णादौ च तैजसत्वमसिद्धम् , सिद्धौ वा यत् तत्र द्रवत्वमुपलभ्यते तत् संयुक्तसमवायात् पार्थिवमेव रसादिवत् / न च पृथिव्यामपि सर्वस्यां द्रवत्वं संभवति शुष्ककाष्ठादिष्वभावात् / एतेन स्नेहगुणोऽपि प्रत्याख्यातः; नहि सोऽपि सामर्थ्य विशेषादन्यः अपां विशेषगुणो वा 20 घटते, घृततैलादिषु पार्थिवेषु उपलम्भात् अप्सु चाऽनुपलम्भात् , नहि शुद्धाभिरद्भिः स्नाते पुरुषे स्निग्धप्रत्ययो दृष्टः / संग्रहहेतुत्वं वस्तुसामर्थ्यात् पार्थिवलाक्षादीनामपि दृष्टम् / ___ योऽपि संस्कारनिविधः; सोऽप्यनुपपन्नः ; न खलु क्रियाणां सातत्येनोत्पादनसामर्थ्यादन्यः कश्चिद् वेगाख्यो गुणः कुतश्चित्प्रमाणात् प्रतीयते / कथं तर्हि 'वेगेन गच्छति' इति प्रतीतिर्न 1 "अन्यथा मध्यत्वस्यापि स्वीकारप्रसङ्गादिति भूषणः / " न्यायलीला० पृ० 25 / 2 " करतलायुपरिस्थिते द्रव्यविशेषे पातानुपलम्भेऽपि'"" प्रमेयक पृ० 180 पू० / स्या. रत्ना० पृ. 938 / 3 "मस्त्रिगुरुस्त्रिलघुश्च नकारो।" छन्दोमं० 1 / 8 / मगणः त्रिगुरुः भवति / मन्त्रिणि गुरुः भां०, श्र० / 4 “कारणगुणपूर्वकः कार्यगुणो दृष्टः / " वै० सू० 2 / 1 / 24 / 5 पृ. 274 पं० 18 / 6 "पृथिव्यनलयोरप्यस्ति द्रवत्वमित्यनुपपन्नम् ; सुवर्णादीनां ... / " प्रमेयक० पृ० 180 पू० / 7 "घृतादेरपि लोके वैद्यकशास्त्रे च स्निग्धत्वेन प्रसिद्धत्वात् / .." प्रमेयक० पृ० 180 पू० / स्या० रत्ना० पृ० 939 / 8 पृ. 275 पं०३। 9 “न च क्रियातोऽर्थान्तरं वेगः अस्याः शीघ्रोत्पादमात्रे वेगव्यवहारप्रसिद्धः।" प्रमेयक. पृ. 180 उ० / सन्मति. टी० पृ०६८४ / स्या० रत्ना० पृ० 940 / /